All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
कान्तवर्गः · कचतुर्थम् (1/2)
॥ इति कतृतीयम् ॥
॥ अथ कचतुर्थम् ॥
अङ्गारकः कुरण्टे स्यादुल्मुकांशे महीसुते ।अङ्गारिकाऽङ्गारधान्यां तथा किंशुककुड्मले ॥
1.4.1 · p. 31
अनुष्टुप्
स्यादश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च ।अश्मन्तको वृक्षभेदेऽनर्थको निष्प्रयोजने ॥
1.4.3 · p. 31
अनुष्टुप्
अनामिकाऽङ्गुलीभेदे चण्डाले स्यादनामकः ।अनास्तिको वेदवाह्ये वेल्लिते स्यादरालकः ॥
1.4.4 · p. 31
अनुष्टुप्
अनासिकस्तु विग्रे स्यात्पर्वतोर्ध्वे त्वधित्यका ।अट्टालिकाऽपि सौधाग्रे विधवाऽनलका मता ॥
1.4.6 · p. 32
अनुष्टुप्
आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ।आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ॥
1.4.7 · p. 32
अनुष्टुप्
मूषके स्यादाखनिकश्चोरे चापि च सूकरे ।आवेशिकः प्राघुणके चण्डे त्वाक्रोशको मतः ॥
1.4.8 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
आगन्तुकः स्यादतिथौ वैश्ये त्वापणिको मतः ।आम्रातकः पीतनके मता त्वायल्लकाऽरतौ ॥
1.4.9 · p. 32
अनुष्टुप्
आकालिकी विद्युति स्यादाखुभुक् तु बिडालके ।आख्यायिकोपलब्धार्थाऽऽलम्बकस्तु तताङ्गके ॥
1.4.10 · p. 32
अनुष्टुप्
धात्रीफले त्वामलकं धात्र्यामामलकी मता ।आवेशिकं स्यादातिथ्ये विद्या त्वान्वीक्षिकी क्वचित् ॥
1.4.11 · p. 32
अनुष्टुप्
आवेदको ज्ञापके स्यान्मूर्खे त्वागारिको भवेत् ।आमोदको हर्षकारिण्यपि सौगन्धिके भवेत् ॥
1.4.12 · p. 32
अनुष्टुप्
आभासिकः कृत्रिमे स्यादावेशिकस्तु प्राघुणे ।आटीककं तर्णकाल्याः स्थलीषु क्रीडने मतम् ॥
1.4.13 · p. 32
metre not recognisednearly अनुष्टुप्
इन्द्राणिका स्यान्निर्गुण्ड्यां दैवज्ञेक्षणिकौ समौ ।उत्सारको दण्डधर उत्कण्ठोत्कलिके समे ॥
1.4.14 · p. 32
अनुष्टुप्
कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु ।उपासकः सेवके स्यादूर्ध्वलोकस्त्रिविष्टपे ॥
1.4.15 · p. 33
अनुष्टुप्
उपत्यकाऽद्रेरासन्नभूमावुक्ता मनीषिभिः ।एरण्डे तूरुवूकः स्याद् घटीयन्त्रे तु शाब्दिकाः ॥
1.4.16 · p. 33
अनुष्टुप्
उद्घाटकं विदुश्चोपधान उच्छीर्षकं मतम् ।एडमूकोऽन्यलिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते ॥
1.4.17 · p. 33
अनुष्टुप्
कटिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः ।कपर्दको जटाजूटे धूर्जटेश्च वराटके ॥
1.4.18 · p. 33
अनुष्टुप्
कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ।कलविङ्कः स्मृतो ग्रामचटके च कलिङ्गके ॥
1.4.19 · p. 33
अनुष्टुप्
कनीनिका तारकेऽक्ष्णः स्यात्कनिष्ठाङ्गुलौ च सा ।कलामकस्तु कलमे करशूकं नखे मतम् ॥
