कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

तान्तवर्गः · ततृतीयम् (1/2)

॥ इति तद्वितीयम्‌ ॥

॥ अथ ततृतीयम्‌ ॥

अर्हतश्चापि सुगते क्षपणेऽपि च गद्यते ।अगस्तिः स्यात्कुम्भयोनौ वङ्गसेनतरावपि ॥
16.3.1 · p. 136
अनुष्टुप्
अर्वती कुम्भदास्यां च वडवायां च योषिति ।अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते ॥
16.3.2 · p. 136
अनुष्टुप्
अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ।अमृता तु भवेत्पथ्यागुडूच्यामलकीषु च ॥
16.3.3 · p. 136
अनुष्टुप्
अजितः कमलाकान्तेऽप्यजिता हरयोषिति ।अजितौषधिभेदे स्यादच्युतोऽनिर्जिते स्थिरे ॥
16.3.4 · p. 136
अनुष्टुप्
हरौ च योषिति पुनर्गौर्यामप्यच्युता मता ।अर्दितं स्याद्याचितेऽपि वातव्याधौ च हिंसिते ॥
16.3.5 · p. 136
अनुष्टुप्
अक्षताश्चापि लाजेषु तण्डुलादावहिंसिते ।अव्यक्तस्तु हरौ गुप्ते शङ्करे महदादिके ॥
16.3.6 · p. 136
अनुष्टुप्
आत्मन्यपि तथानन्तो गदितो विष्णुशेषयोः ।अनन्ता सारिवादूर्वाविशल्यालाङ्गलीषु च ॥
16.3.7 · p. 136
अनुष्टुप्
अनन्ता हैमवत्यां च गुडूच्यां च क्षितावपि ।अनन्तं व्योम्नि क्लीबे स्यात्पूजिते त्वञ्चितं मतम् ॥
16.3.8 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्नि (wrong syllable)
अतीतं पूर्ववृत्तेऽपि सुदृढेऽपि निगद्यते ।अंहतिस्तु भवेद्दाने निर्बुद्धावमतिः पुमान् ॥
16.3.9 · p. 136
अनुष्टुप्
अदितिर्वसुधायां स्याददितिर्देवमातरि ।अखातं स्याद्देवखातेऽसत्ये त्वनृतमीरितम् ॥
16.3.10 · p. 137
अनुष्टुप्
अश्मन्तस्तरुभेदे स्यादश्मन्तं मरणे मतम् ।अमितं स्यादसङ्ख्यातेऽप्यमितः काल उच्यते ॥
16.3.11 · p. 137
अनुष्टुप्
अर्चितः पूजितजनेऽप्यसितः श्यामले मतः ।अरतिः स्यादसन्तोषे त्वर्पितं स्यात्समर्पिते ॥
16.3.12 · p. 137
अनुष्टुप्
अंहतिस्त्वशुभे त्यागरोगयोरङ्गतिः पुनः ।पुंस्यग्निहोत्रवह्निष्वप्यापातः पतने मतः ॥
16.3.13 · p. 137
अनुष्टुप्
तदात्वे स्यादथाघ्रातं शिङ्घितक्रान्तयोरपि ।आध्मातः पवनव्याधा आख्यातं भाषिते तिङि ॥
16.3.14 · p. 137
अनुष्टुप्
आप्लुतः स्नातके स्नातेऽप्यादृतः सादरेऽर्चिते ।आचितः शकटोन्मेये पलानामयुतद्वये ॥
16.3.15 · p. 137
अनुष्टुप्
पुल्लिङ्गः सङ्गृहीतेऽपि छन्नेऽपि स्यात्त्रिलिङ्गकः ।आहतं तु मृषार्थे स्यात्ताडिते गुणितेऽपि च ॥
16.3.16 · p. 137
अनुष्टुप्
स्यात्पुरातनवस्त्रेऽपि नववस्त्रेऽपि नाऽऽनके ।आनर्तः स्याद्देशभेदे नृत्यस्थाने जले रणे ॥
16.3.17 · p. 137
