कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

धान्तवर्गः · धचतुर्थम्

॥ इति धतृतीयम् ॥

॥ अथ धचतुर्थम् ॥

अवरोधो निरोधे स्याच्छुद्धान्ते राजवेश्मनि ।अवष्टब्धोऽविदूरे स्यादाक्रान्ते चाविलम्बिते ॥
19.3.1 · p. 184
अनुष्टुप्
स्यादनिरुद्ध उषाया नाथे चानर्गले चापि ।हिक्कायानुबन्धी तृष्णायामपि योषिति ख्याता ॥
19.3.2 · p. 184
metre not recognised
दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादेर्विनश्वरे ।मुख्यानुयायिनि शिशौ प्रवृत्तस्यानुवर्तने ॥
19.3.3 · p. 184
अनुष्टुप्
अधिकर्द्धिः समृद्धे स्यादमितर्द्धिश्च भण्यते ।आशाबन्धः समाश्वासे भवेन्मर्कटवासके ॥
19.3.4 · p. 185
अनुष्टुप्
इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे ।इष्टगन्धः सुगन्धौ स्यादपि क्लीबं तु वालुके ॥
19.3.5 · p. 185
अनुष्टुप्
उपलब्धिर्मतौ प्राप्तौ ज्ञानानुभवयोरपि ।उग्रगन्धाऽजमोदायां वचायां छिक्किकौषधौ ॥
19.3.6 · p. 185
अनुष्टुप्
कालस्कन्धः स्यात्तमाले तिन्दुके जीवकद्रुमे ।तीक्ष्णगन्धा वचायां स्याच्छिग्रुराजिकयोरपि ॥
19.3.7 · p. 185
अनुष्टुप्
तृणगोधा चित्रकोले कृकलासेऽपि गद्यते ।परिव्याधो वेतसे स्यात्तथैव च द्रुमोत्पले ॥
19.3.8 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
ब्रह्मबन्धुरधिक्षिप्ते निर्देशे च द्विजन्मनः ।महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च ॥
19.3.9 · p. 185
अनुष्टुप्
विप्रबन्धुर्मुनिभिदि श्रुतबन्धुस्तथैव च ।समुन्नद्धः समुद्भूते पण्डितम्मन्यगर्विते ॥
19.3.10 · p. 185
अनुष्टुप्