कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

णान्तवर्गः · णतृतीयम्

॥ इति णद्वितीयम्‌ ॥

॥ अथ णतृतीयम्‌ ॥

अरणिर्वह्निमन्थे ना द्वयोर्निमन्थ्यदारुणि ।अरुणः कुष्ठभेदे ना सन्ध्यारागेऽर्कसारथौ ॥
15.2.1 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्नि (wrong syllable)
अरुणोऽव्यक्तरागेऽर्के कपिले गुणिनि त्रिषु ।स्त्रियां त्वतिविषाश्यामामञ्जिष्ठात्रिवृतासु च ॥
15.2.2 · p. 108
अनुष्टुप्
अभीक्ष्णं तु भृशे नित्ये तद्युक्तक्रिययोस्त्रिषु ।अवर्णः स्यादथाक्षेपे निर्दये त्वघृणो मतः ॥
15.2.3 · p. 109
अनुष्टुप्
अपर्णा स्यात्तु दुर्गायामनृणस्त्वृणनिर्गते ।अभ्यर्णं स्यात्सन्निहिते त्वकर्णः क्ष्वेड ईरितः ॥
15.2.4 · p. 109
अनुष्टुप्
पूर्णेतरे त्वपूर्णं स्यात्पण्यवीथ्यां तथाऽऽपणः ।आपणस्तु निषद्यायामाकीर्णं सङ्कुले मतम् ॥
15.2.5 · p. 109
अनुष्टुप्
आर्याणी स्यादथार्यायामिच्छायामीषणा मता ।इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः ॥
15.2.6 · p. 109
अनुष्टुप्
ईरिणं तूषरे शून्ये त्विरिणं चापि गद्यते ।ईक्षणं दर्शने दृष्टावङ्कनेऽपि निगद्यते ॥
15.2.7 · p. 109
अनुष्टुप्
उरणस्तु भवेन्मेढ्रे मरीचे तूषणं मतम् ।ऊषणा तु कणायां स्यादूक्षणं प्रोक्षणे मतम् ॥
15.2.8 · p. 109
अनुष्टुप्
ऊहणः काष्ठभेदे स्यादुद्रेके तूल्बणं मतम् ।अथो मार्गानुसारिण्यामेषणी च तुलाभिदि ॥
15.2.9 · p. 109
अनुष्टुप्
कवोष्णमिषदुष्णे स्यात्कदुष्णं च निगद्यते ।करुणा तु कृपायां स्याद्रसपादपयोः पुमान् ॥
15.2.10 · p. 109
अनुष्टुप्
कत्तृणं तृणभित्प्रश्न्योः करणं हेतुकर्मणोः ।बालवादौ हस्तलेपे नृत्यगीतप्रभेदयोः ॥
15.2.11 · p. 109
अनुष्टुप्
क्रियाभेदेन्द्रियक्षेत्रकायसंवेशनेषु च ।कायस्थे साधने क्लीबं पुंसि शूद्राविशोः सुते ॥
15.2.12 · p. 109
अनुष्टुप्
कल्याणं मङ्गले स्वर्गेऽक्षये गौर्यां तु योषिति ।कङ्कणं हस्तवलये सूत्रमण्डनयोरपि ॥
15.2.13 · p. 110
अनुष्टुप्
करेणुर्गजयोषायां स्त्रियां ना तु मतङ्गजे ।अतिक्रमे स्यात्क्रमणं कर्षणं त्वपकर्षणे ॥
15.2.14 · p. 110
अनुष्टुप्
करिणी जातिभेदे स्यात्करणिः पादपान्तरे ।कार्मणं कर्मठे क्लीबे मन्त्रतन्त्रादियोजने ॥
15.2.15 · p. 110
अनुष्टुप्
कारणं तु मतं हेतुवधयोः करणेऽपि च ।स्त्री यातनायां किरणो गभस्तौ किरणं पुनः ॥
15.2.16 · p. 110
अनुष्टुप्
क्लीबं विकिरणे, भृत्ये कुर्वाणोऽपि च कारके ।स्त्रियां कृपाणी कर्तर्यां खड्गे निगदितः पुमान् ॥
15.2.17 · p. 110
अनुष्टुप्
