All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
तान्तवर्गः · ततृतीयम् (2/2)
पिण्डितं तु भवेद्गोले पीडितं तु प्रपीडिते ।पित्सन् विहङ्गमे पुंसि पतनेच्छौ च वाच्यवत् ॥
16.3.121 · p. 148
अनुष्टुप्
प्रफुल्लिते पुष्पितं स्यात्पुटितं पुटसंस्कृते ।पुटितं स्याद्धस्तपुटे पाटितस्यूतयोरपि ॥
16.3.122 · p. 148
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्ध (wrong syllable)
पूरणार्थे पूरितं स्यात्पूपितं पूपवत्कृते ।एकीकृते पूगितं स्यात्पुरोधसि पुरोहितः ॥
16.3.123 · p. 148
अनुष्टुप्
पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना ।अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ॥
16.3.124 · p. 148
अनुष्टुप्
निरीक्षिते प्रेक्षितं स्याद्यात्रार्थे प्रेषितं मतम् ।निरीक्षिते प्रेङ्खितं स्यात्प्रेरितं प्रेरणास्पदे ॥
16.3.125 · p. 148
अनुष्टुप्
प्रोक्षितं निहते सिक्ते प्रोन्नतं दैर्घ्यवत्यपि ।प्रोहितं च परित्यक्ते प्रोज्झितं चापि वाच्यवत् ॥
16.3.126 · p. 149
अनुष्टुप्
प्रोर्णुतं प्रावृतेऽपि स्यात्फाणितं त्विक्षुसम्भवे ।बार्हतं च फले जम्ब्वा बाधितं बाधवत्यपि ॥
16.3.127 · p. 149
अनुष्टुप्
बुधितं तु भवेद्बुद्धे बृंहितं गजगर्जने ।सामभेदे बृहत् क्लीबे बृहती वसनान्तरे ॥
16.3.128 · p. 149
अनुष्टुप्
छन्दोभित्क्षुद्रवार्ताकीवारिधानीषु वाचि च ।कण्टकारीमहत्योश्च बोधितं बोधवत्यपि ॥
16.3.129 · p. 149
अनुष्टुप्
कुशीलवे मुनौ रामानुजे तु भरतस्तथा ।दौष्यन्तौ भारतं वर्षभेदे व्यासकृतावपि ॥
16.3.130 · p. 149
अनुष्टुप्
भणितं भाषिते पूर्णे भरितं भसितं पुनः ।स्याद्भस्मन्यथ गीर्णे तु भक्षितं भ्रमितं पुनः ॥
16.3.131 · p. 149
अनुष्टुप्
भ्रमवत्यपि तल्लिङ्गं भर्छितं तु तिरस्कृते ।भारती वाचि वचने पक्षिवृत्तिप्रभेदयोः ॥
16.3.132 · p. 149
अनुष्टुप्
भासन्तः सुन्दराकारे त्रिषु ना भासपक्षिणि ।भावितं वासिते प्राप्ते भूभृन्नाऽद्रौ महीपतौ ॥
16.3.133 · p. 149
अनुष्टुप्
भ्राजितं शोभिते भ्रान्ते भ्रामितं वाचि भाषितम् ।भासितं वासिते वाच्ये वाच्यवद्भाषितं मतम् ॥
16.3.134 · p. 149
अनुष्टुप्
भिक्षितं स्याद्याचितेऽपि भेदितं स्फोटिते विदुः ।महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् ॥
16.3.135 · p. 149
अनुष्टुप्
तत्त्वभेदे पुमान् श्रेष्ठे मरुद्देवे समीरणे ।महितं तु पवित्रे स्यान्मणितं रतिकूजिते ॥
16.3.136 · p. 150
अनुष्टुप्
मथितं निर्जले घोले तथालोडितधृष्टयोः ।मनितं तु भवेद्बुद्धे मण्डितं भूषिते त्रिषु ॥
16.3.137 · p. 150
अनुष्टुप्
मन्त्रितं मन्त्रसंयुक्ते मन्द्रितं मन्द्रवत्यपि ।मापतिस्तु हृषीकेशे मापितं मानसंस्कृते ॥