अनुष्टुप्
आवर्तश्चिन्तने वारिभ्रमे चावर्तनेऽपि च ।आस्फोतः कोविदारार्कपर्णयोरभिधीयते ॥
16.3.18 · p. 137
अनुष्टुप्
आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति ।आयतिस्तु स्त्रियां दैर्घ्ये प्रभावागामिकालयोः ॥
16.3.19 · p. 138
अनुष्टुप्
आयत्तिस्तु स्त्रियां स्नेहे वशित्वे वासरे बले ।आयस्तः क्लेशिते क्षिप्ते तेजिते कुपिते हते ॥
16.3.20 · p. 138
अनुष्टुप्
आकृतिस्तु स्त्रियां रूपे सामान्यवपुषोरपि ।आसत्तिः सङ्गमे लाभे स्त्रियामापत्तिरापदि ॥
16.3.21 · p. 138
अनुष्टुप्
प्रापणेऽपि च योषित्स्यादापातः पतने पुमान् ।आनतिस्तु प्रणामे स्यादाहतिर्हनने भवेत् ॥
16.3.22 · p. 138
अनुष्टुप्
आश्रुतं स्यात्प्रतिज्ञातेऽप्यादृतः सादरार्थवान् ।अथेच्छाविषयीभूतेऽपीषितं च तथेक्षिते ॥
16.3.23 · p. 138
अनुष्टुप्
इङ्खितं स्याद्गतौ क्लीबे हीरितं समुदीरिते ।इङ्गितं चेष्टिते प्रोक्तमीक्षितं त्ववलोकिते ॥
16.3.24 · p. 138
अनुष्टुप्
ईषितं त्वुञ्छिते शस्ते संस्तुतावीडितस्तथा ।उषितं व्युषिते दग्धेऽप्युदन्तः साधुवार्तयोः ॥
16.3.25 · p. 138
अनुष्टुप्
उदात्तः स्वरभेदे स्याद्दयात्यागादिसंयुते ।काव्यालङ्करणे कृत्येऽप्युदितं तूक्त उद्गते ॥
16.3.26 · p. 138
अनुष्टुप्
उतप्तं शुष्कमांसे स्यात्त्रिषु तप्ते परिप्लुते ।उचितं तु भवेन्न्यस्ते मिते ज्ञाते समञ्जसे ॥
16.3.27 · p. 138
अनुष्टुप्
उच्छ्रितं त्रिषु सञ्जाते समुन्नतप्रवृद्धयोः ।उन्मत्तस्तु भवेच्छौण्डे धत्तूरमुचकुन्दयोः ॥
16.3.28 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
उन्नतस्तु भवेद्दीर्घे द्रुमे त्रिष्वपि चोद्धते ।उद्घातस्तु भवेत्पादस्खलने समुपक्रमे ॥
16.3.29 · p. 139
अनुष्टुप्
पवनाभ्यासयोगस्य कालभेदेऽप्युदीरितः ।उद्रङ्गे सुकुमारे स्यादुत्थितो वृद्धिमत्यपि ॥
16.3.30 · p. 139
अनुष्टुप्
भुक्तोज्झितेऽप्युद्वृत्तं स्यादुदितं तूद्गतेऽपि च ।उत्क्षिप्तमूर्ध्वक्षिप्ते स्यात्परित्यक्तेऽपि वाच्यवत् ॥
16.3.31 · p. 139
अनुष्टुप्
उद्रिक्तं स्यादुर्वरितेऽप्युत्प्लुतं गमनान्तरे ।उत्थितं तु समुत्थानेऽप्युदितं तु समुद्गते ॥
16.3.32 · p. 139
अनुष्टुप्
तापादिनोर्ध्वगमने स्यादुच्छिक्तमपि त्रिषु ।निर्मयादेऽप्युद्धतः स्यादुद्भूतं प्रकटीकृते ॥
16.3.33 · p. 139
अनुष्टुप्
उक्षितं प्रोक्षितेऽपि स्यादुपेतः प्राप्तमात्रके ।उन्नीतं तर्कितेऽपि स्यादुत्कृत्तं छिन्नवस्तुनि ॥
16.3.34 · p. 139
अनुष्टुप्
