कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कद्वितीयम्

॥ इति कैकम् ॥

॥ अथ कद्वितीयम् ॥

अकं पापे च दुःखे च शोके चापि निगद्यते ।अर्कोऽर्कपर्णे स्फटिके ताम्रे सूर्ये दिवस्पतौ ॥
1.2.1 · p. 3
अनुष्टुप्
अङ्को मतो नाटकादिपरिच्छेदेऽन्तिकेऽपि च ।चित्रयुद्धे भूषणे च स्थाने लक्ष्मणि रूपके ॥
1.2.2 · p. 3
अनुष्टुप्
आर्किर्यमे निगदितो व्यतीपाते शनैश्चरे ।उल्का तु गदिताऽऽलाते विद्युदुत्पातयोरपि ॥
1.2.3 · p. 3
अनुष्टुप्
एकः संख्यान्तरे श्रेष्ठे केवलेतरयोरपि ।ओकः स्थाने च सदने कङ्कूः छद्मद्विजे स्मृतः ॥
1.2.4 · p. 3
अनुष्टुप्
लोहपृष्ठे कृतान्ते च कल्कः पापाशयेऽपि च ।पापे दम्भे स्नेहशेषे कल्को विट्किट्टयोरपि ॥
1.2.5 · p. 3
अनुष्टुप्
कर्को राशिविशेषे स्याच्छुक्लाश्वे दर्पणेऽपि च ।हुताशने घटे चाथ काकः स्याद्वायसेऽपि च ॥
1.2.6 · p. 3
अनुष्टुप्
शिरोऽवक्षालने वृक्षविशेषे पीठसर्पिणि ।धृष्टे मानविशेषे च द्विपभेदे च कीर्तितः ॥
1.2.7 · p. 3
अनुष्टुप्
पितुर्भ्रातरि च ज्येष्ठे वेसवारे (?) च सम्मतः ।काकं सुरतबन्धे स्यात् काकानां संहतावपि ॥
1.2.8 · p. 3
अनुष्टुप्
काकी काकस्य योषायां काका काकोलिका मता ।काका च काकनासायां काचमाच्यामपीष्यते ॥
1.2.9 · p. 3
अनुष्टुप्
रक्तिकायां मलप्वां च काकोली काकजङ्घयोः ।किष्कुर्वितस्तौ हस्ते सप्रकोष्टे कुत्सितेऽपि च ॥
1.2.10 · p. 4
अनुष्टुप्
कृकस्तु कन्धरामध्ये केका मायूरवाचि च ।कोको वृके चक्रवाके खर्जूर्यामपि दर्दुरे ॥
1.2.11 · p. 4
अनुष्टुप्
घूक इत्यभिधामाहुर्दिवाभीतपतत्रिणि ।छेको विदग्धेऽपि भवेद्विश्वस्तमृगपक्षिणोः ॥
1.2.12 · p. 4
अनुष्टुप्
जूको राशिप्रभेदे स्याट्टङ्कः स्यादश्मदारणे ।मानभेदे खनित्रे च तथा नीलकपित्थके ॥
1.2.13 · p. 4
अनुष्टुप्
जङ्घायां स्त्री पुमान्कोपे टीका ग्रन्थार्थवर्णने ।डकस्तु काले कलहे ढक्का विजयदुन्दुभौ ॥
1.2.14 · p. 4
अनुष्टुप्
तर्कः काङ्क्षावितर्कोहतन्त्रभेदेषु भण्यते ।त्रिका कूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रिके ॥
1.2.15 · p. 4
अनुष्टुप्
तोकः पुत्रे चातके च तोका पुत्र्यां प्रकीर्तिता ।दकं तु वारिणि प्राहुर्द्विकः स्यात्कोककाकयोः ॥
1.2.16 · p. 4
अनुष्टुप्
न्यङ्कुर्मृगे मुनौ नाको व्योम्नि च त्रिदिवेऽपि च ।वामलूरे भवेन्नाकुर्गिरावपि मुनावपि ॥
