कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कपञ्चमम्

॥ इति कचतुर्थम् ॥

॥ अथ कपञ्चमम् ॥

अनेडमूकः कथितः शठे वाक्श्रुतिवर्जिते ।क्रकचेऽसिपत्रकं स्याद्वन्दारावभिवादकः ॥
1.5.1 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)
अवसक्थिका परिकरे छुरिका त्वसिपुत्रिका ।दृष्टरि व्यवहाराणां कथयन्त्यक्षदर्शकम् ॥
1.5.2 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लुब्धेऽभिलाषुकं प्राहुर्जाबाले त्वजजीविकः ।हसन्त्यामग्निकार्ये च निगदन्त्यग्निकारिकाम् ॥
1.5.3 · p. 45
अनुष्टुप्
अहंपूर्वमहंपूर्वमित्यहंपूर्विकां विदुः ।तोययन्त्रेऽरघट्टकः पादावर्ते च कीर्तितः ॥
1.5.4 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ट्ट (wrong syllable)
वासकाख्यौषधभिदि प्रवदन्त्याटरूषकम् ।गर्भागारेऽपवरकः खड्गिके त्वसिधारकः ॥
1.5.5 · p. 46
अनुष्टुप्
स्यादन्तर्वेशिकश्चावरोधिकोऽन्तःपुराश्रिते ।कुटुम्बपोषणव्यग्रे त्वभ्यागारिक ईरितः ॥
1.5.6 · p. 46
अनुष्टुप्
आनुमानिक इत्याहुस्तार्किके नरि तद्विदः ।अयःशूलिक इत्युक्तः क्रूरकर्मरते नरि ॥
1.5.7 · p. 46
अनुष्टुप्
कान्तार्थिनीं तु वनितां कथयन्त्यभिसारिकाम् ।मुक्तास्फोटेऽब्धिमण्डूकी रथद्रावतिमुक्तकः ॥
1.5.8 · p. 46
अनुष्टुप्
अतिसारयुते पुंसि कथितस्त्वतिसारकी ।स्यादम्ललोणिकाऽम्बष्ठा छुर्यां स्यादसिधेनुका ॥
1.5.9 · p. 46
अनुष्टुप्
तथासिपुत्रिका हट्टाध्यक्षे स्यादधिकर्मिकः ।अन्नकोष्ठकमित्याहुर्धान्यागारे कुसूलके ॥
1.5.10 · p. 46
अनुष्टुप्
शस्त्रसम्मार्जनकरे त्वसिधावक इत्यपि ।पादादीनां परिकरे प्रवदन्त्यवसक्थिकाम् ॥
1.5.11 · p. 46
अनुष्टुप्
नासानुगतवर्णेषु प्रवदन्त्यनुनासिकान् ।अजगन्धाऽभिधामाहुर्बर्बर्यां शाब्दिकोत्तमाः ॥
1.5.12 · p. 46
अनुष्टुप्
स्यादाच्छुरितकं हासनखराघातभेदयोः ।गजाजीवे तु गदितः शाब्दिकैरिभपालकः ॥
1.5.13 · p. 46
अनुष्टुप्
इन्द्रलुप्तकमित्याहुः खल्वाटे खलु तद्विदः ।उग्रनासिक उन्नासे तृष्णायामपलासिका ॥
1.5.14 · p. 46
अनुष्टुप्
ऊर्ध्ववाससि सर्वत्र कथयन्त्युत्तरीयकम् ।स्यादुरःसूत्रिका मुक्तामालायामुपहालकः ॥
1.5.15 · p. 47
अनुष्टुप्
कुन्तलानां प्रदेशे स्यादूर्ध्वज्ञावूर्ध्वजानुकः ।स्यादुलूखलकं क्लीबे गुग्गुलावुपकारिका ॥
1.5.16 · p. 47
अनुष्टुप्
उपकर्त्र्यां पिष्टभेदे तथैव स्यान्नृपालये ।उष्णोदकं वारिभेदे विदार्यामृक्षगन्धिका ॥
1.5.17 · p. 47
अनुष्टुप्
हारे स्यादेकयष्टिका वालुके त्वेलवालुकम् ।चोरे त्वैकागारिकः स्यान्मण्डले तूपसूर्यकम् ॥
1.5.18 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ष्टि (wrong syllable)
मतोपकुञ्चिका तुत्था बन्धके त्वौपरोधिकः ।कक्षावेक्षक इत्युक्तः शुद्धान्तोद्यानपालयोः ॥
1.5.19 · p. 47
अनुष्टुप्
रङ्गाजीवे कवौ षिड्गे द्वाःस्थे च कटखादकः ।खादके काचकलशे बलिपुष्टे च जम्बुके ॥
1.5.20 · p. 47
अनुष्टुप्
राजर्षिभेदे च तथा पूतिके कलिमारकः ।द्विपार्भके समुद्दिष्टः करिशावक इत्ययम् ॥
