कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रद्वितीयम् (2/2)

क्षरस्तु द्रवमात्रे स्यात्क्षारः स्याद्भेषजान्तरे ।क्षीरं दुग्धेऽपि पयसि क्षीरी त्वन्नान्तरे मतः ॥
27.2.121 · p. 262
अनुष्टुप्
क्षीरी वटादिवृक्षे स्यात्क्षुरो वपनसाधने ।क्षुद्रस्तु कृपणे दुष्टे क्षुद्रा स्यान्मधुमक्षिका ॥
27.2.122 · p. 263
अनुष्टुप्
क्षेत्रं सिद्धादिसंस्थाने क्लीबं क्षौरं तु मुण्डने ।क्षौद्रं मधुविशेषे स्यान्मधुमात्रेऽपि गद्यते ॥
27.2.123 · p. 263
अनुष्टुप्