कृकणः क्रकरे ख्यातः कृपणो द्रव्यलम्पटे ।खरणाः खरनासे स्यात्खुरणाः खुरनासिके ॥
15.2.18 · p. 110
अनुष्टुप्
गर्हणा स्यात्तु निन्दायां गर्भवत्यां तु गर्भिणी ।ग्रहणं तूपलब्धौ स्यादादरे च तथा करे ॥
15.2.19 · p. 110
अनुष्टुप्
ग्रहोपरागस्वीकारबन्दिष्वपि निगद्यते ।उद्ग्राहे गरणं प्राहुर्गार्भीणं गर्भसम्भवे ॥
15.2.20 · p. 110
अनुष्टुप्
गृहिणी तु भवेत्पत्न्यां ग्रहणी तु गदान्तरे ।ग्रामणीर्भौगिके पत्यौ प्रधाने नापितेऽपि च ॥
15.2.21 · p. 110
अनुष्टुप्
ग्रामीणा नीलिकायां स्याद्ग्रामोद्भूते तु वाच्यवत् ।स्याद्गुर्विणी तु गर्भिण्यां गूरणं तूद्यमे मतम् ॥
15.2.22 · p. 110
अनुष्टुप्
गोकर्णस्तु मृगे सर्पेऽश्वतरे च गणान्तरे ।अङ्गुष्ठानामिकोन्माने मूर्विकायां तु योषिति ॥
15.2.23 · p. 111
अनुष्टुप्
गुरणं स्यादुद्यमने घृष्टौ घरणमुच्यते ।उच्चैर्घुष्टे घोषणा स्याद्घोषणस्तूच्चभाषिणि ॥
15.2.24 · p. 111
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable)
चरणोऽस्त्री बह्वृचादौ मूले गोत्रे पदेऽपि च ।भ्रमणाशनयोः क्लीबं चर्वणं भक्षणे मतम् ॥
15.2.25 · p. 111
अनुष्टुप्
कुशीलवे चारणः स्यात्तथा च स्तुतिपाठके ।चिक्कणं स्यात्तु मसृणे जरणं हिङ्गुनि स्मृतम् ॥
15.2.26 · p. 111
अनुष्टुप्
जरणं जीरकेऽपि स्यात्कृष्णे सौवर्चलेऽपि च ।जृम्भणं स्यात्तु जृम्भायां डयनं तु रथे स्मृतम् ॥
15.2.27 · p. 111
अनुष्टुप्
तरणिः सागरे सूर्ये कुमारीनौकयोः स्त्रियाम् ।निम्नतायां च तरणिर्नौकायामपि तारणिः ॥
15.2.28 · p. 111
अनुष्टुप्
तरुणो रुबुके यूनि तरुणं कुब्जपुष्पके ।तर्पणं प्रीणने प्रोक्तं चिञ्चायां तिन्तिणी मता ॥
15.2.29 · p. 111
अनुष्टुप्
तोरणं द्वारबन्धे स्यात्तोरणः पादपान्तरे ।दक्षिणो दक्षिणोद्भूतसरलच्छन्दवर्तिषु ॥
15.2.30 · p. 111
अनुष्टुप्
अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम् ।द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे ॥
15.2.31 · p. 111
अनुष्टुप्
दद्रुणो दद्रुरोगार्ते दारणं तु विदारणे ।दारुणं भीषणेऽपि स्याद्दारुणस्तु रसान्तरे ॥
15.2.32 · p. 111
अनुष्टुप्
दुर्वर्णं तु भवेद्रौप्ये द्युमणिस्तिग्मदीधितौ ।द्रुघणो मुद्गरेऽपि स्याद्द्रुहिणेऽपि परश्वधे ॥
15.2.33 · p. 112
अनुष्टुप्
हिरण्यगर्भे द्रुहिणो दौर्गीणं दुर्गसंभवे ।दूर्वारसे तु दौर्वीणं मृष्टपर्णेऽपि तन्मतम् ॥
15.2.34 · p. 112
अनुष्टुप्
धर्मणस्तु मतो वृक्षसर्पयोर्धरणं पुनः ।मानभेदेऽथ धरणी भुवि बन्धे तु धर्षणा ॥
15.2.35 · p. 112
अनुष्टुप्
