All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
षान्तवर्गः · षतृतीयम्
॥ इति षद्वितीयम् ॥
॥ अथ षतृतीयम् ॥
अभीषुः प्रग्रहे रश्मावाकर्षो द्यूत इन्द्रिये ।आकर्षः शारिफलके कोदण्डाभ्यासवस्तुनि ॥
31.2.1 · p. 331
अनुष्टुप्
आमिषं भोग्यवस्तुन्यप्युष्णीषं लक्षणान्तरे ।शिरोवेष्टे किरीटे चाप्युत्प्रेक्षाऽनवधानके ॥
31.2.2 · p. 331
अनुष्टुप्
कल्मषं किल्विषे क्लीबं पुंसि स्यान्नरकान्तरे ।कल्माषं करणे चापि कल्माषो राक्षसान्तरे ॥
31.2.3 · p. 332
अनुष्टुप्
कल्माषस्तु भवेत्कृष्णे कल्माषः कृष्णपाण्डरे ।कल्माषस्तु मुनौ क्वापि कारूषो नीवृदन्तरे ॥
31.2.4 · p. 332
अनुष्टुप्
कलुषं त्वाविले पापे किल्बिषं पापरोगयोः ।कुल्माषमपराधे स्यात्काञ्जिके यावके पुमान् ॥
31.2.5 · p. 332
अनुष्टुप्
गण्डूषो मुखपूर्तौ स्यात्करिहस्ताङ्गुलावपि ।गण्डूषः प्रसृतिमिते जिगीषुर्जेतुमिच्छुके ॥
31.2.6 · p. 332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
जिगीषुरपि च प्रोक्तो व्यवसायप्रकर्षयोः ।तारीषी त्विन्द्रकन्यायां ना स्वर्गेऽम्बुधिकाञ्चने ॥
31.2.7 · p. 332
अनुष्टुप्
निमेषो निमिषश्चापि कालभेदेऽक्षिमीलने ।परुषं निष्ठुरोक्तौ स्याद्रुक्षे चापि च कर्बुरे ॥
31.2.9 · p. 332
अनुष्टुप्
परूषं कुफले प्रोक्तं परुषं परुषस्तथा ।प्रदोषः कालभेदे स्यात्प्रदोषो दोष इत्यपि ॥
31.2.10 · p. 332
अनुष्टुप्
पुरुषो नरि साङ्ख्यज्ञे प्रोक्तः पुन्नागपादपे ।पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि ॥
31.2.12 · p. 332
अनुष्टुप्
ऊर्ध्वविस्तृतदोःपाणिनृमाने चाभिधेयवत् ।कृताभिषेकासैरिभ्योर्महिषी चौषधीभिदि ॥
31.2.13 · p. 333
अनुष्टुप्
मनीषा धिषणायां स्यान्मनीषी गीष्पतौ बुधे ।मारिषः शाकभेदे स्यान्मारिषा दक्षमातरि ॥
31.2.14 · p. 333
अनुष्टुप्
नाट्योक्तौ मारिषश्चार्ये तथैव कनकेऽम्बुधौ ? ।रौहिषं तृणभेदे स्यात्पुमांस्तु हरिणान्तरे ॥
31.2.15 · p. 333
अनुष्टुप्
विश्लेषो विधुरेऽयोगे शुश्रूषा स्यादुपासने ।कथने श्रोतुमिच्छायां सेमुषी तु मता मतौ ॥
31.2.16 · p. 333
अनुष्टुप्
शैलूषोऽपि नटे बिल्वे संहर्षस्तु प्रभञ्जने ।सङ्घर्षस्तु मतो घृष्टौ स्पर्द्धायामपि कीर्तितः ॥
31.2.17 · p. 333
अनुष्टुप्