16.3.138 · p. 150
अनुष्टुप्
मिहितं तु मनोज्ञे स्यान्मूर्छितो मृतमूढयोः ।सोच्छ्रयेऽपि दृढे त्वाहुर्मुषितं खण्डितेऽपि च ॥
16.3.139 · p. 150
अनुष्टुप्
गवेषिते तु मृगितं मेदितं मूर्छिते हिते ।म्लेच्छितं परभाषायां निगदन्ति मनीषिणः ॥
16.3.140 · p. 150
अनुष्टुप्
मोचितो मोक्षितश्चापि बन्धमुक्त उदीर्यते ।मोटितं त्वन्यथाभावे यमितं नियमान्विते ॥
16.3.141 · p. 150
अनुष्टुप्
याजितः कारितमखे यापितः त्रिष्वतिक्रमे ।स्त्रियां निगदिता विज्ञैर्योषिता योषिदित्यपि ॥
16.3.142 · p. 150
अनुष्टुप्
रजतं विशदे दन्तिदन्तयोस्तारहारयोः ।रक्षितं गोपिते प्रोक्तं विरहे रहितं मतम् ॥
16.3.143 · p. 150
अनुष्टुप्
रणितं तु भवेच्छब्दे रचितं क्रमनिर्मिते ।रसितं स्तनिते क्लीबे स्वर्णादिखचिते त्रिषु ॥
16.3.144 · p. 150
अनुष्टुप्
रञ्जितं रङ्गसंयुक्ते राद्धान्तस्त्वर्थनिर्णये ।रुदितं क्रन्दिते प्रोक्तं रुतितं चञ्चले मतम् ॥
16.3.145 · p. 150
अनुष्टुप्
रुषितं तु भवेत्क्रुद्धे रूषितं मलदूषिते ।रुशती वागकल्याणी वाणी ह्येषाऽवचोविदाम् ॥
16.3.146 · p. 151
अनुष्टुप्
रेवती हलिपत्न्यां स्यादृक्षमातृप्रभेदयोः ।रोहितं लेाहिते रक्त ऋजुशक्रशरासने ॥
16.3.147 · p. 151
अनुष्टुप्metre not read in every lineimpossible sign sequence: रोहितं लेाहिते रnearly अनुष्टुप्
मीने मृगे च पुंसि स्यात्तथा रोहितकद्रुमे ।रोहितं रोहिते रक्ते रोपितं त्वधिरोहिते ॥
16.3.148 · p. 151
अनुष्टुप्
रोधितं त्वधिरुद्धे स्याद्रोलितं तु विवेचिते ।विलोकिते रोकितं स्याद्रोचितं रुचिभाजिनि ॥
16.3.149 · p. 151
अनुष्टुप्
रोहिन्मृग्यां लताभेदे रोमितं रोमसंयुते ।ललितं हारभेदे स्यादीप्सिते ललितेऽपि च ॥
16.3.150 · p. 151
अनुष्टुप्
लपितं वचसि प्राहुर्लज्जितं तु त्रपावति ।लङ्घितं स्यादतिक्रान्तौ लक्षितं सम्यगीक्षिते ॥
16.3.151 · p. 151
अनुष्टुप्
लम्बितं तु निराधारे लम्भितं प्रापिते मतम् ।लापितं त्वधिरूढे स्याल्लुञ्चितं कृतलुञ्चने ॥
16.3.152 · p. 151
अनुष्टुप्
लुटितं स्यात्तु लोटत्यां लुण्ठितं तु बलाद्धृते ।लोहितं रक्तगोशीर्षे कुङ्कुमे च कुचन्दने ॥
16.3.153 · p. 151
अनुष्टुप्
तथा नदान्तरे भौमे वर्णे च त्रिषु तद्वति ।वनिता जातरागस्त्रीस्त्रियोश्च त्रिषु याचिते ॥
16.3.154 · p. 151
अनुष्टुप्
वनिता जनिता पुंसि वनिताऽपि वधूः स्त्रियाम् ।वनितं याचितेऽपि स्यात्सेवितेऽपि च वाच्यवत् ॥
16.3.155 · p. 152
अनुष्टुप्
वर्द्धितं प्रसृते भिन्ने पूरिते वहतिर्गवि ।सचिवे पुंसि वहतुः पथिके वृषले पुमान् ॥
16.3.156 · p. 152
अनुष्टुप्
वल्गितं स्यादश्वगतौ वसितं व्याकुले मतम् ।वसतिः स्यात्स्त्रियां वासे यामिन्यां च निकेतने ॥