धर्षणं तु रतेऽसत्यां धर्षणीति निगद्यते ।धर्मिणी गदिता सत्यां स्वर्लोके धरुणः पुमान् ॥
15.2.36 · p. 112
अनुष्टुप्
परमेष्ठिनि नीरे च धारणा योगभिद्यपि ।धारणी तु भवेन्नाड्यां बुद्धमन्त्रेऽपि कुत्रचित् ॥
15.2.37 · p. 112
अनुष्टुप्
धिषणस्त्रिदशाचार्ये प्रज्ञायामपि योषिति ।धुरिणः स्यात्तु निपुणे वरेण्येऽपि निगद्यते ॥
15.2.38 · p. 112
अनुष्टुप्
निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च ।निर्याणं वारणापाङ्गे तथा मोक्षेऽध्वनिर्गमे ॥
15.2.39 · p. 112
अनुष्टुप्
निर्माणं निर्मितौ सारे तथैव स्यात्समञ्जसे ।निर्वाणं निर्वृतौ मोक्षेऽस्तंगमे गजमज्जने ॥
15.2.40 · p. 112
अनुष्टुप्
निद्राणः स्यात्तु शयिते निष्प्राणः स्याद्गतासुनि ।निपुणः स्यादभिज्ञेऽथ निद्राणः शयिते मतः ॥
15.2.41 · p. 112
अनुष्टुप्
अश्वासने स्यात्पल्याणं प्रयाणं तोकने गतौ ।प्रवणस्तु भवेत्प्रह्वोदरयोश्च चतुष्पथे ॥
15.2.42 · p. 112
अनुष्टुप्
क्रमनिम्नमहीभागे प्रमाणं मध्यवर्तिनि ।तथैव नित्यमर्यादाशास्त्रेषु च प्रमातरि ॥
15.2.43 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
इयत्तायां च हेतौ च प्रभूष्णुः शक्तिमत्यपि ।प्रवेणिस्तु कुथे वेण्यां प्रवीणो निपुणे नरि ॥
15.2.44 · p. 113
अनुष्टुप्
पक्षिणी स्यात्पूर्णिमायां विहग्यां शाकिनीभिदि ।आगामिवर्तमानाहर्युक्तरात्रावपीष्यते ॥
15.2.45 · p. 113
अनुष्टुप्
पत्रोर्णं धौतकौशेये पत्रोर्णः शोणके मतः ।पादत्राणे तु पत्त्राणं भवेत्प्राणहिताय च ॥
15.2.46 · p. 113
अनुष्टुप्
शराणां पत्ररचने पत्रणा परिकीर्तिता ।प्रघणस्ताम्रकलशे प्रघाणश्च निगद्यते ॥
15.2.47 · p. 113
अनुष्टुप्
पक्वणः शबरावासे त्वागन्ता प्राघुणो मतः ।पाषाणः स्यात्तु दृषदि पुराणं पञ्चलक्षणे ॥
15.2.48 · p. 113
अनुष्टुप्
पणे पुंसि त्रिषु प्रत्ने पूरणः पूरके त्रिषु ।पिष्टभेदे पूरणं स्याच्छाल्मल्यां पूरणी स्त्रियाम् ॥
15.2.49 · p. 113
अनुष्टुप्
पटारम्भकसूत्रेषु व्यादेशे प्रेषणं मतम् ।प्रोक्षणं सेचने चापि वधे यज्ञार्थके पशोः ॥
15.2.50 · p. 113
अनुष्टुप्
ब्रह्माणी स्याच्छक्तिभेदे बर्हिणस्तु शिखण्डिनि ।ब्राह्मणं ब्रह्मसङ्घाते वेदभागे पुमान् द्विजे ॥
15.2.51 · p. 113
अनुष्टुप्
बार्हिणं बर्हिणस्येदमित्यर्थे ब्राह्मणी पुनः ।ब्राह्मणस्य च योषायां ब्राह्मणी चौषधान्तरे ॥
15.2.52 · p. 113
अनुष्टुप्
बृहणं पुष्टिकरणे भरणी त्वृक्षघोषयोः ।भृतिवेतनयोः क्लीबे क्रीडायां भ्रमणी मता ॥
15.2.53 · p. 114
अनुष्टुप्
