All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
खान्तवर्गः · खद्वितीयम्
॥ अथ खद्वितीयम् ॥
आखुः स्यान्मूषके तूखा कृष्णवध्वां निगद्यते ।नखः कररुहे शङ्खे शुक्तौ स्त्रीक्लीबयोर्नखी ॥
2.2.1 · p. 53
अनुष्टुप्
नपुंसकं तु नखरे गन्धद्रव्येऽपि कुत्रचित् ।न्युङ्खः सम्यङ्मनोज्ञे च साम्नः षट्प्रणवेषु च ॥
2.2.2 · p. 53
अनुष्टुप्
पुङ्खस्तु शरमूले स्यात्प्रेङ्खा पर्यटनेऽपि च ।नृत्ये भवेदश्वगतावपि संवेशनान्तरे ॥
2.2.3 · p. 53
अनुष्टुप्
मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ।सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् ॥
2.2.4 · p. 54
अनुष्टुप्
मूर्खो मूढे मखो यज्ञे लेखो लेख्ये सुरेऽपि च ।तथैव विदितः सद्भिर्लेखो वाचिकहारके ॥
2.2.5 · p. 54
अनुष्टुप्
मर्यादायां भवेल्लेखा लिपिराजिकयोरपि ।विङ्खो गतिविशेषे च शूकशिम्ब्यां च नर्तने ॥
2.2.6 · p. 54
अनुष्टुप्
शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेष्वपि ।शङ्खी हरौ समुद्रे ना शङ्खवत्यभिधेयवत् ॥
2.2.7 · p. 54
अनुष्टुप्
शाखी स्यात्पादपे पुंसि तद्वद्विप्रजने मतः ।शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च ॥
2.2.8 · p. 54
अनुष्टुप्
शिखा शिखायां चूडायां ज्वालायामग्रमात्रके ।लाङ्गलिक्यां च शाखायां चूडायां च शिखण्डिनः ॥
2.2.9 · p. 54
अनुष्टुप्
शिखी वह्नौ बलीवर्दै शरे केतुग्रहे द्रुमे ।मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गवत् ॥
2.2.10 · p. 54
अनुष्टुप्
सखा सहाये मित्रे च वयस्यायां सखी मता ।सुखं शर्मणि नाके च सुखा पुर्यां प्रचेतसः ॥
2.2.11 · p. 54
अनुष्टुप्