All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
मान्तवर्गः · मद्वितीयम्
॥ इति मैकम् ॥
॥ अथ मद्वितीयम् ॥
अमा दर्शे तिथावुक्ता स्यादात्मा यत्नचेतसोः ।स्वभावे च धृतौ पुंसि स्यादामो रुग्विशेषके ॥
25.2.1 · p. 222
अनुष्टुप्
अपक्वे वाच्यलिङ्गं स्यादीर्ममीर्मो व्रणे मतौ ।इध्मः स्यादपि यज्ञाङ्गे स्यादिन्धनचयेऽपि च ॥
25.2.2 · p. 222
अनुष्टुप्
तथैव गदिता सद्भिरुमा शङ्करयोषिति ।अतस्यामप्युमामाहुर्हरिद्राकीर्तिकान्तिषु ॥
25.2.3 · p. 222
अनुष्टुप्
ऊर्मिस्तरङ्गे पीडायां वेगे भङ्गप्रकाशयोः ।उत्कण्ठावस्त्रसङ्कोचरेखयोरपि गद्यते ॥
25.2.4 · p. 222
अनुष्टुप्
क्रमस्त्वनुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च ।कर्मास्त्री कर्मक्रिययोः कर्मी स्यादपि तद्वति ॥
25.2.5 · p. 222
अनुष्टुप्
- - - - - - - - मूर्छायां तु क्लमो मतः ।कामः स्मरेऽभिलाषे च कामं रेतोनिकामयोः ॥
25.2.6 · p. 222
अनुष्टुप्metre not read in every line
अव्ययं त्वभ्यनुज्ञायां काम्येऽपि स्यान्नपुंसकम् ।कामिर्ना कामुके रत्यां स्त्री किम् क्षेपवितर्कयोः ॥
25.2.7 · p. 223
अनुष्टुप्
निन्दायां च परिप्रश्ने वाच्यलिङ्गत्वमीरितम् ।कामी तु कामुके चक्रवाके पारावतेऽपि च ॥
25.2.8 · p. 223
अनुष्टुप्
क्रिमिर्ना कृमिवत्कीटे लाक्षायां क्रिमिले खरे ।किर्मी पलाशे शालायां हेमपुत्र्यां च योषिति ॥
25.2.9 · p. 223
अनुष्टुप्
खर्मं स्यात्पौरुषे कोषजांशुकेऽपि च गद्यते ।गमो नाऽक्षविवर्ते स्यादपर्यालोचितेऽध्वनि ॥
25.2.10 · p. 223
अनुष्टुप्
ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ।ग्रीष्म उष्मागमे चोष्णे गुल्मः स्यात्सैन्यरक्षणे ॥
25.2.11 · p. 223
अनुष्टुप्
गुल्मः सेनाघट्टभिदोर्गुल्मस्तम्बे च रुग्भिदि ।गुल्मी स्यादामलक्येलावनिकावस्त्रवेश्मसु ॥
25.2.12 · p. 223
अनुष्टुप्
घर्मः स्यादातपे ग्रीष्मेऽप्युष्मस्वेदाम्भसोरपि ।चमूः सेनाविशेषे स्यात्सेनामात्रेऽपि योषिति ॥
25.2.13 · p. 223
अनुष्टुप्
चर्मी मृगे विटे भूर्जे तथा फलकहस्तके ।चर्म कृत्तौ च फलके छद्म व्याजोपदेशयोः ॥
25.2.14 · p. 223
अनुष्टुप्
जाल्मः क्रूरे पामरे चाप्यसमीक्ष्यप्रवर्तके ।जिह्मस्तु कुटिले मन्दे क्लीबं तगरदर्पयोः ॥
25.2.15 · p. 223
अनुष्टुप्
तोक्मं कर्णमले पुंसि हरिते च हरिद्यवे ।दमः स्याद्दमथे दण्डे कर्दमे दमनेऽपि च ॥
25.2.16 · p. 224
अनुष्टुप्
दस्मस्तु यजमाने स्यादपि चोरे हुताशने ।द्रुमस्तरौ किम्पुरुषे पारिजाते तथेश्वरे ॥
25.2.17 · p. 224
अनुष्टुप्
धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ ।अहिंसोपनिषन्न्याये स्याद्धनुर्यमसोमपे ॥
25.2.18 · p. 224
अनुष्टुप्
धाम देहे गृहे रश्मौ स्थानजन्मप्रभेदयोः ।ध्यामं तु श्यामले गन्धतृणे दमनकेऽपि च ॥
25.2.19 · p. 224
अनुष्टुप्
नमो नतौ भवेत्क्लीबेऽव्ययमप्यभिधीयते ।नामाभिधाने निर्दिष्टं निश्चयार्थे तथाव्ययम् ॥
25.2.20 · p. 224
अनुष्टुप्
नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम् ।नेमो गर्तेऽवधौ कीले प्राकारे कैतवेऽपि च ॥
25.2.21 · p. 224
अनुष्टुप्
पक्ष्म पक्षे च सूत्रांशे किञ्जल्के नेत्ररोमणि ।पद्मोऽस्त्री पद्मके व्यूहे निधौ सङ्ख्यान्तरेऽम्बुजे ॥
25.2.22 · p. 224
अनुष्टुप्
नागे च स्त्री फञ्जिकाश्रीचारटीपन्नगीषु च ।ब्रह्मा विधौ योगभेदतद्वतोः स्यान्नपुंसकम् ॥
25.2.23 · p. 224
अनुष्टुप्
ब्रह्म तत्त्वतपोवेदे पुमान् विप्रे च ऋत्विजि ।ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु ॥
25.2.24 · p. 224
अनुष्टुप्
तथैव फञ्जिकायां स्याच्छाकमत्स्यप्रभेदयोः ।भ्रमस्तु कुन्दे भ्रमणे भ्रान्तौ स्याद्वारिनिर्गमे ॥
