कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रतृतीयम् (1/2)

॥ इति रद्वितीयम्‌ ॥

॥ अथ रतृतीयम्‌ ॥

अक्षरी वारिधारायामक्षरं ब्रह्मवर्णयोः ।अक्षरं नाशशून्ये स्यादक्षरः शङ्करे स्मृतः ॥
27.3.1 · p. 263
अनुष्टुप्
अदभ्रं बहुले क्लीबमदूरं निकटस्थिते ।अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वे च वाच्यवत् ॥
27.3.2 · p. 263
अनुष्टुप्
अध्वरः सावधाने स्याद्वसुभेदे तथा क्रतौ ।अधीरश्चञ्चलमतावधीरा योषितोदिता ॥
27.3.3 · p. 263
अनुष्टुप्
अधीरा विद्युति मतावङ्गारं क्लीबमुल्मुके ।अङ्गारो भूमिजग्रहेऽप्ययोग्रं मुसले मतम् ॥
27.3.4 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ग्र (wrong syllable)
अयोग्रस्तु हले पुंसि स्यादपि प्रासकुन्तयोः ।अवीराऽपतिपुत्रायां सत्त्वहीने तु वाच्यवत् ॥
27.3.5 · p. 263
अनुष्टुप्
अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे ।स्त्री गुडुच्यमरावत्योः स्थूणादूर्वाजरायुषु ॥
27.3.6 · p. 263
अनुष्टुप्
अपरं त्वितरार्थे स्यात्पश्चाद्गात्रे च दन्तिनः ।अर्वाचीनेऽपरं प्राहुर्जरायौ चापरा मता ॥
27.3.7 · p. 264
अनुष्टुप्
अन्तरं तु परीधाने भेदे रन्ध्रावकाशयोः ।आत्मान्तर्धिविनात्मीयबहिर्मध्यावधिष्वपि ॥
27.3.8 · p. 264
अनुष्टुप्
अवरं चरमेऽपि स्याद्भवान्यामवरा मता ।गजान्त्यजङ्घादेशे चाप्यवरं क्लीबमीरितम् ॥
27.3.9 · p. 264
अनुष्टुप्
अम्बरं वाससि व्योम्नि कर्पासे च सुगन्धके ।अङ्कुरो लोम्नि पानीये रुधिरेऽभिनवोद्भिदि ॥
27.3.10 · p. 264
अनुष्टुप्
अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ ।अशिरो भास्करे वीतिहोत्रे स्याद्राक्षसान्तरे ॥
27.3.11 · p. 264
अनुष्टुप्
अण्डीरः पुरुषे शक्तेऽररं छदकपाटयोः ।अररस्तु पुमान्सोमेऽप्यगारं मन्दिरे मतम् ॥
27.3.12 · p. 264
अनुष्टुप्
अध्वरस्तु मतो यज्ञेऽप्यनूरुः सूर्यसारथौ ।अमत्रमपि पात्रे स्यादमित्रं वैरिणि स्मृतम् ॥
27.3.13 · p. 264
अनुष्टुप्
अगुरु स्यात्तु लघुनि शिंशपायां च जोङ्गके ।असारं स्यात्तु निःसारे त्वसरुर्वृक्षभिद्यपि ॥
27.3.14 · p. 264
अनुष्टुप्
असुरा रजनीराश्योरसुरो दानवे रवौ ।अहेरुः स्त्री शतावर्यामासारः प्रसरे मतः ॥
27.3.15 · p. 264
अनुष्टुप्
आसारो वेगवृष्टौ स्यात्तथैव स्यात्सुहृद्बले ।आहारः स्यादाहरणे हारे प्रोक्तश्च भोजने ॥
27.3.16 · p. 264
अनुष्टुप्
आसुरी देवताभेदे सिद्धार्थेऽपि मता स्त्रियाम् ।आशरस्तु स्मृतो वह्नौ तथैव रजनीचरे ॥