उपान्तं स्यादनुप्रान्ते जये स्यादुज्जितिः स्त्रियाम् ।उत्पाटिते स्यादुत्खातमुद्गीतं सामगायने ॥
16.3.35 · p. 139
अनुष्टुप्
न्यूनीकृते तूनितं स्यादुपात्तं स्वीकृतावपि ।ऊर्मितं विषमस्थूलेऽप्युद्भ्रान्तं तु परिभ्रमे ॥
16.3.36 · p. 139
अनुष्टुप्
उत्पातस्तूदितो रिष्टेऽप्येधतुः पुरुषेऽनले ।एजितः कम्पिते दीप्तेऽपनयेऽप्योणितं मतम् ॥
16.3.37 · p. 140
अनुष्टुप्
अथ क्रन्दितमाह्वाने रुदिते च नपुंसकम् ।कापोतो रुचके क्लीबं कपोतौघेऽञ्जनान्तरे ॥
16.3.38 · p. 140
अनुष्टुप्
क्वणितं शब्दविषये क्रमिता चालके पुमान् ।कविता स्यात्तु काव्यादावुक्तार्थे कथितं मतम् ॥
16.3.39 · p. 140
अनुष्टुप्
कलितं त्ववबुद्धे स्यात् क्वथितं परिपाचिते ।अथ स्यात् क्रयितं क्रीते क्रमितं गमिते विदुः ॥
16.3.40 · p. 140
अनुष्टुप्
कम्पितं स्यात्तु विधुते क्रव्यात्स्याद्राक्षसे खगे ।केशप्रसाधनद्रव्ये कङ्कती समुदाहृता ॥
16.3.41 · p. 140
अनुष्टुप्
काङ्क्षितं त्वीहितार्थे स्यात्कामितं च तदर्थकम् ।मतं च काचितं बद्धे क्रामितं विक्रमान्विते ॥
16.3.42 · p. 140
अनुष्टुप्
किरातो म्लेच्छभेदे स्याद्भूनिम्बेऽल्पतनावपि ।स्त्रियां चामरवत्यां स्यात्कुट्टनीदुर्गयोरपि ॥
16.3.43 · p. 140
अनुष्टुप्
कुपितः स्याद्रोषयुते शाठ्ये तु कुसृतिः स्त्रियाम् ।कुञ्चितं स्यात्तु सङ्कोचे निन्द्ये कुत्सितमीरितम् ॥
16.3.44 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
कूर्दितं तु प्लवे प्राहुः कूणितं कूजितं रणे ।कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥
16.3.45 · p. 140
अनुष्टुप्
केशितं केशविषये केलितं क्रीडिते मतम् ।किरातसङ्घे कैरातं कोपितस्तु रुषान्विते ॥
16.3.46 · p. 140
अनुष्टुप्
खचितं तु भवेद्व्याप्तौ खनितं क्षोदिते मतम् ।खलतिः केशहीने स्यात्पुंसि छिन्नेऽपि खण्डितम् ॥
16.3.47 · p. 141
अनुष्टुप्
खण्डिता पत्यन्तरिता खगितस्थपिते समे ।खादितं गिलिते प्रोक्तं खेदितं खेदसंयुते ॥
16.3.48 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
क्रीडायुते खेलितं स्यान्निन्दिते स्यात्तु गर्हितम् ।गर्जितं वारिवाहादिध्वनौ ना मत्तकुञ्जरे ॥
16.3.49 · p. 141
अनुष्टुप्
ग्रथितं गुम्फिते क्रान्ते हिंसिते च त्रिलिङ्गकम् ।गभस्तिः किरणे सूर्ये ना स्वाहायां च योषिति ॥
16.3.50 · p. 141
अनुष्टुप्
गमितं यापिते प्रोक्तं ग्लानिते ग्लापितं मतम् ।गर्मुत् स्त्री स्वर्णलतयोः सङ्ख्याते गणितं मतम् ॥
16.3.51 · p. 141
अनुष्टुप्
गदितं वाचितेऽर्थे तु गर्भितं गर्भवत्यपि ।ग्रसितं स्यात्तु गिलिते गालितं शोधितार्थकम् ॥