1.4.20 · p. 33
अनुष्टुप्
कलन्दिका सर्वविद्या पृष्ठास्थनि कशेरुका ।कदम्बकः समूहे स्यान्मरीचादौ कटुत्रिकम् ॥
1.4.21 · p. 33
अनुष्टुप्
कम्पिल्लिकौषधिभिदि कण्डोलः पिटके मतः ।कर्परिकाऽमृतासङ्गे भवेत्कट्टारिकाऽऽयुधे ॥
1.4.22 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
कञ्चुलिका तु कूर्पासे प्रकोष्ठे तु कलाचिका ।स्यात्कुलीरे कर्कटकः तथा राश्यन्तरेऽपि च ॥
1.4.23 · p. 33
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable); pāda 3, syllable 5 क (wrong syllable)
कार्तान्तिकस्तु दैवज्ञे कृतान्तस्य गणेऽपि च ।काकरूकोऽप्युलूके स्यान्निःस्वे स्त्रीजितदम्भयोः ॥
1.4.25 · p. 34
अनुष्टुप्
दिगम्बरे भीरुके च स्यात्कामान्तक ईश्वरे ।काकलकः कण्ठमणावूर्जे कार्तिकिको मतः ॥
1.4.26 · p. 34
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 क (wrong syllable)
भक्ष्यकारे कान्दविकः कारणिकः परीक्षके ।कृपाशीले कारुणिकः कालीयकं च जोङ्गके ॥
1.4.27 · p. 34
metre not recognised
अपि कावचिकं प्राहुर्बुधाः कवचिनां गणे ।कामन्दको मुनेर्भेदे भीते कान्दिशीकः स्मृतः ॥
1.4.28 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शी (wrong syllable)
कापटिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि ।अथ क्लीतकिका नील्यां किरणाङ्को दिवाकरे ॥
1.4.29 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
भूलतायां किञ्चुलुको वनमुद्गे कुलीनकः ।निःस्वे (?) कुरबकः शोणाम्लानझिण्टिप्रभेदयोः ॥
1.4.30 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कि (wrong syllable)
कुरण्टकः पीतपुष्पाम्लानझिण्टिकयोः पुमान् ।तुवर्यां च कुलाल्यां च कस्तूर्यां (?) च कुलत्थिका ॥
1.4.31 · p. 34
अनुष्टुप्
कूष्माण्डकोऽस्रपभिदि फले कूष्माण्डकं मतम् ।कूष्माण्डकस्तु कर्कारौ कुम्भ्यां कुमुदिका मता ॥
1.4.32 · p. 34
अनुष्टुप्
कूर्पासकः कञ्चुके स्याद्वृध्याजीवे कुसीदकः ।कुमारकस्तु वरणे कार्तिकेयकबालयोः ॥
1.4.33 · p. 34
अनुष्टुप्
कुन्दुरुकी तु सल्लक्यां कुन्दुरुकस्तु तद्भवे ।कुमालकस्तु सौवीरदेशे कुम्भाण्डकोऽसुरे ॥
1.4.34 · p. 35
अनुष्टुप्metre not read in every line
कुठेरकस्तु कथितः शब्दविद्भिः कठिञ्जरे ।कृपाणिकाऽसिपुत्र्यां स्यादसौ तूक्तः कृपाणकः ॥
1.4.35 · p. 35
अनुष्टुप्
कैराटकस्तु गदितः शब्दविद्भिर्विषान्तरे ।कोशातकी पटोल्यां च पुंसि घोषककेशयोः ॥
1.4.37 · p. 35
अनुष्टुप्
स्यात्कौशलिकमुत्कोचे खड्गे कौक्षेयकं विदुः ।कौलेयको निगदितः शुनि चापि महाकुले ॥
1.4.38 · p. 35
अनुष्टुप्