27.3.17 · p. 265
अनुष्टुप्
स्यादाशिरस्तु कृसर इत्याहुर्बुद्धिशालिनः ।आकार इङ्गिताकृत्योराभीरो गोप उच्यते ॥
27.3.18 · p. 265
अनुष्टुप्
आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते ।आधारश्चाधिकरणेऽप्यालवालेऽम्बुधारणे ॥
27.3.19 · p. 265
अनुष्टुप्
आग्नीध्रो ब्रह्मपुरुषे व्याधिते स्यात्तथाऽऽतुरः ।आभीरी गोपयोषायामासुरो दितिसन्ततौ ॥
27.3.20 · p. 265
अनुष्टुप्
आतरस्तरपण्ये स्यादितरोऽन्यत्र पामरे ।ईश्वरो मन्मथे शम्भौ नाऽऽढ्ये स्वामिनि वाच्यवत् ॥
27.3.21 · p. 265
अनुष्टुप्
ईश्वरी चेश्वरोढायामीश्वरी वृक्षभिद्यपि ।इत्वर्यसत्यां पथिके क्रूरकर्मणि चोच्यते ॥
27.3.22 · p. 265
अनुष्टुप्
उदारो दातृमहतोर्दक्षिणे वाच्यलिङ्गकः ।उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके ॥
27.3.23 · p. 265
अनुष्टुप्
उत्तरा दिग्विशेषे स्यात्स्नुषायामर्जुनस्य च ।विराटतनुजेऽपि स्यादूर्ध्वोदीच्योत्तमेष्वपि ॥
27.3.24 · p. 265
अनुष्टुप्
क्लीबे तु स्यात्प्रतिवाक्येऽथोद्धारश्चोद्धृतावृणे ।उपेन्द्रस्तु मतो विष्णावुत्करो यज्ञभूभिदि ॥
27.3.25 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
उन्दुरुर्मूषके पुंसि चोषरं क्षारमृद्भुवि ।उच्चारं स्यादुच्चरणे तथा मलविसर्जने ॥
27.3.26 · p. 265
अनुष्टुप्
उत्तारं स्यादुत्तरणे जठरे तूदरं मतम् ।ऋक्षरं वारिधारायामृक्षरस्त्वृत्विजि स्मृतः ॥
27.3.27 · p. 266
अनुष्टुप्
एकाग्रं वाच्यलिङ्गं स्यादेकतानेऽप्यनाकुले ।ॐकारः प्रणवे चाङ्गीकृतावपि च कीर्तितः ॥
27.3.28 · p. 266
अनुष्टुप्
औशीरं शयने प्राहुर्दण्डेऽपि चामरस्य तु ।उशीरजे वाच्यवत्स्यात्कदरो व्याधिभिद्यपि ॥
27.3.29 · p. 266
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
क्रकरः क्रकचे दीने करीरेऽद्रेः खगान्तरे ।कन्धरः स्याद्वारिवाहे ग्रीवायां कन्धरा मता ॥
27.3.30 · p. 266
अनुष्टुप्
कच्चरं कुत्सिते तक्रे तथा स्यान्मलदूषिते ।कणेरुः कर्णिकारे च करिणीवेश्ययोः स्त्रियाम् ॥
27.3.31 · p. 266
अनुष्टुप्
कडारः कपिले दासे कबरं लवणाम्लयोः ।कबरी केशवेशे स्यादुमायां भेषजान्तरे ॥
27.3.32 · p. 266
अनुष्टुप्
पृथ्वीतुङ्ग्योश्च कबरी ना रक्षःपापयोरपि ।करीरः कलशे वृक्षभेदे वंशाङ्कुरेऽपि च ॥
27.3.33 · p. 266
अनुष्टुप्
करीरी चीरिकायां च दन्तमूले च दन्तिनाम् ।कर्बुरो राक्षसे पापे क्लीबं हेमाम्भसोरपि ॥
27.3.34 · p. 266
अनुष्टुप्