तथा कारुण्डिकायां च क्लीबे तु गमनान्तरे ।मधुव्रते तु भ्रमणो भविष्णुर्भविता समौ ॥
15.2.54 · p. 114
अनुष्टुप्
भीषणो रसभेदे स्याच्छल्लक्यां भीषणा मता ।दारुणे तु यथालिङ्गं भूस्तृणं तु तृणान्तरे ॥
15.2.55 · p. 114
अनुष्टुप्
भूषणं स्यादलङ्कारे मसृणोऽकर्कशे मतः ।स्निग्धेऽपि च तथोमायामुद्दंशे मत्कुणो मतः ॥
15.2.56 · p. 114
अनुष्टुप्
तथैव निर्विषाणेभे निश्श्मश्रुणि च पूरुषे ।मत्कुणो नारिकेलेऽपि मन्दोष्णं तु कदुष्णके ॥
15.2.57 · p. 114
अनुष्टुप्
मार्गणो याचकेऽपि स्यात्तथैव च शिलीमुखे ।क्लीबं याच्ञान्वेषणयोर्यन्त्रणं रक्षणे स्मृतम् ॥
15.2.58 · p. 114
अनुष्टुप्
तथा नियमने बन्धे रवणः शब्दने खरे ।रमणं तु पटोले स्याद्धवे ना रमणी स्त्रियाम् ॥
15.2.59 · p. 114
अनुष्टुप्
अथावने रक्षणं स्याद्रञ्जणो ? भाजनान्तरे ।रावणः स्याद्दशास्येऽपि रामणं रमणस्य यत् ॥
15.2.60 · p. 114
अनुष्टुप्
रिङ्खणं रिङ्गणं चापि स्खलने परिकीर्तितम् ।अस्नेहने रूक्षणं स्याद्रूपणं प्रोञ्छने मतम् ॥
15.2.61 · p. 114
अनुष्टुप्
रेषणः काशमर्दे तु गदितः शब्दवेदिभिः ।रोषणः पारदे हेमघर्षणोषरयोरपि ॥
15.2.62 · p. 114
अनुष्टुप्
क्रोधने स्याद्वाच्यलिङ्गः स्याद्रोचिष्णुस्तु दीप्तिमान् ।रोहिणी कण्ठरोगे स्यादृक्षभेदेऽपि गद्यते ॥
15.2.63 · p. 115
अनुष्टुप्
रोहिणश्चन्दनद्रौ च गदितः शब्दवेदिभिः ।लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे ॥
15.2.64 · p. 115
अनुष्टुप्
तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदत्विषोः स्त्रियाम् ।लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् ॥
15.2.65 · p. 115
अनुष्टुप्
लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति ।रामभ्रातरि पुंसि स्यात्सश्रीके चाभिधेयवत् ॥
15.2.66 · p. 115
अनुष्टुप्
जङ्घात्राणे वङ्क्षणः स्याद्देहावयवभिद्यपि ।वरुणस्तरुभेदेऽप्सु पश्चिमाशाधिपेऽपि च ॥
15.2.67 · p. 115
अनुष्टुप्
वरणस्तिक्तशाके ना वरणा तु नदीभिदि ।क्लीबं कन्यादिवरणे वेष्टने च निगद्यते ॥
15.2.68 · p. 115
अनुष्टुप्
वरुणस्तु भवेत्सेतौ सालेऽपि च निगद्यते ।वर्चिष्णुर्वर्चसा युक्ते वर्तिष्णुर्वर्तने मतः ॥
15.2.69 · p. 115
अनुष्टुप्
वर्द्धिष्णुर्वर्धके प्रोक्तस्तूरःसन्धौ तु वङ्क्षणम् ।वर्षणं तु भवेद्वृष्टावाशाभेदे तु वारुणी ॥
15.2.70 · p. 115
अनुष्टुप्
वारणं प्रतिषेधे ना वारणस्तु मतङ्गजे ।विषाणी क्षीरकाकोल्यामजशृङ्ग्यां च योषिति ॥
15.2.71 · p. 115
अनुष्टुप्
कुष्ठानामौषधे क्लीबं पशुशृङ्गेभदन्तयोः ।विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः ॥