कौमोदकी गदाभेदे लोपामुद्रा तु कौषिकी ।भवेत्कौक्कुटिकोऽदूरप्रेरिताक्षे च दाम्भिके ॥
1.4.39 · p. 35
अनुष्टुप्
गवेधुका बीजभेदे गर्भपाकी तु षष्टिके ।ग्रामेयकस्तु ग्रामीणे ग्रामे गुडेरकं विदुः ॥
1.4.41 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 गु (wrong syllable)
गिरियकः क्रीडनीये नृत्ये गुणनिकां विदुः ।तथा गुणनिकां प्राहुः शून्याङ्के पाठनिश्चये ॥
1.4.42 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
ग्रैवेयकं न द्वयोस्तु मतं ग्रीवाविभूषणे ।गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥
1.4.43 · p. 35
अनुष्टुप्
गोमेदकं मणौ पीते काकोले पत्रकेऽपि च ।वलिरे स्याद्गोकुलिकः पङ्कस्थगव्युपेक्षके ॥
1.4.44 · p. 36
अनुष्टुप्metre not read in every line
गोजिह्विका शाकभेदे गोष्ठे गोस्थानकं विदुः ।अथ घर्घरिका क्षुद्रघण्टावादित्रदण्डयोः ॥
1.4.45 · p. 36
अनुष्टुप्
कोविदारे चमरिकश्चञ्चरीकस्तु षट्पदे ।चण्डारिका भक्ष्यभेदेऽगदङ्कारे चिकित्सकः ॥
1.4.47 · p. 36
अनुष्टुप्
चक्रवाकश्च चक्राङ्के तथोक्तः कोकपक्षिणि ।चण्डातकं चलनकस्त्वर्धोरुकांशुके मतम् ॥
1.4.48 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
अथ चातुरकश्चक्रगण्डौ पुंस्यभिधेयवत् ।गोचरे लेाचनस्यापि चाटुकारे नियन्तरि ॥
1.4.49 · p. 36
अनुष्टुप्metre not read in every lineimpossible sign sequence: गोचरे लेाचनस्याnearly अनुष्टुप्
जर्जरीकं बहुच्छिद्रे जरातुरे निगद्यते ।जलालोका जलौकायां प्रलये तु जिहानकः ॥
1.4.50 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
विषवैद्ये जाङ्गलिको जागरूकस्तु जाग्रति ।जीवान्तको वागुरिके विषे जीवान्तकं मतम् ॥
1.4.51 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
जीवन्तिका गुडूच्यां स्याज्जीवाख्यशाकवन्दयोः ।जीवत्तोका जीवद्वत्सा वृत्तौ जीवनिका मता ॥
1.4.52 · p. 36
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ख्य (wrong syllable); pāda 3, syllable 5 जी (wrong syllable)
तर्त्तरीकं वहित्रे स्यान्न द्वयोः पारगे त्रिषु ।तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥
1.4.54 · p. 37
अनुष्टुप्
फलत्रिके त्रिकटुकं गोक्षुरेऽपि त्रिवर्णकम् ।त्रिकण्टको गोक्षुरके जलजस्थावरान्तरे ॥
1.4.55 · p. 37
अनुष्टुप्
त्रिपत्रकः स्यान्मालूरेऽप्यायुधे स्यात् त्रिशीर्षकम् ।रेखात्रयान्विते भाले त्रिपताकमितीरितम् ॥
1.4.56 · p. 37
अनुष्टुप्
त्रिशीर्षको दैत्यभेदे तिन्तिडीकं तथौषधे ।तीक्ष्णशूको यवे क्षारे काञ्जिके तु तुषोदकम् ॥
1.4.57 · p. 37
अनुष्टुप्
काच्छ्यां मता तुवरिका शरे तेजनकाऽभिधः ।रङ्गाजीवे तौलिकिको बौद्धे तौतातिको मतः ॥