कर्बुरा कृष्णवृन्तायां शबले वाच्यलिङ्गवत् ।कर्परस्तु कपाले स्यात्कटाहे शस्त्रभिद्यपि ॥
27.3.35 · p. 266
अनुष्टुप्
कञ्जारो जठरे सूर्ये विरञ्चौ वारणे मुनौ ।कटित्रं रसनायां स्याच्चर्माङ्गे कटिवाससि ॥
27.3.36 · p. 266
अनुष्टुप्
कच्छुरा शूकशिम्ब्यां च शटीदुःस्पर्शयोरपि ।कच्छुरः पुंश्चले कच्छुयुक्ते स्यात्कर्तरी पुनः ॥
27.3.37 · p. 267
अनुष्टुप्
भवेत्कर्तनकार्यार्हे कशेरुः कन्दभिद्यपि ।कर्मारः स्याज्जातिभेदे त्वचिसारे च कीर्त्यते ॥
27.3.38 · p. 267
अनुष्टुप्
कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिषु ।कन्दरस्त्वङ्कुशे पुंसि गुहायां च नपुंसकम् ॥
27.3.39 · p. 267
अनुष्टुप्
कंसारिः कथितो विष्णौ कलत्रं श्रोणिभार्ययोः ।दुर्गस्थाने नृपादीनां कठोरं निष्ठुरे मतम् ॥
27.3.40 · p. 267
अनुष्टुप्
कदरः श्वेतखदिरे क्षुद्ररोगेऽपि चेष्यते ।कस्तूरी स्यान्मृगमदे लताभेदेऽपि गद्यते ॥
27.3.41 · p. 267
अनुष्टुप्
कर्पूरं घनसारे स्यात्काण्डीरः काण्डवत्यपि ।कान्तारः स्यादिक्षुभेदे दुर्गमे च वने बिले ॥
27.3.42 · p. 267
अनुष्टुप्
कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः ।काश्मीरं कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः ॥
27.3.43 · p. 267
अनुष्टुप्
कातरश्चञ्चले त्रस्ते कामारः स्यात्सरोवरे ।काश्मरी मधुपर्ण्यां स्याद्देवयोनौ तु किन्नरः ॥
27.3.44 · p. 267
अनुष्टुप्
किशोरो बालमात्रे स्यात्स्त्रियामश्वस्य शावके ।तैलपर्ण्यां च पुल्लिङ्गस्तरुणावस्थसूर्ययोः ॥
27.3.45 · p. 267
अनुष्टुप्
किर्मीरो ना नागरङ्गे कर्बुरे राक्षसान्तरे ।किंशारुः स्यात्सस्यशूके विशिखे कङ्कपक्षिणि ॥
27.3.46 · p. 267
अनुष्टुप्
किङ्करः स्याद्भृतिभुजि कुठारः परशौ मतः ।कुहरं गह्वरे छिद्रे कुहरो नागभिद्यपि ॥
27.3.47 · p. 268
अनुष्टुप्
कुक्कुरः सारमेये ना ग्रन्थिपर्णे तु कुक्करम् ।कुञ्जरोऽनेकपे केशे स्त्री धातक्यां च पाटलौ ॥
27.3.48 · p. 268
अनुष्टुप्
कूर्मरस्तु कफोणौ स्याज्जानुदेशेऽपि कूर्परः ।कुमारो युवराजेऽश्ववाहके बालके शुके ॥
27.3.49 · p. 268
अनुष्टुप्
स्कन्दे च वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने ।कुमारी मारतरुणीनवमाल्योर्नदीभिदि ॥
27.3.50 · p. 268
अनुष्टुप्
कन्याऽपराजितागौरीजम्बुद्वीपेषु च स्मृता ।कुररी पक्षिभेदे स्यात्कुठारुर्द्रुमकीशयोः ॥
27.3.51 · p. 268
अनुष्टुप्
कुबेरस्तु धनाध्यक्षे वृक्षभेदेऽपि गद्यते ।कुठरं मैथिले विद्यात्कुठरं कवले रते ॥
