कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

सान्तवर्गः · सतृतीयम्

॥ इति सद्वितीयम्‌ ॥

॥ अथ सतृतीयम्‌ ॥

अलसः पादरोगे स्यात्क्रियामन्दे द्रुमान्तरे ।अलसा हंसपद्यां चाप्यभ्यासोऽभ्यसनेऽन्तिके ॥
32.2.1 · p. 336
अनुष्टुप्
अरसो रसशून्ये स्यादाश्वासः पुंसि निर्वृतौ ।आख्यायिकापरिच्छेदे हितस्याशंसनेऽपि च ॥
32.2.2 · p. 336
अनुष्टुप्
आभासो भानमात्रे स्यादि(ष्वा)सः कार्मुके पुमान् ।त्रिषु स्यात्क्षेपके चेषो(रुच्छ्वा)सः प्राणने मतः ॥
32.2.3 · p. 336
metre not recognised
उच्छ्वासश्च तथाऽऽश्वासगद्यबन्धगुणान्तरे ।उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत् ॥
32.2.4 · p. 337
अनुष्टुप्
उद्वासः पलले ? प्रोक्तः शब्दतत्त्वपरीक्षकैः ।कीकसः कृमिजातौ स्यादस्थिन्यपि नपुंसकम् ॥
32.2.5 · p. 337
अनुष्टुप्
कूर्पासं कञ्चुके प्राहुर्दन्त्यान्तं शाब्दिका जनाः ।गोनासः सर्पभेदे स्याच्छिलिन्ध्रेऽपि प्रचक्षते ॥
32.2.6 · p. 337
अनुष्टुप्
पिष्टवर्त्यां तु चमसां वदन्ति विबुधा जनाः ।चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् ॥
32.2.7 · p. 337
अनुष्टुप्
तमोवत्तमसं प्राहुरन्धकारे तु तद्विदः ।तामसी निशि दुर्गायां तामसो भुजगे मतः ॥
32.2.8 · p. 337
अनुष्टुप्
तमोगुणयुते पुंसि पनसः कण्टकीफले ।वनान्तरे कण्टके च कपिभेदेऽपि गद्यते ॥
32.2.9 · p. 337
अनुष्टुप्
स्त्रियां रोगप्रभेदे स्याद् हृष्टे स्यात्पायसः पुमान् ।श्रीवासे परमान्ने च क्लीबे पायसमुच्यते ॥
32.2.10 · p. 337
अनुष्टुप्
पीनसो रोगभेदे स्यात्तत्रैव स्यादपीनसः ।पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे ॥
32.2.11 · p. 337
अनुष्टुप्
बिभत्सो नाऽर्जूने क्रूरे घृणात्मविकृते त्रिषु ।मानसं तु सरोभेदे स्वान्तेऽपि च नपुंसकम् ॥
32.2.12 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्जू (wrong syllable)
हर्षे वेगे च रभसो यातुधाने तु राक्षसः ।चण्डायां राक्षसी प्रोक्ता लालसस्तु निगद्यते ॥
32.2.13 · p. 337
अनुष्टुप्
तृष्णातिरेकयाच्ञासु तथौत्सुक्येऽपि गद्यते ।वतंसः कर्णपूरे स्याच्छेखरेऽप्यवतंसवत् ॥
32.2.14 · p. 338
अनुष्टुप्
विलासो हारभेदे स्याल्लीलायामपि पुंस्ययम् ।वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् ॥
32.2.15 · p. 338
अनुष्टुप्
श्रीवासो वृकधूपे स्यात्पङ्कजे च रमापतौ ।श्रेयो मुक्ते शुभे धर्मेऽतिप्रशस्ते तु वाच्यवत् ॥
32.2.16 · p. 338
अनुष्टुप्
श्रेयसी गजपिप्पल्यामभयापाठयोरपि ।समासः स्यात्तु सङ्क्षेपे तथैव च समर्थने ॥
32.2.17 · p. 338
अनुष्टुप्
सारसः पक्षिभेदे स्यात्सारसं सरसीरुहे ।साहसं तु बलात्कारकृतकार्य्ये दमेऽपि च ॥
32.2.18 · p. 338
अनुष्टुप्