16.3.52 · p. 141
अनुष्टुप्
गामितं प्रापितार्थे स्याद्व्यापिते गाहितं विदुः ।गापितं गायितं गानविषये ग्रामता पुनः ॥
16.3.53 · p. 141
अनुष्टुप्
ग्रामानां तु समूहे स्यान्निगीर्णे गिलितं विदुः ।गीष्पतिर्निर्जरगुरौ ग्रथिते गुम्फितं मतम् ॥
16.3.54 · p. 141
अनुष्टुप्
गुपितं गूहिते प्रोक्तं गुणितं गणितार्थकम् ।गोदन्तो हरितालेऽपि कथ्यते शब्दवेदिभिः ॥
16.3.55 · p. 141
अनुष्टुप्
गोपितं तु रहस्यार्थे गोपतिः शिवषण्ढयोः ।नृपभास्करदिक्पालगोपेषु च निगद्यते ॥
16.3.56 · p. 141
अनुष्टुप्
गोमितं ? तूपलिप्ते स्याद्गोमती त्वृक्नदीभिदोः ।घर्षितं घृष्टितार्थे स्याद्घटितं त्वपि निर्मिते ॥
16.3.57 · p. 142
अनुष्टुप्
घर्मितः स्वेदितेऽपि स्याद्घ्रापितं घ्राणमापिते ।घूर्णितं तन्द्रिते प्रोक्तं घोलितं तु प्रचालिते ॥
16.3.58 · p. 142
अनुष्टुप्
चरितं कर्मणि प्राहुः पौनःपुन्ये तु चर्वितम् ।चमितं भोजितेऽपि स्याच्चर्च्चितं तु विलेपिते ॥
16.3.59 · p. 142
अनुष्टुप्
चकितं तु भवेत्स्पन्दे चलितं प्रचलायिते ।स्याच्चारुता तु सौन्दर्ये चालितं त्वन्यथा कृते ॥
16.3.60 · p. 142
अनुष्टुप्
चावितं गालितेऽपि स्याच्चिह्नितं स्यात्तथान्तिके ।चिन्तितं चित्तविषये चेष्टितं स्यात्तु कर्मणि ॥
16.3.61 · p. 142
अनुष्टुप्
चूषितं भक्षणभिदि चूर्णितं चातिकुट्टिते ।प्रेरिते चोदितं प्रोक्तं चोरितं स्यात्तु निह्नुतौ ॥
16.3.62 · p. 142
अनुष्टुप्
चोरता स्याच्चोरकृतौ छलितं तु प्रतारिते ।छर्दितं स्यात्तथोद्गीर्णे छादितं पिहिते मतम् ॥
16.3.63 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चो (wrong syllable)
छात्रीकृते छात्रितं स्याच्छायितं छेदिते विदुः ।छुरितं मिश्रिते प्रोक्तं छेदितं तु द्विधाकृतौ ॥
16.3.64 · p. 142
अनुष्टुप्
स्याज्जगद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु ।जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ॥
16.3.65 · p. 142
अनुष्टुप्
जयन्ती वृक्षभिद्गौर्योस्तिथिभेदपताकयोः ।जयन्ती स्यादिन्द्रपुत्र्यां जयन्तस्तत्तनूजनौ ॥
16.3.66 · p. 142
अनुष्टुप्
हरे भीमेऽथ ज्वलितं वाच्यवद्दग्ध उज्चले ।जनता जनसङ्घे स्याज्ज्वरितं तु ज्वरान्विते ॥
16.3.67 · p. 143
अनुष्टुप्
जनिता जनके पुंसि जनिता निर्मितौ स्त्रियाम् ।हिंसिते स्याज्जासितोऽथ जामाता दुहितुः पतिः ॥
16.3.68 · p. 143
अनुष्टुप्
सूर्यावर्ते धवे पुंसि जामिताऽलस्यवाचिनी ।जीमूतः स्याद्देवताडे मेघे धृतिकरे गिरौ ॥
