All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
गान्तवर्गः · गतृतीयम्
॥ इति गद्वितीयम् ॥
॥ अथ गतृतीयम् ॥
अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ।अभ्रगः पक्षिणि शरे त्वद्रिगो गजसिंहयोः ॥
3.3.1 · p. 62
अनुष्टुप्
अब्धिगः पोतवणिजि त्वनङ्गः पञ्चसायके ।क्लीबे त्वनङ्गमाकाशेऽप्यधिगस्त्वनुजीविनि ॥
3.3.2 · p. 63
अनुष्टुप्
अनुगोऽपि भवेद्भृत्ये त्वजगो विष्णुयायिनि ।अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ॥
3.3.3 · p. 63
अनुष्टुप्
अरोगस्तु भवेत्स्वस्थे त्वशृङ्गस्तूम्बरे पशौ ।अतुङ्गस्तु भवेत्खर्वेऽप्यर्थगो भृतिजीविनि ॥
3.3.4 · p. 63
अनुष्टुप्
आयोगो व्यापृतौ गन्धमाल्योपहाररोधसोः ।उत्सर्गः पुंसि सामान्ये न्याये च त्यागदानयोः ॥
3.3.6 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च ।फले पूगस्य चोद्वेगं क्लीबमाहुर्मनीषिणः ॥
3.3.7 · p. 63
अनुष्टुप्
उरगः स्याद्विषधरे तूनगो मन्दगामिनि ।उद्योगः प्रौढिमात्रेऽपि स्यादुत्तुङ्गस्तथोन्नते ॥
3.3.8 · p. 63
अनुष्टुप्
उत्सङ्गः पूर्वभागे स्यादुल्बगो गर्भगामिनि ।शीघ्रकर्मणि चोद्योगी कलिङ्गो नीवृदन्तरे ॥
3.3.9 · p. 63
अनुष्टुप्
कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति ।न द्वयोः कौटजफले महिलायां तु योषिति ॥
3.3.10 · p. 63
अनुष्टुप्
कालिङ्गी राजकर्कट्यां कालिङ्गो गजसर्पयोः ।क्लिष्टाङ्गो रोगविक्षिप्ते कुरङ्गस्तु मृगान्तरे ॥
3.3.11 · p. 63
अनुष्टुप्
क्रूरगः क्रूरकर्माढ्ये कृशाङ्गी तु भवेत्स्त्रियाम् ।कृष्णाङ्गः कालसर्पे स्यात्खट्वाङ्गः शङ्करायुधि ॥
3.3.12 · p. 64
अनुष्टुप्
गुप्ताङ्गः कोशकीटे स्याच्चक्राङ्गो मानसौकसि ।चक्राङ्गी कटुरोहिण्यां चित्रगुः पावके रवौ ॥
3.3.13 · p. 64
अनुष्टुप्
जिह्मगः सैंहिकेयेऽहौ तथा स्याद्वक्रगामिनि ।तडागस्तु जलाधारविशेषे यन्त्रकूटके ॥
3.3.14 · p. 64
अनुष्टुप्
ऊर्मौ तरङ्गस्तलगस्त्वधोगामिनि गद्यते ।तातगुः क्षुद्रताते स्याज्जनकस्य हितेऽपि च ॥
3.3.15 · p. 64
अनुष्टुप्
त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ।वृद्धिस्थानक्षये सत्त्वरजस्तमसि च स्मृतः ॥
3.3.16 · p. 64
अनुष्टुप्
तुरगी चाश्वगन्धायां तुरगो वाजिचित्तयोः ।धाराङ्गोऽसौ च तीर्थे च नरङ्गस्तु वर(ण्ड)के ॥
3.3.17 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेहने न द्वयोश्चाथ नारङ्गः पिप्पलीरसे ।यमजे प्राणिनि विटे पादपेऽपि च कुत्रचित् ॥
3.3.18 · p. 64
अनुष्टुप्
निःसङ्गः सङ्गरहिते निसर्गो रूपसर्गयोः ।निम्नगा तु नदीमात्रे निषङ्गः सङ्गतूणयोः ॥