25.2.25 · p. 224
अनुष्टुप्
भामः क्रोधे रवौ दीप्तौ भामा स्यात्कृष्णयोषिति ।भीष्मः कौरवदायादे भीष्मं भीमं भयानके ॥
25.2.26 · p. 225
अनुष्टुप्
भीमोऽम्लवेतसे घोरे शङ्करे चार्जुनाग्रजे ।भूमिर्भुवि स्थानमात्रे भौमस्तु नरकाऽऽरयोः ॥
25.2.27 · p. 225
अनुष्टुप्
भौमं भूमिभवेऽपि स्यात्त्रिषु भौमश्च वासरे ।यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च ॥
25.2.28 · p. 225
अनुष्टुप्
शरीरसाधनापेक्षे नित्यकर्मणि चोच्यते ।यामः स्यात्प्रहरे पुंसि संयमेऽपि तथाविधः ॥
25.2.29 · p. 225
अनुष्टुप्
यामिः कुलस्त्रीस्वस्रोश्च युध्मो धनुषि संयुगे ।रश्मिः पुमान्दीधितौ स्यात्पक्ष्मप्रग्रहयोरपि ॥
25.2.30 · p. 225
अनुष्टुप्
रमो रक्ताशोककान्तस्मरेषु स्याद्रमा श्रियाम् ।तथा योषाहिङ्गुनद्योः क्लीबं वास्तुककुष्ठयोः ॥
25.2.31 · p. 225
अनुष्टुप्
रामस्तु रैणुकेये स्याद्राघवेऽथ हलायुधे ।हये पशुविशेषे च त्रिषु चारौ सितेऽसिते ॥
25.2.32 · p. 225
अनुष्टुप्
रुक्मं तु काञ्चने लोहे रुमा स्याल्लवणाकरे ।रुमा सुग्रीवदारेषु रोम क्लीबं तनूरुहे ॥
25.2.33 · p. 225
अनुष्टुप्
लक्ष्मीस्तु शोभासम्पत्योस्तथा वृध्यौषधावपि ।फलिन्यां च वमिर्वान्तौ स्त्रियां पुंसि च पावके ॥
25.2.34 · p. 225
अनुष्टुप्
वर्ष्म देहप्रमाणातिसुन्दराकृतिषु स्मृतम् ।वर्त्म नेत्रच्छदे मार्गे राजीवाणाश्वपक्षिषु ? ॥
25.2.35 · p. 226
अनुष्टुप्
वाग्मी पटौ सुराचार्ये वामी स्याद्रासभस्त्रियाम् ।वडवायां शृगाल्यां च करभस्यापि योषिति ॥
25.2.36 · p. 226
अनुष्टुप्
वामं धने पुंसि हरस्मरवारिधरेष्वपि ।नार्यां स्त्रियां वल्गुसव्यप्रतीपेषु मतं त्रिषु ॥
25.2.37 · p. 226
अनुष्टुप्
तन्तुवायोपकरणे वेमा वेमश्च वेम च ।शमी शक्तुफलायां च शिम्बिकायां च वाग्गुलौ ॥
25.2.38 · p. 226
अनुष्टुप्
श्यामः प्रयागस्थवटे वृद्धदारौ पयोधरे ।पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु ॥
25.2.39 · p. 226
अनुष्टुप्
श्यामो दमनके गृध्रतृणे श्यामेऽभिधेयवत् ? ।प्रियङ्गौ चाप्रसूतायां नार्यां त्रिवृति योषिति ॥
25.2.40 · p. 226
अनुष्टुप्
मरीचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ।यमुनायां च यामिन्यां नीलिकायामपीष्यते ॥
25.2.41 · p. 226
अनुष्टुप्
श्रामस्तु पुंसि निर्दिष्टो मासे मण्डपकालयोः ।शुष्मं तेजसि सूर्ये ना समा संवत्सरे स्त्रियाम् ॥
25.2.42 · p. 226
अनुष्टुप्
सर्वसाधुसमानेषु समं स्यादभिधेयवत् ।सीमाऽऽघाटस्थितिक्षेत्रेष्वण्डकोशेऽपि च स्त्रियाम् ॥
25.2.43 · p. 226
अनुष्टुप्
सूक्ष्मं तेजोऽङ्कयोरुक्तं सूक्ष्मं क्षीरे नभस्यपि ।सूक्ष्मं स्यात्कतकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके ॥
25.2.44 · p. 226
अनुष्टुप्
सुमं प्रसूने गदितं सूर्मी तु - - - - - - - ।सोमो लतायां चन्द्रे च वानरे च धनाधिपे ॥
25.2.45 · p. 227
अनुष्टुप्metre not read in every line
वसुकर्पूरनीरेषु पितृदेवे समीरणे ।हिमं स्यान्मलयोद्भूते तुषारेऽपि च शीतले ॥
25.2.46 · p. 227
अनुष्टुप्
होमिर्घृते पावके च होमस्तु हवने मतः ।क्षमा भूमौ तितिक्षायां स्त्रियां युक्ते नपुंसके ॥
25.2.47 · p. 227
अनुष्टुप्
वाच्यवच्छक्तहितयोः क्षामं दुःसमये मतम् ।क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे ॥
25.2.48 · p. 227
अनुष्टुप्
चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति ।क्षौममट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके ॥
25.2.49 · p. 227
अनुष्टुप्
शाणजेऽतसिजे चापि क्षौमं क्लीब उदीरितम् ॥
25.2.50 · p. 227