16.3.157 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
वमितः स्यात्समुद्गीर्णे वर्णितस्तु परिस्तुते ।प्रलोभिते वञ्चितः स्याद्वन्दितस्तु नमस्कृते ॥
16.3.158 · p. 152
अनुष्टुप्
वर्मितः स्यात्कङ्कटिते वसन्त ऋतुभिद्यपि ।विस्तारवल्योर्व्रतती वर्धितं पूरिते मतम् ॥
16.3.159 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्क (wrong syllable)
वर्जितं स्यात्परित्यक्ते वहितं वाहने मतम् ।वापितं तु भवेद्बीजाकृतमुण्डितयोस्त्रिषु ॥
16.3.160 · p. 152
अनुष्टुप्
व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् ।व्याघातः स्यादन्तराये प्रहारे योगभिद्यपि ॥
16.3.161 · p. 152
अनुष्टुप्
वासिता करिणीनार्योर्वासितं भाविते रुते ।वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके ॥
16.3.162 · p. 152
अनुष्टुप्
वासन्तः कोकिलेऽपि स्यादुष्ट्रेनाऽवहिते विटे ।व्यापृतो दीर्घदृढयोर्वाक्पतिर्गुरुवाग्मिनोः ॥
16.3.163 · p. 152
अनुष्टुप्
विविक्तं स्यादसम्पृक्ते रहःपूतविवेकिषु ।वाच्यवद्दर्शिते धीरे विनेता राज्ञि शिक्षके ॥
16.3.164 · p. 153
अनुष्टुप्
विकृतोऽसंस्कृतेऽपि स्याद्बीभत्से रोगितेऽपि च ।विकृतिश्छन्दसोभेदे प्रकृतिव्यत्ययेऽपि च ॥
16.3.165 · p. 153
अनुष्टुप्
विश्रुतं ज्ञातसंहृष्टप्रतीतेष्वभिधेयवत् ।विनीतमुपनीते स्यादपनीते जितेन्द्रिये ॥
16.3.166 · p. 153
अनुष्टुप्
विनीतः सुवहाश्वे स्यान्निभृतेऽपि वणिज्यपि ।विनतः प्रणते भग्ने विनता तार्क्ष्यमातरि ॥
16.3.167 · p. 153
अनुष्टुप्
विनता पिटिकाभेदे शिक्षिते त्वभिधेयवत् ।विधाता कर्तृसामान्ये विधाता वेधसि स्मरे ॥
16.3.168 · p. 153
अनुष्टुप्
विजाता तु प्रसूतायां जनिते विकृतेऽन्यवत् ।विश्वस्तो जातविश्वासे विश्वस्ता विधवास्त्रियाम् ॥
16.3.169 · p. 153
अनुष्टुप्
विद्युत् सौदामिनीसन्ध्योः निष्प्रभे त्वभिधेयवत् ।विहस्तो विह्वले षण्ढे विपत्तिर्यातनास्वपि ॥
16.3.170 · p. 153
अनुष्टुप्
विदितं बुद्धश्रुतयोर्वाच्यवत्समुदीरितम् ।विवृता क्षुद्ररुग्भेदे विस्तृते त्वभिधेयवत् ॥
16.3.171 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध (wrong syllable)
विच्छित्तिः स्यादङ्गरागे विच्छेदे हारभिद्यपि ।विधूतं कम्पिते त्यक्ते कुटिलेऽपि च वाच्यवत् ॥
16.3.172 · p. 153
अनुष्टुप्
विक्रान्तस्तु भवेच्छूरे विगतस्तु गतस्पृहे ।वियत् स्यान्नभसि क्लीबे विभूतिर्भूतिभस्मनोः ॥
16.3.173 · p. 154
अनुष्टुप्
विहितं कृतमात्रेऽपि विद्रुतं तु पलायिते ।वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रभेदयोः ॥
16.3.174 · p. 154
अनुष्टुप्