3.3.19 · p. 64
अनुष्टुप्
पशुस्थमक्षिकायां तु पुमान्नीलङ्गुरुच्यते ।भम्भराल्यां स्त्रियां दूतविशेषे परगः स्मृतः ॥
3.3.20 · p. 64
अनुष्टुप्
पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने ।पन्नगस्त्वौषधीभेदे तथा स्यात्पवनाशने ॥
3.3.21 · p. 64
अनुष्टुप्
गिरिप्रभेदे विख्यातावुपरागे च चन्दने ।निदर्शने प्रयुक्तौ च प्रयोगः कार्मणेऽपि च ॥
3.3.23 · p. 65
अनुष्टुप्
प्रवेगः स्याच्छीघ्रगतौ पतङ्गः पक्षिसूर्ययोः ।शालिभेदे च शलभे प्रसङ्गो योगचर्चयोः ॥
3.3.24 · p. 65
अनुष्टुप्
तीर्थभेदे प्रयागः स्याद्यज्ञे शतमखाश्वयोः ।क्लीबे सूते प्रियङ्गु स्यात्कणाराजिकयोः स्त्रियाम् ॥
3.3.25 · p. 65
अनुष्टुप्
कङ्गुसस्ये फलिन्यां च पुन्नागस्तु द्रुमान्तरे ।जातीफले नरश्रेष्ठे पाण्डुनागे सितोत्पले ॥
3.3.26 · p. 65
अनुष्टुप्
भुजङ्गेऽहौ च षिड्गे च मतङ्गः श्वपचे गजे ।मतङ्गो जातिभेदेऽपि मुनावपि भवेत्क्वचित् ॥
3.3.27 · p. 65
अनुष्टुप्
मनोगः शीघ्रगेऽपि स्यात्पवने चित्तहारिणि ।मातङ्गी स्याच्छक्तिभेदे मातङ्गस्त्वन्त्यजे द्विपे ॥
3.3.28 · p. 65
अनुष्टुप्
मृदङ्गः पटहे घोषे मेषगो ज्वलने मतः ।रक्ताङ्गी स्त्री तु जीवन्त्यां क्लीबं विद्रुमधीरयोः ॥
3.3.29 · p. 65
अनुष्टुप्
महीसुते ना काम्पिल्ये रथाङ्गं रथचक्रके ।विहङ्गमप्रभेदे च रन्ध्रगः पिशुनेऽप्यहौ ॥
3.3.30 · p. 65
अनुष्टुप्
रुद्धाङ्गः स्यात्तु कमठे वराङ्गं गजमस्तके ।भगे चौषधभेदे च वराङ्गस्तु सुरूपके ॥
3.3.31 · p. 65
अनुष्टुप्
वातिगः पुंसि भण्टाक्यां वाच्यवद्धातुवादिनि ।विहगस्तु नृलिङ्गे स्याद्विहगः पक्षिबाणयोः ॥
3.3.32 · p. 66
अनुष्टुप्
विडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुन्नपुंसकम् ।विसर्गस्तु पुमान् दाने भास्करस्योत्तरायणे ॥
3.3.33 · p. 66
अनुष्टुप्
श्वेताङ्गः शङ्करे कामपाले च तरुभिद्यपि ।सर्वगस्तु विभौ शम्भौ सर्वगं सलिलेऽम्बरे ॥
3.3.35 · p. 66
अनुष्टुप्
सम्भोगः सुरते भोगे तथैव जिनशासने ।संवेगः सम्भ्रमे प्रोक्तः संयोगः स्यात्तु सङ्गमे ॥
3.3.36 · p. 66
अनुष्टुप्
सारङ्गो हरिणेऽश्वेऽपि चातके च मतङ्गजे ।शलभेऽपि सुभोगस्तु भोगशालिनि गद्यते ॥
3.3.37 · p. 66
अनुष्टुप्
सुभगः कीर्तिसम्पन्ने स्फुलिङ्गोऽग्निकणे मतः ।हलाङ्गो लोहिते दृष्टः करपत्रे च कच्छपे ॥
3.3.38 · p. 66
अनुष्टुप्
हताङ्गः स्याच्छिन्नदेहे हृताङ्गः सैंहिकेयके ।हेमाङ्गो गरुडे प्रोक्तो हेमाङ्गश्चापि वेधसि ॥
3.3.39 · p. 66
अनुष्टुप्
क्षताङ्गः स्यात्क्षतवति क्षीणाङ्गोऽतिकृशे मतः ।
3.3.40 · p. 66