All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
चान्तवर्गः · चैकम्
॥ इति ङान्ताः ॥
॥ अथ चैकम् ॥
अथार्थे वाक्यविस्तारे प्रसङ्गे पादपूरणे ।समयाने (?) बले शेषे चशब्दः परिपठ्यते ॥
6.1.1 · p. 70
अनुष्टुप्
चश्चन्द्रमाः समाख्यातस्तरणिश्चापि कीर्तितः ।चश्चौरे समरे ख्यातः परौ च परिपठ्यते ॥
6.1.2 · p. 70
अनुष्टुप्