All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
खान्तवर्गः · खतृतीयम्
॥ इति खद्वितीयम् ॥
॥ अथ खतृतीयम् ॥
अमुखस्तु भवेन्मूके त्वामुखं सम्मुखे मतम् ।उन्मुखस्तूर्ध्ववक्त्रे स्यादुत्कण्ठाव्याकुलेऽपि च ॥
2.3.1 · p. 55
अनुष्टुप्
त्रिशिखं तु त्रिशूले स्याच्छिखरे राक्षसे पुमान् ।त्रिमुखं तु मतं शूले त्रिमुखो राक्षसान्तरे ॥
2.3.3 · p. 55
अनुष्टुप्
दुर्मुखो नागभेदेऽपि मुखरे वानराश्वयोः ।प्रमुखः प्रथमे श्रेष्ठे परिखा सालवेष्टने ॥
2.3.4 · p. 55
अनुष्टुप्
खनित्र्यामपि रथ्यायां नलिकायामपि क्वचित् ।वाङ्मुखं स्यादुपोद्घाते विमुखस्तु पराङ्मुखे ॥
2.3.6 · p. 55
अनुष्टुप्
विशाखस्तक्ष(र्क?)के स्कन्द ऋक्षभेदे कटिल्लके ।मन्थाने मासभेदेऽपि वैशाखः परिकीर्तितः ॥
2.3.7 · p. 55
अनुष्टुप्
षण्मुखस्तु विशाखे स्यात्सुमुखो वावदूकके ।सुमुखः स्यात्तार्क्ष्यपुत्रे फणिभेदे च पण्डिते ॥
2.3.8 · p. 55
अनुष्टुप्
हृल्लेखः स्यादुत्कलिका मन्त्रबीजाक्षरे क्वचित् ।हृल्लेखं तु भवेत्क्लीबेऽलक्ष्यवस्तुनि सर्वशः ॥
2.3.9 · p. 56
अनुष्टुप्