27.3.52 · p. 268
अनुष्टुप्
कुठरो दण्डविष्कम्भे धातक्यां कुञ्जरा मताः ।कूबरः कुब्जके चारौ कूबरस्तु युगन्धरे ॥
27.3.53 · p. 268
अनुष्टुप्
कुलीरः स्यात्कर्कटके राशिभेदे च गद्यते ।नागान्तरे तु कुहरः कुम्भीरो नक्रचोरयोः ॥
27.3.54 · p. 268
अनुष्टुप्
कुटीरः कर्कटे गेहे कुचरस्तु खगेतरः ।केसरी तुरगे सिंहे किञ्जल्के केसरोऽस्त्रियाम् ॥
27.3.55 · p. 268
अनुष्टुप्
केसरं हिङ्गुनि क्लीबं पुंसि स्यान्नागकेसरे ।सिंहच्छटायां पुन्नागे बकुले च निगद्यते ॥
27.3.56 · p. 269
अनुष्टुप्
केदारस्तु शिवे क्षेत्रेऽद्रौ भूभेदालवालयोः ।केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥
27.3.57 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
केकरस्तु भवेत्खोडे कोटिरस्तु बिडौजसि ।कोटिरो नकुले चापि तथा स्यादिन्द्रगोपके ॥
27.3.58 · p. 269
अनुष्टुप्
कैर्चरं ? मुद्गरे प्राहुः पुंसि शब्दविशारदाः ।कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ॥
27.3.59 · p. 269
अनुष्टुप्
कोटरः कोटरं वृक्षगह्वरे परिकीर्तितम् ।कौमारी मातृकाभेदे कौमारः स्याद्वयोभिदि ॥
27.3.60 · p. 269
अनुष्टुप्
खदिरी स्याच्छाकभेदे ना चन्द्रे दन्तधावने ।खर्जूरं रूप्यखलयोः खर्जूरः कीटवृक्षयोः ॥
27.3.61 · p. 269
अनुष्टुप्
खण्डाभ्रमभ्रलेशे स्यात्स्त्रीणां दन्तक्षतान्तरे ।खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे (वारि)बालके ॥
27.3.62 · p. 269
अनुष्टुप्metre not read in every line
खिङ्खिरः फेरवे प्रोक्तः खनित्रमवदारणे ।कथयन्त्यपि शब्दज्ञाः खरारं च खुरप्रके ? ॥
27.3.63 · p. 269
अनुष्टुप्
खेचरः पवने देवे तथैव च पतत्रिणि ।गर्गरो मीनभेदे स्यान्मन्थन्यामथ गह्वरः ॥
27.3.64 · p. 269
अनुष्टुप्
गुहानिकुञ्जगहनदम्भेषु द्रौ तु गह्वरा ।निम्ने गभीरगम्भीरे गम्भारी स्त्री लतान्तरे ॥
27.3.65 · p. 269
अनुष्टुप्
समष्ठिलायां गण्डीरो गान्धारो देशभिद्यपि ।गान्धारः पुंसि सिन्दूरे स्वररागप्रभेदयोः ॥
27.3.66 · p. 270
अनुष्टुप्
गायत्री त्रिपदादेवीच्छन्दोभित्खदिरेषु च ।गोपुरं तु पुरद्वारि द्वारमात्रेऽपि शस्यते ॥
27.3.67 · p. 270
अनुष्टुप्
कैवर्तीमुस्तयोश्चापि गौधेरो गोधिकाऽत्मजे ।गौधारश्चापि तत्रैव घर्घरस्तु नदान्तरे ॥
27.3.68 · p. 270
अनुष्टुप्
घर्घरश्चञ्चलद्वारि ध्वनौ घूकेऽपि कथ्यते ।श्रीरुद्रवाद्यवीणाया भेदे वस्त्रान्तरेऽपि च ॥
27.3.69 · p. 270
अनुष्टुप्