1.5.21 · p. 47
अनुष्टुप्
कथयन्ति विदर्भेषु विद्वांसः क्रथकैशिकम् ।काकतिन्दुक इत्युक्तः काकपीलुकवृक्षके ॥
1.5.22 · p. 47
अनुष्टुप्
यथा बृहत्यां कथिता शब्दज्ञैः कण्टकारिका ।तथैव त्रिवृति प्राहुः पण्डिताः कालमेषिकाम् ॥
1.5.23 · p. 47
अनुष्टुप्
काकजङ्घातरौ काकनासिकेति निगद्यते ।उदुम्बरे विडङ्गे च कृमिकण्टकमीरितम् ॥
1.5.24 · p. 47
अनुष्टुप्
वदन्ति च समुद्योगे कोशेषु कियदेतिकाम् ।कुलबालिका कुलस्त्री सैव स्यात् कुलपालिका ॥
1.5.25 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 लि (wrong syllable)
कुटहारिका भुजिष्या चुक्रे तु कुण्डगोलकं कथितम् ।पत्न्यास्त्ववरजातायामपि स्यात्केलिकुञ्चिका ॥
1.5.26 · p. 48
अनुष्टुप्metre not read in every line
कोरदूषक इत्युक्तः सस्यभेदे कियत्यपि ।द्वैपायनस्य जननी प्रसिद्धा गन्धकालिका ॥
1.5.27 · p. 48
अनुष्टुप्
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ।गणिकारिकाऽग्निमन्थे लम्बिका गलशुण्डिका ॥
1.5.28 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
कुटजे गिरिमल्लिका कूपके गुणवृक्षकः ।मुसल्यां गृहगोधिका गोजागरिकमित्ययम् ॥
1.5.29 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ल्लि (wrong syllable); pāda 3, syllable 7 धि (wrong syllable)
मङ्गले कण्टकारे नाप्यथ स्याद्घनगोलकः ।सुवर्णरूप्ययोर्मिश्रीभावेन परिवर्तने ॥
1.5.30 · p. 48
अनुष्टुप्
चन्द्रिकायां यथा प्राहुः शाब्दिकाश्चन्द्रगोलिकाम् ।दद्रुघ्ने च तथा वृक्षे चक्रमर्दकमूचिरे ॥
1.5.31 · p. 48
अनुष्टुप्
चक्रजीवक इत्युक्तः कुलाले चक्रजीविकः ।लेखके स्याच्च चित्रज्ञे चित्रजीवक इत्यपि ॥
1.5.32 · p. 48
अनुष्टुप्
सौदामिन्यां च खद्योते गदिता चिलिमीलिका ।अथो जलकरङ्कः स्यान्नालिकेरफलेऽपि च ॥
1.5.33 · p. 48
अनुष्टुप्
शङ्खे जललतायां च वारिवाहे च कीर्त्यते ।काकोलीराजशफरमत्स्ययोर्जलतापिकः ॥
1.5.34 · p. 48
अनुष्टुप्
जलवारकोऽथ सेतौ हरिरेव जगन्नायकस्त्वेकः ।जगताञ्जनको ब्रह्मा जङ्घाकरिकस्तु जङ्घाले ॥
1.5.35 · p. 48
आर्याmetre not read in every line
तण्डुलीयकोऽवनाटे प्रोक्तस्तथैव मेघनादेऽपि ।तालमूलिका मुसल्यां स्याच्छौल्बिके ताम्रकुट्टश्च ॥
1.5.36 · p. 49
metre not recognised
तालवृन्तकं व्यजने त्रिपुरान्तको हरे गदितः ।तिलकालकस्तु पिप्लौ तिलपर्णिकं तु चन्दने गदितम् ॥
1.5.37 · p. 49
metre not recognised
तुन्दकूपिका तु नाभौ बिम्ब्यां तु तुण्डिकेरिकाऽभिमता ।तैलपर्णिकस्तु गदितो नियन्तरि च चन्दने विज्ञैः ॥
1.5.38 · p. 49
metre not recognised
तैलपायिका परोष्ण्यां सेनान्यां दण्डनायकः कथितः ।दण्डनायिका तु पोत्र्यां देव्यामुक्ता तथा तज्ज्ञैः ॥
1.5.39 · p. 49
आर्याmetre not read in every line
दारुहस्तकस्तु तर्द्वां द्वाःस्थे तु द्वारपालको गदितः ।दीर्घपत्रको लशुने दुर्नामा दीर्घकोशिका ॥
1.5.40 · p. 49
metre not recognised
