कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

डान्तवर्गः · डद्वितीयम्

॥ अथ डद्वितीयम्‌ ॥

अडः स्यादुद्यमे त्वण्डं मुष्के पेश्यां नपुंसके ।ईडा स्तुतौ यज्ञपात्रे नाड्यां च बुधयोषिति ॥
13.2.1 · p. 96
अनुष्टुप्
वसुमत्यां सौरभेय्यां वचने चापि कथ्यते ।कण्डो मदे तु कार्श्ये स्यात्कण्डूः प्रोक्ता तु रुग्भिदि ॥
13.2.2 · p. 96
अनुष्टुप्
काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः ।कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि गद्यते ॥
13.2.3 · p. 96
अनुष्टुप्
क्रीडा केलिप्रकारे च स्यात्खेलाज्ञानयोरपि ।कुण्डं देवजलाधारे मानभेदेऽग्निकेतने ॥
13.2.4 · p. 96
अनुष्टुप्
पतिवत्नीसुते जारात् कुण्डी प्रोक्ता कमण्डलौ ।क्रोडः मन्दे पुरे क्रोडो न पुमानङ्करक्षसोः ॥
13.2.5 · p. 96
अनुष्टुप्
क्रोडः सूकरमातङ्ग्योः ? क्रोडं क्रोडा च वक्षसि ।खण्डोऽस्त्री शकले चेक्षुविकारमणिदोषयोः ॥
13.2.6 · p. 96
अनुष्टुप्
खण्डी मानान्तरे खेडा रुजायां च निगद्यते ।खदे खेडो निगदितः खोटवच्छब्दवेदिभिः ॥
13.2.7 · p. 96
अनुष्टुप्
गडस्तु सेचने गण्डः खड्गिन्यपि निगद्यते ।वरे योगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च ॥
13.2.8 · p. 96
अनुष्टुप्
चिह्नवीरकपोलेषु हयभूषणबुद्बुदे ।गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥
13.2.9 · p. 96
अनुष्टुप्
गुडः स्यादिक्षुविकृतौ हस्तिसन्नाहगोलयोः ।गुडा स्नुह्यां तु गदिता गुलिकायां तु योदिता ॥
13.2.10 · p. 97
अनुष्टुप्
गोण्डः पामरजातौ च वृद्धनाभौ च वाच्यवत् ।चण्डस्तु दैत्यभेदे स्यात्तिन्तिडे यमकिङ्करे ॥
13.2.11 · p. 97
अनुष्टुप्
चण्डोऽतिकोपने चण्डी मृडान्यां कोपनस्त्रियाम् ।चण्डा धनहरीशङ्खपुष्प्योस्तीव्रे तु वाच्यवत् ॥
13.2.12 · p. 97
अनुष्टुप्
चूडा शिखायां वलभौ तथा बाहुविभूषणे ।चोडो देशविशेषे स्यादपि प्रावरणान्तरे ॥
13.2.13 · p. 97
अनुष्टुप्
जडो मूर्खे हिमग्रस्ते शूकशिम्ब्यां जडा मता ।ताडस्तु ताडने घोषे मुष्टिमेयतृणादिषु ॥
13.2.14 · p. 97
अनुष्टुप्
ताडी पत्रद्रुमे चाथ मुखे तुण्डमुदीर्यते ।तूडा तोडा ताडने स्याद्दण्डोऽस्त्री लगुडे पुमान् ॥
13.2.15 · p. 97
अनुष्टुप्
व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ।सैन्ये काले कालमाने चण्डांशोः पारिपार्श्वके ॥
13.2.16 · p. 97
अनुष्टुप्
दमे यमेऽभिमाने चोपायभेदे च कीर्त्तितः ।दण्डो मानार्थको यः स्यात्सविंशतिशताङ्गुलः ॥
13.2.17 · p. 97
अनुष्टुप्
व्यूहभेदेऽपि कथितो द्राडो विशरणे मतः ।ध्राडोऽपि स्याद्विशरणे तृणभेदे नडो मतः ॥
13.2.18 · p. 97
अनुष्टुप्
नलवच्छब्दभेदज्ञैर्नाडी नाले व्रणान्तरे ।शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च ॥
13.2.19 · p. 97
अनुष्टुप्
तथा षट्क्षणकालेऽपि नीडं स्थानकुलाययोः ।पण्डः षण्ढे धियां पण्डा पाण्डुस्तु नृपतौ सिते ॥
13.2.20 · p. 97
अनुष्टुप्
पिण्डः सान्द्रे बले बोले गृहाङ्गे जीवनायसोः ।देहेऽपि च जपापुष्पे निवापे सिल्हकेऽप्यथ ॥
13.2.21 · p. 98
अनुष्टुप्
पिण्डी त्वलाबुखर्जूरतगरेषु च कथ्यते ।पीडा कृपाशिरोमालाऽपमर्दसरलद्रुषु ॥
13.2.22 · p. 98
अनुष्टुप्
भाण्डं पात्रेऽश्वभूषायां भूषामात्रे वणिग्धने ।भण्डः कुशीलवे मण्डः शाकभेदे च मस्तुनि ॥
13.2.23 · p. 98
अनुष्टुप्
पञ्चाङ्गुले त्वामलक्यां मण्डा स्यात्सारपिच्छयोः ।अस्त्रियां दैत्यभेदे तु मुण्डः स्यान्मुण्डिते त्रिषु ॥
13.2.24 · p. 98
अनुष्टुप्
मुण्डा चौषधभेदे स्त्री मुण्डा स्याद्विधवास्त्रियाम् ।मस्तके त्वस्त्रियां रण्डा मूषपर्ण्यधवास्त्रियोः ॥
13.2.25 · p. 98
अनुष्टुप्
रोडः क्षोभे भवेत्पुंसि तृप्ते स्याद्वाच्यलिङ्गकः ।वण्डा तु पांशुलायां स्यात्त्रिषु हस्तादिवर्जिते ॥
13.2.26 · p. 98
अनुष्टुप्
वण्डो विभागे वाडः स्यादाप्लवे सर्पहिंस्रयोः ।व्याडः शुण्डा पानगृहहस्तिहस्तसुरासु च ॥
13.2.27 · p. 98
अनुष्टुप्
अप्यम्बुहस्तिनीवेश्यास्वपि शण्डो रुजाविधौ ।सङ्घाते च भवेच्छाडा श्लाघावचसि योषिति ॥
13.2.28 · p. 98
अनुष्टुप्
शैडाऽनादौ भवेच्छौण्डो मदमत्ते च विश्रुते ।शौण्डी भवेत्तु पिप्पल्यां षण्डं पद्मादिसंहतौ ॥
13.2.29 · p. 98
अनुष्टुप्
आह्वाने तु भवेद्धण्डे नाट्योक्तौ स्वसखीं प्रति ।हुण्डः स्यादथ सङ्घाते हुण्डमावरणे तथा ॥
13.2.30 · p. 98
अनुष्टुप्
हरणे च हुडा हूडो गतौ हेडस्त्वनादरे ।हेडा चाथ गतौ होडा क्ष्वेडः कर्णामयध्वनौ ॥
13.2.31 · p. 98
अनुष्टुप्
गरले शङ्करे चापि लेाहितार्कफले तथा ।क्ष्वेडं तु घोषपुष्पे स्यात्तथैव च दुरासदे ॥
13.2.32 · p. 99
अनुष्टुप्metre not read in every lineimpossible sign sequence: करे चापि लेाहितार्nearly अनुष्टुप्
क्ष्वेडा वंशशलाकायां सिंहनादे तु योषिति ।कुटिले वाच्यलिङ्गः स्याद्वंशशल्येऽपि च स्त्रियाम् ॥
13.2.33 · p. 99
अनुष्टुप्