1.4.58 · p. 37
अनुष्टुप्
तौर्यत्रिकं नृत्तगीतवाद्यत्रिकमुदीरितम् ।दलाढकः स्वयञ्जाततिले प्रश्न्यां च गैरिके ॥
1.4.59 · p. 37
अनुष्टुप्
कर्चूरके द्राविडको देशे जात्यन्तरेऽपि च ।द्विनग्नको दुश्चर्मणि रूप्ये दुर्वर्णकं मतम् ॥
1.4.62 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श्च (wrong syllable)
वृध्याजीवे द्वैगुणिको द्वाःस्थे दौवारिको मतः ।अथाश्वानां गतावुक्तं सद्भिर्धौरितकं त्विति ॥
1.4.63 · p. 37
अनुष्टुप्
नपुंसको भवेत्षण्ढे, पोतवाहे नियन्तरि ।नियामकः कर्णधारेऽप्युक्तो निश्चारकस्तथा ॥
1.4.64 · p. 38
अनुष्टुप्
पुरीषस्य क्षये स्वैरे तथैव च समीरणे ।निर्ग्रन्थकः स्यात्क्षपणे निष्फलेऽप्यपरिच्छदे ॥
1.4.65 · p. 38
अनुष्टुप्
निकोचकः स्यादङ्कोटे कञ्चुके च निचोलकः ।एकान्ते निःशलाकः स्याद्वनमुद्गे निगूढकः ॥
1.4.66 · p. 38
अनुष्टुप्
निर्दिग्धिका भवेद्व्याघ्र्यां निन्दकेऽपि निवारकः ।निरर्थकोऽर्थशून्ये स्यादक्षपादे तु कथ्यते ॥
1.4.67 · p. 38
अनुष्टुप्
नैयायिकोऽथ निस्त्रिंशायुधे नैस्त्रिंशिकं विदुः ।प्रचलाकः शराघाते शिखण्डे च भुजङ्गमे ॥
1.4.68 · p. 38
अनुष्टुप्
प्रकीर्णकं चामरे स्याद्विस्तारे ना तुरङ्गमे ।पर्यस्तिका परिकरे विटे पल्लवको मतः ॥
1.4.69 · p. 38
अनुष्टुप्
प्रसूतिका तु सूतायां ककुभे तु प्रसेवकः ।प्रत्यनीकस्त्वरातौ स्याल्लताभेदे पटोलिका ॥
1.4.70 · p. 38
अनुष्टुप्
प्रयाणकं स्यात्प्रस्थाने क्षुद्रारामे प्रसीदिका ।प्रवाहिका संग्रहण्यां वमौ प्रच्छर्दिका मता ॥
1.4.71 · p. 38
अनुष्टुप्
प्रवल्हिकावत्कथिता कथायां च प्रहेलिका ।टङ्कणे स्यात्पाचनकः प्राड्विवाकस्तु कीर्त्यते ॥
1.4.72 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
व्यवहारेष्वधिकृते पत्तौ पादातिको भवेत् ।पाञ्चालिका वस्त्रक्लृप्तपुत्रिकायां निगद्यते ॥
1.4.73 · p. 38
अनुष्टुप्
आगन्तौ स्यात्प्राघुणको वृत्ते प्रामाणिकं विदुः ।प्रालम्बिका हारभेदेऽप्यथ सीवनसाधने ॥
1.4.74 · p. 39
अनुष्टुप्
सूत्रे पिप्पलकं प्राहुस्तथा वक्षोजवृन्तके ।तगरे मदनाख्ये च तरौ पिण्डीतको मतः ॥
1.4.75 · p. 39
अनुष्टुप्
पिचण्डिका पिण्डिकाख्ये देहस्यावयवे भवेत् ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः ॥
1.4.76 · p. 39
अनुष्टुप्
पुण्डरीकं सिताम्भोजे सितछत्रे च भेषजे ।पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि च ॥
1.4.77 · p. 39
अनुष्टुप्
वर्द्धापके (ने) भवेत्पूर्णानकं च पटहे तथा ।सारसे पुष्कराङ्कः स्यात्पृषदाज्ये पृषातकम् ॥
1.4.78 · p. 39
अनुष्टुप्