16.3.69 · p. 143
अनुष्टुप्
जीवातुर्जीविते भक्ते जीवनीयौषधेऽपि च ।जीवन्ती देवताशम्योर्गुडूचीवन्दयोरपि ॥
16.3.70 · p. 143
अनुष्टुप्
जिह्मता स्यात्तु कौटिल्ये जीवितं जीवने भृतौ ।जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि ॥
16.3.71 · p. 143
अनुष्टुप्
जृम्भे च जेमितं तु स्याद्भोजिते जोङ्गितं मतम् ।झरितं हिंसितेऽपि स्याज्झरितं झरयुज्यपि ॥
16.3.72 · p. 143
अनुष्टुप्
अथ स्याज्ज्ञापितो ज्ञप्ते तडिदुक्ता तु विद्युति ।त्वरितं प्रजवे शीघ्रे तैलितं स्नेहपाचिते ॥
16.3.73 · p. 143
अनुष्टुप्
तन्द्रितं स्याद्घूर्णितेऽथ तन्त्रितं शास्त्रसम्मते ।श्लक्ष्णीकृते तक्षितं स्यात्समे तापिततामिते ॥
16.3.74 · p. 143
अनुष्टुप्
त्रासितं जनितत्रासे तारितं तरणान्विते ।तानितं तानितपटे तिमितं स्तिमितार्थके ॥
16.3.75 · p. 143
अनुष्टुप्
तार्णतो वासुदेवे स्याच्छार्ङ्गे तु तृणता मता ।त्रिगर्तो ना देशभेदे तथा स्याद्गणितान्तरे ॥
16.3.76 · p. 144
अनुष्टुप्
भवेद्घुर्घुरिकायां च त्रिगर्ता कामुकस्त्रियाम् ।तुलितं स्यात्तुलाक्रान्ते तुषितो देवभिद्यपि ॥
16.3.77 · p. 144
अनुष्टुप्
तृणता तु तृणत्वे स्यात्तथा धनुषि गद्यते ।तोदितं तु प्रेरिते स्यात्तोलितं तु तुलाधृते ॥
16.3.78 · p. 144
अनुष्टुप्
दंशितं जातदंशे स्यात्कवचेनावृतेऽपि च ।दयितं तु प्रिये पुंसि भर्तर्यपि निगद्यते ॥
16.3.79 · p. 144
अनुष्टुप्
दमितं दमसम्पन्ने दलितं विदलीकृते ।दापितं दानविषये दारितं तु विदारिते ॥
16.3.80 · p. 144
अनुष्टुप्
दुर्गतिर्नरके नैःस्व्ये स्त्री दृष्टान्त उदाहृतौ ।शास्त्रे च मरणे चाथ पापे दुरितदुष्कृते ॥
16.3.81 · p. 144
अनुष्टुप्
दुर्वृत्तिस्त्यक्तयोषायां दुर्बुद्धौ दुर्मतिर्मतः ।दुःश्रुतं दुरधीते स्याद्दुष्पाके दुःश्रुतं मतम् ॥
16.3.82 · p. 144
अनुष्टुप्
दुष्यन्तः स्याद्राजभेदेऽप्युपलायां दृषत् स्त्रियाम् ।दृष्टान्तः स्यात्कथाशास्त्रे दृष्टान्तस्तु निदर्शने ॥
16.3.83 · p. 144
अनुष्टुप्
दोलितं कम्पितेऽपि स्याद्दौष्यन्तिर्नृपभिद्यपि ।ध्वनितं तु निनादे स्याद्धर्षितं तु प्रधर्षणे ॥
16.3.84 · p. 144
अनुष्टुप्
धमितं स्यात्तथाध्माते धक्षितं भक्षिते मतम् ।धिक्कृतं स्यादपध्वस्ते प्रमत्ते धूपितं मतम् ॥
16.3.85 · p. 144
अनुष्टुप्
धूमायिते धूमितं स्याद्धूर्गतः सारथौ पुमान् ।धैवतः स्वरभेदे स्यान्नमितः स्याद्विनामिते ॥
16.3.86 · p. 145
अनुष्टुप्
