कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

णान्तवर्गः · णचतुर्थम्

॥ इति णतृतीयम्‌ ॥

॥ अथ णचतुर्थम्‌ ॥

अमर्षणः स्यात्कोपिष्ठे व्यस्ते त्वप्रगुणं मतम् ।अन्तर्वाणिः शास्त्रविदि त्ववदीर्णं द्रुते मतम् ॥
15.3.1 · p. 117
अनुष्टुप्
धिक्कृते त्वधरीणः स्यादवकीर्णी क्षतव्रते ।अक्षौहिणी सैन्यमानेऽङ्घ्रिपर्णी त्वौषधान्तरे ॥
15.3.2 · p. 117
अनुष्टुप्
अभाषणं तु मौने स्याद्धर्मशून्ये त्वधर्मणः ।अर्कपर्णस्तु मन्दारेऽन्वेषणा तु गवेषणे ॥
15.3.3 · p. 117
अनुष्टुप्
अवहेलेऽसूक्षणं च स्फुलिङ्गेऽग्निकणो मतः ।अङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥
15.3.4 · p. 118
अनुष्टुप्
आथर्वणिरथर्वज्ञे ब्राह्मणे च पुरोहिते ।अवदीर्णं दारिते चाध्येषणा तु गवेषणा ॥
15.3.5 · p. 118
अनुष्टुप्
ऋणग्रहीता च मतस्त्वधमर्णो मनीषिभिः ।आभाषणं स्यादालापे मता साऽऽक्षारणा च या ॥
15.3.6 · p. 118
अनुष्टुप्
आक्रोशो मैथुनार्थः स्यादिति शब्दविदां मतम् ।अथाचार्यस्य भार्यायामाचार्यानीति गद्यते ॥
15.3.7 · p. 118
अनुष्टुप्
आधोरणो हस्तिपके वृतावावरणं स्मृतम् ।आतर्पणं प्रीणने स्यान्मङ्गलालेपनेऽपि च ॥
15.3.8 · p. 118
अनुष्टुप्
आरोहणं तु सोपाने समारोहे प्ररोहणे ।उत्क्षेपणं तु व्यजने धान्यसंस्कारसाधने ॥
15.3.9 · p. 118
अनुष्टुप्
उद्धरणं समुद्धारवान्तान्नोन्मूलनेष्वपि ।उन्मादिन्युन्मदिष्णुः स्यादुत्तमर्णो धनप्रदे ॥
15.3.10 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
उद्धरत्युद्धरिष्णुः स्यादुत्पतत्युत्पतिष्णु च ।एलापर्णी वृक्षभेदे माने कार्षापणो मतः ॥
15.3.11 · p. 118
अनुष्टुप्
टिट्टिभे तु कटुक्वाणो गदितः पण्डितोत्तमैः ।अथ कामगुणो रागे विषयाभोगयोरपि ॥
15.3.12 · p. 118
अनुष्टुप्
क्षेत्रे तु कोद्रवाणां स्यात्कौद्रवीणमिति स्थितिः ।खरपर्णी लताभेदे गदिता गुणवत्तरैः ॥
15.3.13 · p. 119
अनुष्टुप्
गवेषणी ग्रन्थिपर्णी गिरिकर्ण्यपि चौषधे ।गोदारणं लाङ्गले स्याच्चतुष्पर्णी लतान्तरे ॥
15.3.14 · p. 119
अनुष्टुप्
चीर्णपर्णस्तु निम्बे स्यात्खर्जूरीपादपेऽपि च ।चूडामणिः काकचिञ्चाफलेऽपि च शिरोमणौ ॥
15.3.15 · p. 119
अनुष्टुप्
जुहुराणोऽपि चाद्ध्वर्यौ तथा स्याज्जातवेदसि ।तण्डुरीणः कीटमात्रे बर्बरे तण्डुलोदके ॥
15.3.16 · p. 119
अनुष्टुप्
त्रायमाणं रक्ष्यमाणे त्रायमाणा तु वार्षिके ।तालपर्ण्यौषधभिदि तिलपर्ण्यपि गद्यते ॥
15.3.17 · p. 119
अनुष्टुप्
तुरायणं तु माकल्ये तैलपर्णी तु सिल्हके ।श्रीवासे स्यान्मलयजे, गौर्यां दाक्षायणी मता ॥
15.3.18 · p. 119
अनुष्टुप्
दाक्षायण्योऽश्विनीत्यादितारासु गदिता बुधैः ।सूर्ये दिनमणिः प्रोक्तस्तथैव च दिनप्रणीः ॥
15.3.19 · p. 119
अनुष्टुप्
अथ देवमणिर्भर्गेऽश्वावर्ते कौस्तुभेऽपि च ।नारायणी गौर्यभीर्वोः पुंसि स्याद्गरुडध्वजे ॥
15.3.20 · p. 119
अनुष्टुप्
गले निगरणः क्लीबे भोजनेऽपि निगद्यते ।स्यात्तु निःसरणं पापमृत्युमोक्षेषु निर्गमे ॥
15.3.21 · p. 119
अनुष्टुप्