तपस्ये स्यात्फाल्गुनिको देशे जातौ च बर्बरे ।बलाहको गिरौ मेघे दैत्यनागविशेषयोः ॥
1.4.80 · p. 39
अनुष्टुप्
बलान्तको महेन्द्रेऽथ वसन्तर्तौ बलाङ्गकः ।जम्बूफले बार्हतकं कलिद्रौ तु बिभीतकः ॥
1.4.81 · p. 39
अनुष्टुप्
कण्टकार्यां बृहतिका नृपे भट्टारको भवेत् ।भयानको भवेद्व्याघ्रे रसे राहौ भयङ्करे ॥
1.4.82 · p. 39
अनुष्टुप्
भल्लातकस्तरुभिदि भृङ्गे भ्रमरकस्तथा ।गैरिकेऽपि भ्रमरकस्तद्वत्स्याच्चूर्णकुन्तले ॥
1.4.83 · p. 39
अनुष्टुप्
भार्याटिकः पुमान् भार्यानिर्जिते च मृगान्तरे ।भूरूढकं तु छत्राके तथा भृष्टामिषे मतम् ॥
1.4.84 · p. 40
अनुष्टुप्
भवेन्मरुवकः पुष्पभिच्छल्यद्रुफणिज्झके ।मण्डोदकं चित्ररागे भवेदातर्पणेऽपि च ॥
1.4.85 · p. 40
अनुष्टुप्
मतं मण्डलकं कुष्ठभेदे बिम्बे च दर्पणे ।सस्यभेदे मर्कटकस्तथा वानरलूतयोः ॥
1.4.86 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
मयूरकस्त्वपामार्गे क्लीबं तुत्थाञ्जने मतम् ।मधूलिका मधुश्रेण्यां जलजे तु मधूलकः ॥
1.4.87 · p. 40
अनुष्टुप्
मधुद्रुमेऽथ कथितो धान्यभेदे मयुष्ठकः ।मङ्गल्यको मसूरे स्यात् क्लीबे मङ्गलकर्मणि ॥
1.4.88 · p. 40
अनुष्टुप्
मकुष्ठकस्तु मुद्गे स्यान् मूर्व्यामुक्ता मधूलिका ।भवेन्मधुरको जीवकाख्ये तु धरणीरुहे ॥
1.4.89 · p. 40
अनुष्टुप्
हारभेदे माणवको बाले कुपुरुषे बटौ ।मध्वासवे माधवको राधे मद्ये नपुंसकम् ॥
1.4.91 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
मृष्टेरुको वदान्येऽपि मृष्टाशिन्यतिथिद्विषि ।मेधाविको विदि ज्योतिषिके मौहूर्तिको मतः ॥
1.4.92 · p. 40
अनुष्टुप्
यवानीकाऽजमोदायां यायजूकस्तु याजके ।स्याद्याच्ञयाऽऽप्ते याचितकं युवतीनां तु संहतौ ॥
1.4.93 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भवेद्यौवतकं चाथ दिवसे स्याद्रतर्द्धिकम् ।सुखस्नाने मङ्गले च राजन्यकमुदीरितम् ॥
1.4.94 · p. 41
अनुष्टुप्
राज्ञां सङ्घे राधरङ्कुर्भवेत्सीरे च शीकरे ।घनोपले रैवतको गिरौ रोहितकस्तरौ ॥
1.4.95 · p. 41
अनुष्टुप्
ललाटिका पत्रपाश्या मालाभेदे ललन्तिका ।ललामकं विभूषायां मूले लामज्जकं विदुः ॥
1.4.96 · p. 41
अनुष्टुप्
लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ।कार्याक्षमे च गदितस्त्वथ लाक्षणिकः पुनः ॥
1.4.97 · p. 41
अनुष्टुप्
सामुद्रिकज्ञेऽग्निशिखातरौ लाङ्गलिकी मता ।भवेल्लावणिकं सर्वं यद्यल्लवणसंस्कृतम् ॥
1.4.98 · p. 41
अनुष्टुप्
लेखहारे लेखनिको यः स्वहस्तेन वा लिखेत् ।लेखेषु परहस्तेन चक्रवाले तु पर्वते ॥
1.4.99 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ले (wrong syllable)
लोकालोको लोहितकः पद्मरागमणौ मतः ।वक्रोष्ठिका च हसने स्मृतं चोचे वराङ्गकम् ॥
