All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
शान्तवर्गः · शचतुर्थम्
॥ इति शतृतीयम् ॥
॥ अथ शचतुर्थम् ॥
अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ।अपभ्रंशोऽपशब्दे स्याद्भाषाभेदावपातयोः ॥
30.3.1 · p. 328
अनुष्टुप्
उपदंशो विदंशे च मेढ्ररोगेऽपि वर्त्तते ।कर्णिवंशो भवेन्मञ्च इत्याहुः शब्दवेदिनः ॥
30.3.3 · p. 329
अनुष्टुप्
खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि ।खण्डामलकभैषज्ये सिंहिकातनयेऽपि च ॥
30.3.4 · p. 329
अनुष्टुप्
कवारवच्छैवले स्याज्जलकेश इति स्थितिः ।जीवितेशः श्राद्धदेवे तथा स्याज्जीवितप्रदे ॥
30.3.5 · p. 329
अनुष्टुप्
नागपाशः स्त्रीकरणे तथैव वरुणायुधे ।पञ्चदशी त्वमापूर्णमास्योः सङ्ख्यायुतेऽपि च ॥
30.3.6 · p. 329
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्री (wrong syllable); pāda 3, syllable 3 द (wrong syllable)
प्रतिष्कशस्तु रोगे स्याद्वार्त्ताहरसहाययोः ।परिवेशो वेष्टनेऽपि परिधावपि कीर्तितः ॥
30.3.7 · p. 329
अनुष्टुप्
पादपाशी खड्डुकायां शृङ्खलाकटकेऽपि च ।पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ॥
30.3.8 · p. 329
अनुष्टुप्
मातृवंशः सभामध्ये मातामहकुलेऽपि च ।
30.3.9 · p. 329