All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
णान्तवर्गः · णपञ्चमम्
॥ इति णचतुर्थम् ॥
॥ अथ णपञ्चमम् ॥
अनादरेऽवग्रहणं प्रतिरोधे च गद्यते ।लिपिज्ञे त्वक्षरचणः कृच्छ्रादौ चाघमर्षणम् ॥
15.4.1 · p. 122
अनुष्टुप्
यात्रायामभिनिर्याणं निःश्रेण्यामधिरोहिणी ।शूद्रे त्ववरवर्णः स्यादायुषि त्वसुधारणम् ॥
15.4.2 · p. 122
अनुष्टुप्
रिपुपक्षेऽभ्यमित्रीणः खनित्रे त्ववदारणम् ।अनुकर्षणं तु चषके चौर्ये स्यादपहारणम् ॥
15.4.3 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवतारणं च भूतादिग्रहे वस्त्राञ्चलेऽर्चने ।मण्डनेऽलङ्करिष्णुः स्यान्निर्हारेऽप्यवकर्षणम् ॥
15.4.4 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्मक्षमेऽलङ्कर्मीणोऽपत्रपिष्णुस्त्रपावति ।गदितः शब्दभेदज्ञैर्मञ्जुन्याहितलक्षणा ॥
15.4.5 · p. 122
अनुष्टुप्
अथेन्द्रवारुणी वीरुद्भेदे निगदिता बुधैः ।स्यादुपाकरणं यज्ञे पशोः संस्कारकर्मणि ॥
15.4.6 · p. 123
अनुष्टुप्
ज्योतिरिङ्गण इत्युक्तः खद्योते शब्दवेदिभिः ।यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥
15.4.8 · p. 123
अनुष्टुप्
पद्मचारिणी रमायां पादग्रहणं नतावुक्तम् ।प्रविदारणं प्रयुक्तं विदारणे सम्पराये च ॥
15.4.9 · p. 123
metre not recognised
चर्मिणि फलकपाणिः प्रभिन्नकटकुञ्जरे नु पुनः ।मत्तवारण इति गदितः प्रग्रीवे च व्यवस्थया विज्ञैः ॥
15.4.10 · p. 123
उद्गीतिःmetre not read in every line
मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योर्ना तु शोणके ।रोमहर्षणं रोमाञ्चे ना सूते च बिभीतके ॥
15.4.11 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ।काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥
15.4.12 · p. 123
अनुष्टुप्
सन्निकर्षणमप्याहुः सान्निध्ये निकषोपले ।सम्प्रधारणमित्युक्तं शब्दविद्भिः समर्थने ॥
15.4.13 · p. 123
अनुष्टुप्