घर्घरी पात्रभेदे स्याद्घस्मरो बहुभक्षके ।चमरं चामरे क्लीबं मञ्जरीमृगयोः स्त्रियाम् ॥
27.3.70 · p. 270
अनुष्टुप्
चन्दिरस्तु गजे सोमे चत्वरं स्थण्डिलेऽङ्गणे ।चङ्कुरस्तु रथे वृक्षे चमूरुस्तु मृगान्तरे ॥
27.3.71 · p. 270
अनुष्टुप्
चतुरश्चातुरे विज्ञे चकोरः स्यात्खगान्तरे ।चातुरश्चाटुकारे स्यान्नियन्तर्यक्षिगोचरे ॥
27.3.72 · p. 270
अनुष्टुप्
स्त्रियां दाक्ष्ये चातुरी स्याच्चाङ्गेरी त्वम्लिकौषधि ।चिकुरो मूर्धजे प्रोक्तः पिकवृक्षभिदोरपि ॥
27.3.73 · p. 270
अनुष्टुप्
गृहबभ्रौ च तरलागयोरपि सरीसृपे ।चीत्कारः करिघोषे स्याच्चीवरं वल्कले मतम् ॥
27.3.74 · p. 270
अनुष्टुप्
छिदिरः पावके रज्जौ करवाले परश्वधे ।छिदुरश्छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु ॥
27.3.75 · p. 271
अनुष्टुप्
जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु ।जर्जरस्तु जराजीर्णे स्याच्छक्रध्वजशैवले ॥
27.3.76 · p. 271
अनुष्टुप्
जम्बीरः स्याद्दन्तशठे प्रस्थपुष्पद्रुमेऽपि च ।जलेन्द्रो वरुणे चाथ जम्भले च महोदधौ ॥
27.3.77 · p. 271
अनुष्टुप्
जित्वरो जयभाजि स्यात्झर्झरस्तु कलौ युगे ।नदान्तरे वाद्यभाण्डे बालचक्रे तु झल्लरी ॥
27.3.78 · p. 271
अनुष्टुप्
झल्लरी चापि गदिता वाद्यभेदे स्त्रियामपि ।टट्टरी तु मृषावादे लम्पापटहवाद्ययोः ॥
27.3.79 · p. 271
अनुष्टुप्
टङ्कारो विस्मयेऽपि स्यात्प्रसिद्धौ सिञ्जिनीरवे ।टगरष्ट(ङ्क)णक्षारे हेलाविभ्रमगोचरे ॥
27.3.80 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नान्यवत्केकराक्षे स्याड्डिङ्गरः क्षेपणेऽप्यथ ।डङ्गरं फलभेदे स्याड्डमरुर्वाद्यभिद्यपि ॥
27.3.81 · p. 271
अनुष्टुप्
डामरो डिम्बभेदेऽपि सिन्धुफेने तु डिण्डिरः ।तमिस्रं तिमिरे कोपे तमोयुक्तनिशि स्त्रियाम् ॥
27.3.82 · p. 271
अनुष्टुप्
त्वक्पत्री स्त्री तु कारव्यां त्वक्पत्रं स्याद्वराङ्गके ।तगरस्तरुभेदे स्यात्तर्वारस्तु भवेदसौ ॥
27.3.83 · p. 271
अनुष्टुप्
त्रसरः सूत्रवेष्टेऽपि त्र्यङ्कुरी कोललस्यपि ? ।कथितो ना तित्तिरवत्तित्तिरिः पक्षिभिद्यपि ॥
27.3.84 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
तिमिरं स्यादन्धकारे नेत्ररोगे तथेष्यते ।तीवरोऽम्बुनिधौ व्याधे तूणीरः शरसम्पुटे ॥
27.3.85 · p. 272
अनुष्टुप्
तूवरोऽश्मश्रुपुरुषे कषायेऽशृङ्गवद्वृषे ।तुम्बुरुस्तु सुरर्षौ स्यात्तुम्बुरी कुक्कुरस्त्रियाम् ॥
27.3.86 · p. 272
अनुष्टुप्