1.2.17 · p. 4
अनुष्टुप्
निष्को मानविशेषे च दीनारे कण्ठभूषणे ।कनके तु भवेन्निष्कं नौका तरणसाधने ॥
1.2.18 · p. 4
अनुष्टुप्
पङ्कोऽस्त्री कर्दमे पापे पाकः परिणतौ शिशौ ।केशानां जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च ॥
1.2.19 · p. 4
अनुष्टुप्
पिकः परभृते प्रोक्तो बकः कङ्के च रक्षसि ।बको वृक्षविशेषे स्याद्बकपुष्पेऽपि कीर्तितः ॥
1.2.20 · p. 5
अनुष्टुप्
भूकं श्वभ्रे च कोलेऽपि भेको मण्डूकमेघयोः ।मुष्कस्तु वृषणे वृक्षे सङ्घातेऽपि निगद्यते ॥
1.2.21 · p. 5
अनुष्टुप्
मूकस्त्ववाचि दैत्ये च यूका कीटान्तरेऽपि च ।रङ्कस्तु कृपणे मल्ले (न्दे ?) राका नवरजःस्त्रियाम् ॥
1.2.22 · p. 5
अनुष्टुप्
संपूर्णेन्दुतिथौ राका कच्छ्वां नद्यन्तरेऽपि च ।रेको विरेके नीचे च शङ्कायामधमेऽपि च ॥
1.2.23 · p. 5
अनुष्टुप्
रोको दीप्तौ बिले रोकं लङ्का स्याद्रक्षसां पुरि ।शाकिन्यां चापि लङ्का स्यात् कुलटायां च योषिति ॥
1.2.24 · p. 5
अनुष्टुप्
भुवने च जने लोको वल्कं वल्कलशल्कयोः ।वङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे ॥
1.2.25 · p. 5
अनुष्टुप्
वृक्कोऽवयवभेदे स्याद्वृकः शालावृकेऽपि च ।शङ्कुः कीले शिवेऽस्त्रे च सङ्ख्याभेदे च कथ्यते ॥
1.2.26 · p. 5
अनुष्टुप्
शंका त्रासे वितर्के च शको जात्यन्तरे नृपे ।शल्कं तु शकले वल्के शाकं तु स्याद्धरीतके ॥
1.2.27 · p. 5
अनुष्टुप्
द्वीपभेदे तरौ शाकः कीरे व्याससुते शुकः ।ग्रन्थिपर्णे शिरीषे च रावणस्यापि मन्त्रिणि ॥
1.2.28 · p. 5
अनुष्टुप्
बर्हपुष्पे शुकं क्लीबे शूकः शुङ्गानुकम्पयोः ।शुल्कं घट्टादिदेये च वरादर्थग्रहेऽपि च ॥
1.2.29 · p. 5
अनुष्टुप्
श्लोकः पद्ये च यशसि शोको दुःखे निगद्यते ।शौकं शुकगणे स्त्रीणां करणे शौकमव्य(सृकइत्य ?)यम् ॥
1.2.30 · p. 6
अनुष्टुप्
बाणे वातोत्पले चापि स्वकः स्वीये तु वाच्यवत् ।स्रग्मालायां सहार्थे तु साकमित्यव्ययं मतम् ॥
1.2.31 · p. 6
अनुष्टुप्
स्फिग्देहावयवे चापि मता स्पृक्कौषधाऽन्तरे ।यज्ञपात्रविशेषे स्रुक् स्तोकः स्वल्पेऽपि चातके ॥
1.2.32 · p. 6
अनुष्टुप्
सेकस्तु सिञ्चतौ प्रोक्तः सहार्थे स्तोकमव्ययम् ।स्वैरिण्यामव्ययं सैकं (?) हिक्कोल्कारुग्विशेषके ॥
1.2.33 · p. 6
अनुष्टुप्