उपाये स्यान्निस्तरणं निस्तारे तरणेऽपि च ।निदर्शने विचारे च स्यादालोके निरूपणम् ॥
15.3.22 · p. 119
अनुष्टुप्
निर्वपणं निवापे स्यात्तथा निर्वापणं मतम् ।पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले ॥
15.3.23 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
पर्णवृन्तरसेऽपि स्यात्पर्वरीणं तु पर्वणि ।आयुधे तु प्रहरणं प्रहारे हरणेऽपि च ॥
15.3.24 · p. 120
अनुष्टुप्
प्रमापणं संशमने रथे प्रवहणं मतम् ।परीरणस्तु कमठे दण्डे च पट्टशाटके ॥
15.3.25 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
परायणमभीष्टे स्यात्तत्पराश्रययोरपि ।परवाणिः पुमान् धर्माध्यक्षवत्सरयोरपि ॥
15.3.26 · p. 120
अनुष्टुप्
परीक्षणं शोधने स्याल्लताभेदे प्रधर्षिणी ।प्रसारिणी च गदिता तथा प्रस्रवणं स्रुतौ ॥
15.3.27 · p. 120
अनुष्टुप्
प्रवारणं निषेधे स्यात्काम्यदाने च न द्वयोः ।प्रत्यक्श्रेणी तथा प्रत्यक्पर्णी स्यादौषधान्तरे ॥
15.3.28 · p. 120
अनुष्टुप्
स्यादावृतौ प्रावरणं मतं दाने प्रचारणम् ।प्रतारणं तारणे स्यादपि मिथ्याभिभाषणे ॥
15.3.29 · p. 120
अनुष्टुप्
परायणं समासङ्गे कार्त्स्न्ये पारङ्गतावपि ।स्याच्छ्मशाने पितृवणं पीतवर्णं तु काञ्चने ॥
15.3.30 · p. 120
अनुष्टुप्
पीलुपर्णी तु बिम्बायां मूर्वायाञ्चाभिधीयते ।अथ पुष्करिणी नद्यां सरोजिन्यां जलाशये ॥
15.3.31 · p. 120
अनुष्टुप्
पृश्निपर्णीपृथक्पर्ण्यौ सम्मतावौषधान्तरे ।मतं बालतृणं शष्पे भद्रपर्णी मतौषधे ॥
15.3.32 · p. 120
अनुष्टुप्
मधुपर्णी तु गाम्भार्यां नीलीसंज्ञौषधेऽपि च ।महारसे मधुतृणमसिपत्रवदीरितम् ॥
15.3.33 · p. 121
अनुष्टुप्
माषपर्ण्यौषधिभिदि मीनाम्रीणस्तु दर्दुरे ।खञ्जने मृगतृष्णा तु या प्रसिद्धा मरीचिका ॥
15.3.34 · p. 121
अनुष्टुप्
सिन्दूरे रक्तरेणुः स्यात्पालाशकुसुमेऽपि च ।रागचूर्णः स्मरे दन्तधावने पटरञ्जके ॥
15.3.35 · p. 121
अनुष्टुप्
रेरिहाणः पुमान् गौरीपतावप्यम्बरेऽपि च ।लम्बकर्णः स्मृतोऽङ्कोटपादपे छगलेऽपि च ॥
15.3.36 · p. 121
अनुष्टुप्
विदारणं विडम्बे च हले भेदे रणे द्वयोः ।विसर्पणं प्रसरणे तरुभेदे विकीरणः ॥
15.3.37 · p. 121
अनुष्टुप्
प्रसारणे विकिरणं चर्चायां तु विचारणा ।वीरयागं तु यद्योधैः पीयते सङ्गरे मधु ॥
15.3.38 · p. 121
अनुष्टुप्
प्रेतनद्यां वैतरणी प्रेतानां यातुमातरि ।शरवाणिः शरमुखे पायिके शरजीविनि ॥
15.3.39 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
शालिपर्ण्योषधीभेदे शम्बदीर्णस्तु पर्वते ।अथो शिखरिणी प्रोक्ता रसालावृत्तभेदयोः ॥
15.3.40 · p. 121
अनुष्टुप्
नारीरत्ने मल्लिकायां रोमावल्यामपि स्त्रियाम् ।घण्टापथे संसरणमसम्बाधचमूगतौ ॥
15.3.41 · p. 121
अनुष्टुप्
संसारे च वरारामे निर्गमेऽपि च गद्यते ।रणारम्भे संसरणं गोपुरे पुरनिर्गमे ॥
15.3.42 · p. 122
अनुष्टुप्
समीरणस्तु पवने पथिके च फणिज्ज्ञके ।संवीक्षणं विचयने कथितं तत्त्ववेदिभिः ॥
15.3.43 · p. 122
अनुष्टुप्
सुनिषण्णं शाकभेदे सुतश्रेणी तु वीरुधि ।हस्तिकर्णस्तूरुबूके पलाशगणभेदयोः ॥
15.3.44 · p. 122
अनुष्टुप्