प्रस्तावे वेष्ठितं रुद्धे लासके करणान्तरे ।वेल्लितं गमने प्रोक्तं कुटिले विधुते त्रिषु ॥
16.3.175 · p. 154
अनुष्टुप्
वेधितं कृतवेधे स्याद्वेपितं तु विकम्पिते ।वेशन्तः पल्वले प्रोक्तो वेणितोऽपि विगुम्फिते ॥
16.3.176 · p. 154
अनुष्टुप्
वैक्रान्तं रत्नभेदे स्याद्घनान्ते तु शरत् स्त्रियाम् ।शकुन्तः स्यात्पक्षिमात्रे भासपक्षिमहेन्द्रयोः ॥
16.3.177 · p. 154
अनुष्टुप्
श्यमन्तो मणिभेदे स्यात्सुप्ते तु शयितो मतः ।शष्पितं शाद्वलवति निश्वासे श्वसितं भवेत् ॥
16.3.178 · p. 154
अनुष्टुप्
शङ्कितं जातशङ्के स्याच्छब्दितं शब्दवत्यपि ।शाकुन्तः स्यात्सूक्तभेदे शाश्वतं तु निरन्तरे ॥
16.3.179 · p. 154
अनुष्टुप्
शिक्षितस्तु विनीते स्याच्छीतला देवताभिदि ।तथा स्फोटविशेषेऽपि श्रीपतिः पुरुषोत्तमे ॥
16.3.180 · p. 154
अनुष्टुप्
श्रीमाँस्तिलकवृक्षे स्यान्मनोज्ञे धनिके त्रिषु ।शुद्धान्तश्चावरोधे स्याद्रहःकक्षान्तरेऽपि च ॥
16.3.181 · p. 154
अनुष्टुप्
शुद्धान्तःकरणे पुंसि शुद्धान्त इति गद्यते ।विनियुक्तावशेषे तु शेषितं शोषितं पुनः ॥
16.3.182 · p. 154
अनुष्टुप्
शुष्कीकृते शोधितं तु गालिते शोभितं तथा ।सम्पन्नशोभे स्खलितं चलिते भ्रंशवत्यपि ॥
16.3.183 · p. 155
अनुष्टुप्
संहतं सङ्गतं चापि दृढे च हृदयङ्गमे ।संस्कृतो भूषिते शस्ते कृत्रिमे वाच्यलिङ्गकः ॥
16.3.184 · p. 155
अनुष्टुप्
क्लीबं तु लक्षणोपेते स्थपतिः कञ्चुकिन्यपि ।जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु ॥
16.3.185 · p. 155
अनुष्टुप्
स्थपतिः स्यात्तु सम्म्राजि स्थगितः स्याद्विगुण्ठिते ।सङ्घातः पुंसि घाते च संहतौ नरकान्तरे ॥
16.3.186 · p. 155
अनुष्टुप्
संवित्तिः प्रतिपत्तौ चाप्यविवादे जनस्य च ।समाप्तिरवसाने स्यात्सम्पतिः स्यात्समर्थने ॥
16.3.187 · p. 155
अनुष्टुप्
स्वरितः स्वरभेदे स्यात्सविता पितृसूर्ययोः ।स्वनितं स्याच्छब्दवति स्तनितं मेघनिस्वने ॥
16.3.188 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छ (wrong syllable)
समितिः सम्पराये स्यात्सभायां सङ्गमेऽपि च ।सन्ततिर्गोत्रपङ्क्त्योः स्यात्पारम्पर्येऽपि च स्त्रियाम् ॥
16.3.189 · p. 155
अनुष्टुप्
संकृतिः स्याद्गोत्रवृत्तभेदयोः सम्मतं मते ।संसृतिः सरणे चापि संसारेऽपि मता स्त्रियाम् ॥
16.3.190 · p. 155
अनुष्टुप्
संश्रुतं तु प्रतिज्ञाते संविज्ज्ञप्तौ च योषिति ।सद्गतिः स्यादूर्ध्वगतौ सम्पत्तिर्वैभवे स्त्रियाम् ॥
16.3.191 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दू (wrong syllable)
संपद्भूतौ गुणोत्कर्षे हारभेदे निगद्यते ।संवित् स्त्रियां प्रतिज्ञायामाचारज्ञानसङ्गरे ॥
16.3.192 · p. 155
अनुष्टुप्
