All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
ञान्तवर्गः · ञतृतीयम्
॥ इति ञद्वितीयम् ॥
॥ अथ ञतृतीयम् ॥
अवज्ञा स्यात्तिरस्कृतौ ।अनुज्ञा स्यादथाज्ञायामभिज्ञोऽपि च पण्डिते ॥
10.3.1 · p. 82
अनुष्टुप्metre not read in every line
कालज्ञश्च कलाज्ञश्च कलाविदि निगद्यते ।कालज्ञः कुक्कुटे ज्योतिर्विदि चाप्यभिधीयते ॥
10.3.2 · p. 82
अनुष्टुप्
कृतज्ञः कुक्कुरे पुंसि मर्यादिन्यभिधेयवत् ।दैवज्ञः स्यात्तु गणके वैद्ये दोषज्ञ ईरितः ॥
10.3.3 · p. 82
अनुष्टुप्
सर्वज्ञस्तु शिवे बुद्धे क्षेत्रज्ञो वाच्यलिङ्गकः ।पुंस्यात्मनि प्रधाने च-
10.3.4 · p. 83
अनुष्टुप्metre not read in every line