कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

मान्तवर्गः · मचतुर्थम्

॥ इति मतृतीयम्‌ ॥

॥ अथ मचतुर्थम्‌ ॥

अभ्यागमो विरोधाजिघाताभ्युद्गमनान्तिके ।अनूपमा सुप्रतीकयोषायां सुन्दरेऽन्यवत् ॥
25.4.1 · p. 230
अनुष्टुप्
उपक्रमस्तूपधायां ज्ञात्वाऽऽरम्भे च विक्रमे ।चिकित्सायामुपगमः स्वीकारेऽन्तिकसर्पणे ॥
25.4.2 · p. 230
अनुष्टुप्
कारन्धमी कांस्यकारे धातुवादरतेऽपि च ।सितोत्पले गन्धसोममित्याहुः शाब्दिका जनाः ॥
25.4.3 · p. 231
अनुष्टुप्
जलगुल्मो जलावर्ते कच्छपे जलचत्वरे ।दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ॥
25.4.4 · p. 231
अनुष्टुप्
प्लवङ्गमस्तु मण्डूके तथा शाखामृगेऽपि च ।पराक्रमस्तु सामर्थ्योद्योगयोर्विक्रमेऽपि च ॥
25.4.5 · p. 231
अनुष्टुप्
महापद्मस्तु नागे स्यान्निधौ सङ्ख्यान्तरेऽपि च ।यातयामं तु जीर्णे स्यात्तथा भुक्तोज्झितेऽपि च ॥
25.4.6 · p. 231
अनुष्टुप्
सार्वभौमस्तु दिङ्नागेऽखिलपृथ्वीपतावपि ।
25.4.7 · p. 231