तुषारोऽम्बुकणे चाद्रौ प्रालेये क्लीबमीरितम् ।तुतुरो वृक्षभेदे स्यादाढक्यां तुवरी मता ॥
27.3.87 · p. 272
अनुष्टुप्
तुन्दिरस्तुन्दिलनरि तैत्तिरं तित्तिरव्रजे ।तोमरस्त्वायुधभिदि दरिद्रो भाग्यवर्जिते ॥
27.3.88 · p. 272
अनुष्टुप्
दहरो मूषिकायां च स्वल्पे भ्रातरि बालके ।दन्तुरस्तून्नतरदे तथोन्नतानते त्रिषु ॥
27.3.89 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
दर्द्दरः पर्वते प्रोक्तस्त्रिष्वीषद्भग्नभाजने ।दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ॥
27.3.90 · p. 272
अनुष्टुप्
दर्दुरा चण्डिकायां स्याद्ग्रामजाले नपुंसकम् ।दण्डारो वहने मत्तवारणे शरयन्त्रके ॥
27.3.91 · p. 272
अनुष्टुप्
कुम्भकारस्य चक्रे च द्वापरः संशये युगे ।दासेरश्चेटिकाऽपत्ये तथैव स्यात्क्रमेलके ॥
27.3.92 · p. 272
अनुष्टुप्
दिग्धरः स्यात्तु दिक्पाले दिक्चरस्तु प्रवासिनि ।स्त्रियां तु दिक्चरी सद्भिर्दिक्चरं तु प्रवासिनि ॥
27.3.93 · p. 273
अनुष्टुप्
द्विपारिस्तु मृगेन्द्रे दीनारो हेममाने स्यात् ।दुरतिः स्यादनिवार्ये भरणानर्हे तु दुर्भरो गदितः ॥
27.3.94 · p. 273
उद्गीतिःmetre not read in every line
- - - - - - - - - - - - - - - ।देवारिर्दितितनये दैत्यारिर्निर्जराच्युतयोः ॥
27.3.95 · p. 273
metre not recognised
धरित्री तु धरण्यां स्त्री धत्तूरो मातुलद्रुमे ।ध्वान्तारिस्तु मतः सूर्ये धिक्कारो न्यक्कृतौ श्रुतः ॥
27.3.96 · p. 273
अनुष्टुप्
धीवरो व्याधविदुषोर्धूर्धरस्त्वग्रगे नरि ।धूसरी किन्नरीभेदे ना खरे पाण्डुरे त्रिषु ॥
27.3.97 · p. 273
अनुष्टुप्
नर्मरा तु दरीभस्त्रासरलानिष्कलासु च ।नर्मरा निष्फलायां स्यान्नमेरुर्वृक्षभिद्यपि ॥
27.3.98 · p. 273
अनुष्टुप्
नरेन्द्रः स्यान्महीपाले विषवैद्ये निगद्यते ।नखक्षते तु नखरो न्यक्कारो धिक्कृतौ मतः ॥
27.3.99 · p. 273
अनुष्टुप्
नगरी नगरे पुर्यामनित्ये नश्वरं मतम् ।नागरं मुस्तके शुण्ठ्यां नागरो नगरस्थिते ॥
27.3.100 · p. 273
अनुष्टुप्
नागरो जातिभेदेऽपि विदग्धेऽपि च तादृशः ।निस्तारः स्यान्निस्तरणे निर्हारोऽभ्यवकर्षणे ॥
27.3.101 · p. 273
अनुष्टुप्
निर्जरस्त्रिदशे प्रोक्तो जराशून्येऽपि वाच्यवत् ।निर्वरो निर्भये सारे निर्वरं विगतत्रपे ॥
27.3.102 · p. 273
अनुष्टुप्
निष्ठुरं च दृढे ग्राम्ये तालपर्ण्यां तु निर्जरा ।निःसारः सारशून्ये स्यान्निगरो गरणे मतः ॥
27.3.103 · p. 274
अनुष्टुप्