सम्भाषणे क्रियाकारे सङ्केते नाम्नि तोषणे ।सङ्ख्याभेदे सप्ततिः स्यात्समूहे संहतिर्मता ॥
16.3.193 · p. 156
अनुष्टुप्
सङ्क्रान्तिः स्यात्तु खेटानां राश्यन्तरप्रवेशने ।नैरन्तर्ये सन्ततं स्यात्सङ्गतं हृदयङ्गमे ॥
16.3.194 · p. 156
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
स्तभितं स्यात्तु संस्तब्धे स्वधितिः शस्त्रभिद्यपि ।सम्भ्रान्तं भ्रमणे चापि सम्भृतं सञ्जितेऽर्थवत् ॥
16.3.195 · p. 156
अनुष्टुप्
संवीतः स्यात्तु संयुक्ते स्वगतं स्वात्मसङ्गते ।संहिता स्यादथाम्नाये सामन्तो मण्डलाधिपे ॥
16.3.196 · p. 156
अनुष्टुप्
स्थापितं निश्चये न्यस्ते स्वायत्ते साधितं मतम् ।स्वादितं तु कृतास्वादे सातितः - - - - - ॥
16.3.197 · p. 156
अनुष्टुप्metre not read in every line
आसादिते सादितं स्यात्सारितं तु विदूरिते ।साकेतं स्यादयोध्यायां सामन्तो मण्डलाधिपे ॥
16.3.198 · p. 156
अनुष्टुप्
सिकता स्त्री सिकतिले वालुकायां च भूमनि ।सिद्धान्तः स्यान्निश्चितेऽर्थे स्तिमितो निश्चले मतः ॥
16.3.199 · p. 156
अनुष्टुप्
सीमन्तः स्त्रीकेशवेशे सिञ्जितं भूषणध्वनौ ।सुरता स्यात्तु देवत्वे सुरतो भक्तिमत्यपि ॥
16.3.200 · p. 156
अनुष्टुप्
सुरतं स्यान्निधुवने सुकृतं शुभपुण्ययोः ।सुव्रता सुखदोह्या गौः सुव्रता शोभनव्रता ॥
16.3.201 · p. 156
अनुष्टुप्
सुहितस्तु भवेत्तृप्ते सुहुतस्तु हुतेऽनले ।सुहूतः सम्यगाहूते सुरुतः श्रव्यवाच्यपि ॥
16.3.202 · p. 156
अनुष्टुप्
सुगतस्तु जिने प्रोक्तः सुमतिर्बुद्धिमत्यपि ।सुदती स्यात्तु योषायां सुनृतं मङ्गले प्रिये ॥
16.3.203 · p. 157
अनुष्टुप्
सुभूतं स्यात्परिणते सुनीतिर्ध्रुवमातरि ।तथैव शोभननये सुक्षितिर्देवतान्तरे ॥
16.3.204 · p. 157
अनुष्टुप्
हरितं शाकभेदे स्याद्धरिद्वर्णयुते तथा ।हरिता स्याच्च दूर्वायां स्त्रियां दिशि हरिन्मता ॥
16.3.205 · p. 157
अनुष्टुप्
हयवर्णविशेषेऽपि यवसेऽपि हरिन्मतम् ।हसन्त्यङ्गारधान्यां स्यान्मल्लिकाशाकिनीभिदोः ॥
16.3.206 · p. 157
अनुष्टुप्
हर्षितं तु भवेद्दग्धे हर्षयुक्तेऽन्यलिङ्गवत् ।हारीतः पक्षिभेदे स्यान्मुनिभेदे च कैतवे ॥
16.3.207 · p. 157
अनुष्टुप्
हृषितं विस्मये प्रीते प्रहते हृष्टलोमनि ।कृतक्षणे तु क्षणितः क्षमिता पुंसि यः क्षमी ॥
16.3.208 · p. 157
अनुष्टुप्
क्षयितं तु क्षयं नीते क्षमितं स्यात्क्षमाश्रये ।क्षारितं च्याविते क्षारैरभिशस्तेऽपि च त्रिषु ॥
16.3.209 · p. 157
अनुष्टुप्
क्षारितं मलहीने स्यात्क्षुरितं क्षुरसंस्कृते ।क्ष्वेडितं सिंहनादे स्यात्क्षोदितं परिशोधिते ॥
16.3.210 · p. 157
अनुष्टुप्
क्षोभितं क्षोभयुक्ते स्याद्वाच्यलिङ्गत्वमीदृशाम् ।
16.3.211 · p. 157