नन्दितो हर्षसम्पन्ने न्यक्कृतो धिक्कृते मतः ।नादितं नादसम्पन्ने नाशितं तु विनाशिते ॥
16.3.87 · p. 145
अनुष्टुप्
न्यासितं स्यात्तु विन्यस्ते निमित्तं हेतुलक्ष्मणोः ।निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिक्पालेऽपि क्वचित्पुमान् ॥
16.3.88 · p. 145
अनुष्टुप्
निकृतं स्याद्विप्रलब्धे शठे विप्रकृते त्रिषु ।निर्मुक्तो मुक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ॥
16.3.89 · p. 145
अनुष्टुप्
निरस्तस्त्रिषु निष्ठ्यूते प्रेषितेषौ द्रुतोदिते ।सन्त्यक्ते च प्रतिहते निकेतं सदने मतम् ॥
16.3.90 · p. 145
अनुष्टुप्
निवातो दृढसन्नाहे वातशून्ये तथाश्रये ।निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् ॥
16.3.91 · p. 145
अनुष्टुप्
निशान्तस्त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः ।निर्वृतिः सुस्थितावस्तङ्गमने च सुखे स्त्रियाम् ॥
16.3.92 · p. 145
अनुष्टुप्
नियतिर्नियमे दैवे स्त्री पतन्पातुके खगे ।निर्वृत्तं स्यात्तु निष्पन्ने निर्णिक्तं शोधिते मतम् ॥
16.3.93 · p. 145
अनुष्टुप्
निष्ठ्यूतं तु भवेत्क्षिप्ते निष्पीतं पीतमात्रके ।निर्धूतं तु भवेद्धौते नियन्ता पुंसि शास्तरि ॥
16.3.94 · p. 145
अनुष्टुप्
सङ्ख्याभेदे तु नियुतं निरतं तु निरन्तरे ।नितान्तं स्यादतिशये नियतो नियमान्विते ॥
16.3.95 · p. 145
अनुष्टुप्
निर्भ्रान्तः स्याद्भ्रान्तिहीने निवीतमृजुसूत्रके ।निहितं तु विनिक्षिप्ते निष्णातं निर्णयान्विते ॥
16.3.96 · p. 146
अनुष्टुप्
निर्व्यक्तं व्यक्तिभूयिष्ठे निचितं तु समूहिते ।निर्मितं कृतनिर्माणे दैवे स्यान्नियतिः स्त्रियाम् ॥
16.3.97 · p. 146
अनुष्टुप्
निशान्तः शान्तिमापन्ने निभृतो गुप्तशिक्ष्ययोः ।निवृत्तिः स्यान्मनस्तुष्टौ नोदितं प्रेरिते मतम् ॥
16.3.98 · p. 146
अनुष्टुप्
पलितं शैलजे तापे केशपाके च कर्दमे ।प्रसृतः सम्प्रसारे स्याद्विनीते वेगिते त्रिषु ॥
16.3.99 · p. 146
अनुष्टुप्
अर्द्धाञ्जलौ तु पुल्लिङ्गो जङ्घायां प्रसृता मता ।प्रसूतं कुसुमे क्लीबं त्रिषु सञ्जातसूतयोः ॥
16.3.100 · p. 146
अनुष्टुप्
प्रभूतं प्रचुरे प्रोक्तं पण्डितः सिल्हके कवौ ।प्रहतं विहते क्षुण्णे पर्यस्तः पतिते हते ॥
16.3.101 · p. 146
अनुष्टुप्
प्रणीता यज्ञपात्रे स्यात्प्रणीतः संस्कृतेऽनले ।त्रिषु क्षिप्तोपसम्पन्नविहितेषु प्रवेशिते ॥
16.3.102 · p. 146
अनुष्टुप्
प्रणतिः स्यान्नमस्कारे प्रणतस्तद्युते नरि ।प्रतीतः सादरे ज्ञाते हृष्टप्रख्यातयोस्त्रिषु ॥
16.3.103 · p. 146