15.2.72 · p. 115
अनुष्टुप्
विवर्णः पामरे प्रोक्तो विकर्णः कौरवानुजे ।वीक्षणं नयने प्रोक्तं वीक्षणं चावलोकने ॥
15.2.73 · p. 116
अनुष्टुप्
वीरणं तृणभेदेऽपि तथाऽण्डे वृषणो मतः ।शरणं गृहरक्षित्रोर्वधरक्षणयोरपि ॥
15.2.74 · p. 116
अनुष्टुप्
श्रवणमृक्षभेदे स्याच्छ्रुतौ कर्णे च गद्यते ।श्रमणो यतिभेदे ना निन्द्यजीविनि च त्रिषु ॥
15.2.75 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
स्त्रियां सुदर्शनामांस्योर्मुण्डीरीशबरीभिदोः ।श्रयण्यङ्गारधान्यां स्याच्छशोर्णं शशलोम्नि च ॥
15.2.76 · p. 116
अनुष्टुप्
श्रपणं तु भवेत्पाके श्रामणस्य … वत् ? ।श्रावणं श्रोत्रविषये शिक्षणं शासने मतम् ॥
15.2.77 · p. 116
अनुष्टुप्metre not read in every line
श्रीपर्णं कमलेऽपि स्यादग्निमन्थे मतः पुमान् ।श्रावणो मासि पाषण्डे दध्याल्यां श्रावणा स्त्रियाम् ॥
15.2.78 · p. 116
अनुष्टुप्
भवेच्छ्रीपर्णी काश्मर्यां सहिष्णुः सहने मतः ।शृङ्गिणी तु भवेद्धेन्वां शोषणं तु विशोषणे ॥
15.2.79 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्णी (wrong syllable)
सरणी स्यात्प्रसारिण्यां सप्तार्णस्तरुभिद्यपि ।सरणिः पद्धतौ पङ्क्तौ सारणो राक्षसान्तरे ॥
15.2.80 · p. 116
अनुष्टुप्
रुग्भेदे ना स्वल्पनद्यां प्रसारण्यां च सारिणी ।सिङ्घाणं काचपात्रे स्याल्लोहनासिकयोर्मले ॥
15.2.81 · p. 116
अनुष्टुप्
सुपर्णः स्यात्स्वर्णचूडे गरुडे कृतमालके ।जनन्यां वैनतेयस्य कमलिन्यां च योषिति ॥
15.2.82 · p. 116
अनुष्टुप्
सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके ।सुवर्णो ना स्वर्णकर्षे सुवर्णश्च मखान्तरे ॥
15.2.83 · p. 116
अनुष्टुप्
स्त्री कृष्णागुरुणि क्लीबे काञ्चने हरिचन्दने ।सूरणं कन्दभेदे स्यात् सृक्किण्यवयवान्तरे ॥
15.2.84 · p. 117
अनुष्टुप्
स्वैरिणी व्यभिचारिण्यां हरणं चोरकर्मणि ।हरेणुर्ना मतीने स्त्री रेणुकाकुलयोषितोः ॥
15.2.85 · p. 117
अनुष्टुप्
हर्षणो योगभेदे च हर्षणोऽक्षिरुगन्तरे ।हर्मणिः ? स्याद्गृहगते हरणं प्रापणे मतम् ॥
15.2.86 · p. 117
अनुष्टुप्
हरिणी हरितायां च नारिभिद्वृत्तभेदयोः ।सुवर्णप्रतिमायां च सारङ्गे हरिणो मतः ॥
15.2.87 · p. 117
अनुष्टुप्
विशदे वाच्यलिङ्गः स्याद्वराटे स्वर्णचेतसोः (?) ।क्लीबेऽथ क्षपणो बौद्धे क्षपणं कालयापने ॥
15.2.88 · p. 117
अनुष्टुप्
क्षमणं सहने क्षेपण्युच्यते स्त्र्यायुधान्तरे ।क्षेपणं प्रेरणे नौकादण्डजालभिदोः स्त्रियाम् ॥
15.2.89 · p. 117
अनुष्टुप्