निकरो निवहे सारे न्यायदेयधने निधौ ।निकारः स्यात्परिभवे धान्यस्योत्क्षेपणेऽपि च ॥
27.3.104 · p. 274
अनुष्टुप्
नीवरः स्याद्वाणिजके वास्तव्येऽपि तथा मतः ।निरभ्रं त्वभ्रशून्ये खे नीशारः स्यात्तथाऽऽवृतौ ॥
27.3.105 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
नूपुरः पादकटके त्वस्त्रियां परिकीर्तितः ।प्रवरं सन्ततौ गोत्रे स्याच्छ्रेष्ठे वाच्यलिङ्गकम् ॥
27.3.106 · p. 274
अनुष्टुप्
प्रखरोऽश्वस्य सन्नाहे कुक्कुरेऽश्वतरेऽपि च ।पवित्रं तु कुशे ताम्रे मेध्ये पयसि वर्षणे ॥
27.3.107 · p. 274
अनुष्टुप्
प्रदरो रोगभेदे स्याद्विदारे शरभङ्गयोः ।प्रकरः स्यात्पुमान्सङ्घे पुष्पादौ तु नपुंसकम् ॥
27.3.108 · p. 274
अनुष्टुप्
जोङ्गके प्रकरं प्रोक्तं प्रकरी चत्वरावनौ ।संहतौ चोपकृत्यायां ? यथासङ्ख्यमवस्थितौ ॥
27.3.109 · p. 274
अनुष्टुप्
पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ।प्रस्तरो ग्राव्णि च मणौ दर्भमुष्टावपि क्वचित् ॥
27.3.110 · p. 274
अनुष्टुप्
यजमानेऽपि गदितः प्रकारस्तुल्यभेदयोः ।प्रत्यग्रः स्यादभिनवे प्रतीरं तु नदीतटे ॥
27.3.111 · p. 274
अनुष्टुप्
प्रहरः कालमाने स्यात्पतत्रं पक्षपत्रयोः ।प्रचुरं बहुले क्लीबं पतत्री तरुपक्षिणोः ॥
27.3.112 · p. 275
अनुष्टुप्
प्रहारस्तु ( भवेद्वेगे ? ) प्रहारप्रसरौ समौ ।परारुस्तु पटोले स्यादिति शाब्दिकसम्मतम् ॥
27.3.113 · p. 275
अनुष्टुप्metre not read in every line
प्रसारस्तु विसारे स्यात्प्रवीरः श्रेष्ठवाचकः ।पदारः पादधूलौ स्यात्पादालिन्दे च पुंस्यपि ॥
27.3.114 · p. 275
अनुष्टुप्
पार्परो भक्तसिक्थे स्यात्कीनाशे राजयक्ष्मणि ।जराटेऽपि कदम्बस्य केमरे च गदान्तरे ॥
27.3.115 · p. 275
अनुष्टुप्
पाटीरो मूलके वङ्गे वार्तिके ततउन्यपि ।धाराधरेऽपि केदारे वेणुसारेऽपि चेष्यति ॥
27.3.116 · p. 275
अनुष्टुप्
पाण्डुरः स्यान्मरुबके वर्णे ना त्रिषु तद्वति ।प्रान्तरं विपिने दूरशून्यमार्गे च कोटरे ॥
27.3.117 · p. 275
अनुष्टुप्
प्राकारो वरणे प्रोक्तः पामरो नीचमूर्खयोः ।प्रावारश्चोत्तरासङ्गेऽप्युखायां पिठरो मतः ॥
27.3.118 · p. 275
अनुष्टुप्
तथा क्लीबेऽपि निर्दिष्टं मुस्तामन्थानदण्डयोः ।पिञ्जरोऽश्वान्तरे प्रोक्तः क्लीबं स्वर्णे च पीतके ॥
27.3.119 · p. 275
अनुष्टुप्
पिण्डारः क्षपणे गोपे महिषीरक्षके द्रुमे ।पीवरः कच्छपे स्थले युवत्यां पीवरी मता ॥
27.3.120 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्थ (wrong syllable)