All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
नान्तवर्गः · नपञ्चमम्
॥ इति नचतुर्थम् ॥
॥ अथ नपञ्चमम् ॥
स्नेहबस्तौ धूपने चाप्यथ स्याद्वर्णमात्रके ।विसर्जनीयेऽपि तथाऽभिनिष्ठानो निगद्यते ॥
20.5.2 · p. 208
अनुष्टुप्
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ।अथोपसम्पन्नमपि निहतेऽपि सुसंस्कृते ॥
20.5.3 · p. 208
अनुष्टुप्
स्याद्गन्धमादनं भृङ्गे गन्धके वानरे पुमान् ।सुरायां स्त्री नगे काके चिरजीविनि पुंस्यपि ॥
20.5.4 · p. 208
अनुष्टुप्
दन्तधावनः खदिरे दन्तशुद्धौ नपुंसकम् ।स्याद्धूमकेतनो वह्नौ तथा केतुग्रहेऽपि च ॥
20.5.5 · p. 208
अनुष्टुप्metre not read in every line
स्यान्नन्दिवर्धनो लिङ्गे पक्षान्ते तनयेऽपि च ।प्रतिपादनं दाने स्यात्प्रतिपत्तौ प्रबोधने ॥
20.5.6 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
स्यात्पद्मलाञ्छनो लोकेश्वरे ब्रह्मणि भास्करे ।धनदे च स्त्रियां तारालक्ष्मीवाग्देवतासु च ॥
20.5.7 · p. 208
अनुष्टुप्
वरवर्णिनी तु साध्व्यां योषायां स्यात्फलिन्यां च ।जतुन्यपि च (म)त्ता स्याद्धरिद्रायां च कामिनीरत्ने ॥
20.5.9 · p. 208
metre not recognised
व्रीहिकाञ्चनो मसूरे गदितः शाब्दैकनिष्णातैः ।मधुसूदनो द्विरेफे वनमालिनि चापि निर्द्दिष्टः ॥
20.5.10 · p. 209
उपगीतिःmetre not read in every line
महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।स्यान्मृत्युवञ्चनः शम्भौ मालूरद्रोणकाकयोः ॥
20.5.11 · p. 209
अनुष्टुप्
प्राहुः शाब्दैकनिष्णाताः सिन्दूरे रक्तशासनम् ।वनमालिनी वाराह्यां गदिता शब्दवेदिभिः ॥
20.5.12 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
कटुकायां च पिप्पल्यां शाके च शकुलादनी ।शालङ्कायन उद्दिष्टो मुनिभेदे च नन्दिनि ॥
20.5.13 · p. 209
अनुष्टुप्
शिवकीर्त्तन इत्युक्तो भृङ्गरीटेऽसुरद्विषि ।श्वेतवाहनशब्दस्तु सुधाधाम्नि धनञ्जये ॥
20.5.14 · p. 209
अनुष्टुप्
स्यात्षष्टिहायनो व्रीहिविशेषे कुञ्जरेऽपि च ।हरिचन्दनमित्युक्तं त्रिदशानां महीरुहे ॥
20.5.15 · p. 209
अनुष्टुप्
नपुंसकं तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि ।हरिवाहनस्तु पुंसि स्याद्विवस्वच्छचीशयोः ॥
20.5.16 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)