अनुष्टुप्
प्रमितं स्याद्वाच्यलिङ्गं प्रोक्षितेऽपि मृतेऽपि च ।परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान् ॥
16.3.104 · p. 146
अनुष्टुप्
पर्वतः स्यात्पुनः शाकभेदमत्स्यप्रभेदयोः ।देवमुन्यन्तरे शैले प्रपातो निर्झरे तटे ॥
16.3.105 · p. 146
अनुष्टुप्
पर्याप्तं तु यथेष्टे स्याच्छक्ते तृप्तौ निवारणे ।पञ्चता मरणे पञ्चभावेऽपि च निगद्यते ॥
16.3.106 · p. 147
अनुष्टुप्
पक्षतिः पक्षमूले स्यात्पक्षतिः प्रतिपत्तिथौ ।प्रसूतिः स्यात्समुत्पत्तौ तनये दुहितर्यपि ॥
16.3.107 · p. 147
अनुष्टुप्
प्रततिः स्यात्तु विस्तारे वल्यामपि निगद्यते ।प्रवृत्तिस्तु प्रवाहे स्यादुदन्तेऽपि च गद्यते ॥
16.3.108 · p. 147
अनुष्टुप्
अवन्त्यादौ च पर्याप्तिः प्रकामप्राप्तिरक्षणे ।प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ॥
16.3.109 · p. 147
अनुष्टुप्
योनौ लिङ्गे पौरवर्गे मतं प्रव्यक्तमुल्बणे ।परितः स्यादासमन्तात्परीतं दिश्यथो विदि ॥
16.3.110 · p. 147
अनुष्टुप्
प्रमितिर्योषिति पुनः परीतं व्याप्तिवाचकम् ।पङ्कितं पङ्कवत्स्थाने पठितं पाठसंस्कृते ॥
16.3.111 · p. 147
अनुष्टुप्
पणितं वस्तुनि क्रीते प्रसिद्धे प्रथितं मतम् ।प्रयतं संस्कृते प्रोक्तं प्रयतो धीर इत्यपि ॥
16.3.112 · p. 147
अनुष्टुप्
प्रयतं नियमाक्रान्ते प्रततं विस्तृते मतम् ।प्रदत्तं दानविषये प्रनृत्तं नर्तने मतम् ॥
16.3.113 · p. 147
अनुष्टुप्
सम्भृते प्रभृतं प्रोक्तं प्रशस्तं शस्तकर्मणि ।प्रहस्तो राक्षसभिदि प्रशस्तो ज्ञातसम्भृते ॥
16.3.114 · p. 147
अनुष्टुप्
निरर्गलेऽपि प्रहतः प्रपातो निर्झरे मतः ।प्रख्यातस्तु प्रसिद्धे स्यात्पदातिः पादगामिनि ॥
16.3.115 · p. 147
अनुष्टुप्
प्रभातं तु दिनान्ते स्यात्प्रसितिर्बन्धने स्त्रियाम् ।पद्धतिः कर्मसन्दोहग्रन्थे मार्गेऽपि गद्यते ॥
16.3.116 · p. 148
अनुष्टुप्
प्रचेताः स्यात्तु वरुणे प्रणुतं तु नमस्कृतौ ।पर्दितं स्यादधोवायुनिर्गमे वाच्यलिङ्गवत् ॥
16.3.117 · p. 148
अनुष्टुप्
पार्वती सल्लकीदुर्गागोपालपुत्रिकासु च ।प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहते त्रिषु ॥
16.3.118 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
पादातं स्याद्बले क्लीबे पाटितं तु द्विधाकृते ।समापिते पारितं स्यात्प्राजिता पुंसि यन्तरि ॥
16.3.119 · p. 148
अनुष्टुप्
पाचितं परिपक्वे स्यात्पातितं कृतपातने ।पिहितं छादिते प्रोक्तं मांसे तु पिशितं मतम् ॥
16.3.120 · p. 148
अनुष्टुप्