1.4.100 · p. 41
अनुष्टुप्
आम्रातके वर्षपाकी पञ्चाङ्गुले व्यडम्बकः ।वरारकं वज्रमणौ रज्जौ तु स्याद्वराटकः ॥
1.4.102 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्गु (wrong syllable)
वरण्डको वर्तुले च गदितस्तत्त्ववेदिभिः ।वडवाग्नौ वाणिजको विदितश्च वणिज्यपि ॥
1.4.104 · p. 42
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वा (wrong syllable)
वासन्तिका लताभेदे भारयष्टौ विहङ्गिका ।वृद्ध्याजीवे वार्धुषिको वावदूकस्तु वाग्मिनि ॥
1.4.105 · p. 42
अनुष्टुप्
वाद्यालकस्तु घण्टादौ वागुरिकस्तु जालिके ।विनायकस्तु गरुडे जिनभेदे गुरावपि ॥
1.4.106 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
विनायकापि रण्डायां हेरम्बे तु विनायकः ।विकूणिका स्यान्नासायां वैणिके तु विकूणिकः (?) ॥
1.4.107 · p. 42
अनुष्टुप्
वितुन्नकस्तु धान्याके झाटामलमयूरके ।वितुन्नकं हेमतारे तिलके स्याद्विशेषकम् ॥
1.4.108 · p. 42
अनुष्टुप्
नेतर्येकार्थसम्बन्धे प्राहुः श्लोकत्रयेऽपि तत् ।विछन्दकः प्रभेदेषु निन्दके तु विदूषकः ॥
1.4.109 · p. 42
अनुष्टुप्
विषान्तकः स्मरहरे हरिताले विडालकम् ।विकर्णिको देशभेदे पादस्फोटे विपादिका ॥
1.4.110 · p. 42
अनुष्टुप्
विरूढकं तु छत्राके कूपके तु विदारकः ।विप्रश्नकस्तु दैवज्ञे पामायां स्याद्विचर्चिका ॥
1.4.111 · p. 42
अनुष्टुप्
वृन्दारकः स्यादमरे वृषभाङ्को महेश्वरे ।वैदेहकस्तु शूद्रायां वैश्येनोत्पन्नसन्ततौ ॥
1.4.112 · p. 42
अनुष्टुप्
मणिकारे वैकटिको भृत्ये वैतनिको मतः ।वैरङ्गिको विरागार्हे शास्त्रे वैशेषिकं भवेत् ॥
1.4.114 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
आस्फोटन्यां वेधनिका वैतंसिकस्तु सौनिके ।वैहासिको हास्यजीवे भवेद्वैनयिको रथे ॥
1.4.115 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
वैनाशिकः स्यात्क्षणिके परतन्त्रोर्णनाभयोः ।शतानीको भवेद्वृद्धे राजभेदे तथा मुनौ ॥
1.4.116 · p. 43
अनुष्टुप्
क्षुद्रशङ्खे शङ्खनकः शरलक्ष्ये शरव्यकम् ।शालावृकः शृगाले स्यात्सारमेये बलीमुखे ॥
1.4.117 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शाकुनिको वागुरिके नभः श्रावणिको मतः ।शिखण्डिकः काकपक्षे भवेदपि शिखण्डकः ॥
1.4.118 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 कु (wrong syllable)
शिवानकं पितृवने वदन्ति विबुधा जनाः ।श्रीवृक्षकमिति प्राहुरावर्तं हयवक्षसि ॥
1.4.119 · p. 43
अनुष्टुप्
श्रीपर्णिका तु कुम्भ्यां स्याच्छृङ्गाटकं चतुष्पथे ।शृङ्गाटकं तथा वारिकण्टके च निगद्यते ॥
1.4.120 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)