कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

हान्तवर्गः · हतृतीयम्

॥ इति हद्वितीयम्‌ ॥

॥ अथ हतृतीयम् ॥

अत्यूहा नीलिकायां स्त्री कालकण्ठखगे पुमान् ।आग्रहोऽनुग्रहाऽऽसक्त्योराक्रमे ग्रहणेऽपि च ॥
33.2.1 · p. 342
अनुष्टुप्
आरोहस्त्ववरोहे स्याद्वरयोषित्कटावपि ।आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये ॥
33.2.2 · p. 342
अनुष्टुप्
उत्साहस्तूद्यमे सूत्रे कटाहो महिषीशिशौ ।कटाहो घृततैलादिपाकपात्रेऽपि कर्परे ॥
33.2.3 · p. 342
अनुष्टुप्
तथा द्वीपप्रभेदेऽपि कटाहः कूर्मकर्परे ।कलहस्तु भवेद्युद्धे दात्यूहः कालकण्ठके ॥
33.2.4 · p. 342
अनुष्टुप्
चातके च नवाहस्त्वाद्यतिथौ नववासरे ।निग्रहो भर्त्सनेऽपि स्यान्मर्यादायां च बन्धने ॥
33.2.5 · p. 342
अनुष्टुप्
निर्य्यूहः शिखरे द्वारे निर्यासे नागदन्तके ।निरूहो बस्तिभेदे स्यादूहशून्ये च निश्चिते ॥
33.2.6 · p. 342
अनुष्टुप्
प्रग्रहः स्यात्तुलासूत्रे हयादिप्रग्रहेऽपि च ।पटहस्त्वानके न स्त्री समारम्भे तु पुंस्ययम् ॥
33.2.7 · p. 342
अनुष्टुप्
प्रवहस्तु बहिर्यात्रामातरिश्वप्रभेदयोः ।प्रवाहस्तु प्रवृत्तौ स्यादपि स्रोतसि वारिणः ॥
33.2.8 · p. 343
अनुष्टुप्
राजार्हं राजयोग्ये स्याद्राजार्हं जोङ्गके मतम् ।विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम् ॥
33.2.9 · p. 343
अनुष्टुप्
विदेहो नृपभेदे स्यात्कायशून्ये च कथ्यते ।वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च ॥
33.2.10 · p. 343
अनुष्टुप्
संग्रहो बृहद्युत्तुङ्गे ग्रहसङ्क्षेपयोरपि ।सुवहा शल्लकीगोधापद्येलापर्णीषु मता ॥
33.2.11 · p. 343
metre not recognised
रास्नानीलिकयोः प्रोक्ता सुखवाह्येऽन्यलिङ्गवत् ।
33.2.12 · p. 343