॥ इति डद्वितीयम्‌ ॥

॥ अथ डतृतीयम्‌ ॥

आमण्डं प्राहुरेरण्डे मण्डवत्तद्विदो जनाः ।करण्डी सारिकायां स्यात्तस्यां चित्रपदा यथा ॥
13.2.34 · p. 99
अनुष्टुप्
करण्डो मधुकोशासिकारण्डेषु दलाढके ।कुरण्डोऽपि च दीर्घादिसुरज्येष्ठ्ये च सम्मतः ॥
13.2.35 · p. 99
अनुष्टुप्
तथा निगदिता स्त्री च करण्डोच्चतरा बकाः ? ।कूष्माण्डो गणभेदेऽपि भ्रूणे कर्कारुकेऽपि च ॥
13.2.36 · p. 99
अनुष्टुप्
कूष्माण्डी त्वौषधीगौर्योः कोदण्डो नीवृदन्तरे ।कार्मुके भ्रुवि सर्पारौ गरुडो गारुडं पुनः ॥
13.2.37 · p. 99
अनुष्टुप्
सर्पमन्त्रे मरकते तरण्डस्त्वाप्लवे मतः ।बडिशीसूत्रसम्बद्धवस्त्रकाष्ठादिनिर्मिते ॥
13.2.38 · p. 99
अनुष्टुप्
नौकायामपि न स्त्री स्याच्चामुण्डा देवतान्तरे ।तिन्तिडी स्यात्तु चिञ्चायां तथा वृक्षाम्लकेऽपि च ॥
13.2.39 · p. 99
अनुष्टुप्
द्राविडः स्याज्जनपदे सङ्ख्याभिद्वेधमुख्ययोः ।निर्गुण्डी नीलशेफाल्यां सिन्धुवारद्रुमेऽपि च ॥
13.2.40 · p. 99
अनुष्टुप्
प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ।प्रकाण्डो विटपे शास्त्रे मूलशाखान्तरे तरोः ॥
13.2.41 · p. 100
अनुष्टुप्
शस्ते पिचिण्ड उदरे पशोरवयवे पुमान् ।पूत्यण्डः स्यात्पूतिकीटे तथा जन्त्वन्तरेऽपि च ॥
13.2.42 · p. 100
अनुष्टुप्
पोगण्डः स्याद्द्वयोर्भेदे तथा पौगण्ड ईरितः ।भृशण्ड्यायुधभेदे स्याद्भेरुण्डा देवतान्तरे ॥
13.2.43 · p. 100
अनुष्टुप्
तथैव यक्षिणीभेदे वाच्यवत्तु भयानके ।मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥
13.2.44 · p. 100
अनुष्टुप्
मार्तण्डः स्यादुष्णरश्मौ क्रोडेऽपि परिकीर्तितः ।वरण्डो मुखरोगे स्याद्वरण्डा तु निगद्यते ॥
13.2.45 · p. 100
अनुष्टुप्
सारिका वर्त्तिशस्त्रभिद्बहुधेनुषु योषिति ।वितण्डा व्यर्थवादे स्यात्कच्चीशाके शिलाह्वये ॥
13.2.46 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्त्र (wrong syllable)
करवीर्यां च कथिता शिखण्डो बर्हचूडयोः ।शरण्डस्तु पुमान् धूर्ते सरटे भूषणान्तरे ॥
13.2.47 · p. 100
अनुष्टुप्
शिखण्डी ना कुक्कुटे स्याद्गाङ्गेयारिमयूरयोः ।सिहुण्डवच्च सेहुण्डो वृक्षभेदे निगद्यते ॥
13.2.48 · p. 100
अनुष्टुप्