All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
टान्तवर्गः · टचतुर्थम्
॥ इति टतृतीयम् ॥
॥ अथ टचतुर्थम् ॥
करहाटोऽब्जकन्दे स्यात्पुष्पवृक्षप्रभेदयोः ।कार्यपुटस्तु चार्वाकोन्मत्तानर्थकरेषु च ॥
11.3.2 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
कामकूटस्तथा वेश्याप्रियविभ्रमयोरपि ।कुटन्नटस्तु स्योनाके कैवर्त्या अपि मुस्तके ॥
11.3.3 · p. 91
अनुष्टुप्
कुण्डकीटस्तु चार्वाके वचनाभिज्ञपूरुषे ।पतितब्राह्मणीपुत्रे तथा दासीरतेऽपि च ॥
11.3.4 · p. 91
अनुष्टुप्
खञ्जरीटः पक्षिभेदे खड्गरीटस्तु गद्यते ।फलकेऽप्यसिधाराख्यव्रतधारिणि पूरुषे ॥
11.3.5 · p. 91
अनुष्टुप्
गाढमुष्टिस्तु कृपणे कृपाणेऽपि निगद्यते ।चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ॥
11.3.6 · p. 91
अनुष्टुप्
चतुःषष्टिः कलासङ्ख्याप्रभेदे बह्वृचेऽपि च ।विद्याविख्यातविभवे भण्डे चाटुपटुः स्मृतः ॥
11.3.7 · p. 91
अनुष्टुप्
नारकीटोऽश्मकीटे स्यात्स्वदत्ताशाविहन्तरि ।परपुष्टः पिके चान्यपुष्टे स्याद्वाच्यलिङ्गवत् ॥
11.3.8 · p. 91
अनुष्टुप्
परपुष्टा वारनार्यां प्रतिकृष्टं द्विकर्षिते ।गर्ह्ये च प्रतिसृष्टस्तु प्रत्याख्याते च प्रेषिते ॥
11.3.9 · p. 91
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 च (wrong syllable)
यज्ञस्थाने यज्ञवाटं राहूच्छिष्टं रसोनके ।वर्कराटः कटाक्षे स्यात्तरुणादित्यरोचिषि ॥
11.3.11 · p. 92
अनुष्टुप्
नारीपयोधरोत्सङ्गकान्तदन्तनखक्षते ।शिपिविष्टस्तु खलतौ हरौ दुश्चर्मणीश्वरे ॥
11.3.12 · p. 92
अनुष्टुप्
उक्तः श्रुतिकृटुः प्राञ्चलोहेऽहौ पापशोधने ।
11.3.13 · p. 92