स्याद्देवमातृको देशविशेषे देववर्द्धकी ।त्वष्टरि स्यात्तु धातक्यां विदिता धातुपुष्पिका ॥
1.5.41 · p. 49
अनुष्टुप्
नवजातरजःकान्तानव्ययोर्नवफञ्जिका ।गदिता सप्तलतरौ विद्वद्भिर्नवमल्लिका ॥
1.5.42 · p. 49
अनुष्टुप्
नागवारिक उद्दिष्टो राजकुञ्जरहस्तिपे ।माणिक्यराजगरुडचित्रमेखलकेष्वपि ॥
1.5.43 · p. 49
अनुष्टुप्
नतनासिकोऽवटीटे तथा च नदीमातृको देशे ।मनःशिलायां च तथा सर्वेऽपि नागजिह्विकामाहुः ॥
1.5.44 · p. 49
metre not recognised
पण्यवीथिका विपणिः पदभञ्जिका पञ्जिकायां स्यात् ।परिचारि(र)को नियोज्ये पिष्टाते पटवासकः कथितः ॥
1.5.45 · p. 49
metre not recognised
प्रतिरोधकश्च चोरे परिपन्थिनि मार्गदूषके गदितः ।परिव्राजको मस्करिणि कथितोऽपि बौद्धतापसयोः ॥
1.5.46 · p. 50
metre not recognised
प्रतिसूर्यकश्च कथितः कृकलासे विदां श्रेष्ठैः ।पारियात्रिकोऽध्वरथे कथितश्च पारिरक्षकोऽथ यतौ ॥
1.5.47 · p. 50
metre not recognised
पारिभद्रकोऽद्रि(द्रु?)भेदे पार्श्वस्थे पारिपार्श्वको गदितः ।पारियात्रकस्तथाऽद्रौ क्वापि च पारिजातको द्रुभिदि ॥
1.5.48 · p. 50
metre not recognised
पारश्वधिकः परश्वायुधधारिणि समुद्दिष्टः ।पारिपन्थकोऽपि चौरे प्रातिहारिकोऽथ मायाज्ञे ॥
1.5.49 · p. 50
metre not recognised
पीतसारकस्तु सर्जे पिनाकधृक् स्मरान्तके प्रथितः ।पुच्छकण्टकस्तथालौ भक्ष्ये क्वापि च पूलिपूपिकामाहुः ॥
1.5.50 · p. 50
metre not recognised
बलिवाह्यकश्च शकटे बन्धुजीवकस्तु बन्धुजीवतरौ ।बीजपुष्पिकान्यतरौ श्लेष्माते बाहुवारकः कथितः ॥
1.5.51 · p. 50
metre not recognised
भर्तृदारिकामथाहुर्नाट्योक्तौ राजकन्यकायां च ।भर्तृदारकस्तथोक्तस्तत्त्रैव च युवराजेऽपि ॥
1.5.52 · p. 50
metre not recognised
भ्रमरालकस्तु कुरुले त्रिलोचने भूतनायकं प्राहुः ।पूर्वं भूते क्वापि च कथयन्ति भूतपूर्वकं सन्तः ॥
1.5.53 · p. 50
गीतिःmetre not read in every line
मधुजीवको मधुलिहि मस्तुलुङ्गको मस्तकस्नेहे ।मधुपर्णिका तरुभिदि गणामरे महाराजिकं प्राहुः ॥
1.5.54 · p. 50
metre not recognised
मृगधूर्तकः सृगाले मृगजालिका वागुरायां च ।यज्ञकीलकोऽथ यूपे दैत्ये भर्गे च यज्ञदूषको गदितः ॥
1.5.55 · p. 50
metre not recognised
यूपकटकश्चषाले युगपत्रकस्तु कोविदारतरौ ।रणरणकस्त्वौत्सुक्ये कर्णीरथे रथगर्भकं प्राहुः ॥
1.5.56 · p. 51
metre not recognised
मनःशिलायामपि च वदन्ति रसनेत्रिकाम् ।अपामार्गे तु गदितो विद्वद्भिर्लोचमस्तकः ॥
1.5.57 · p. 51
अनुष्टुप्
लोकायतिकमप्याहुश्चार्वाके लोहकुट्टकः ।लोहकारे निगदितः स्वर्णकारेऽपि च क्वचित् ॥
1.5.58 · p. 51
अनुष्टुप्
स्याद्व्यवहारिका लोकयात्रासम्मार्जनीङ्गुदे ।तथा निगदिता लोके लेखिन्यां वर्णतूलिका ॥
1.5.59 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
वृत्ते भाविनि वा युद्धे यत्पानं वीरपाणकम् ।हरिताले स्मृतं वंशपत्रकं वृषनाशकः(?) ॥
1.5.60 · p. 51
अनुष्टुप्
शिरीषवृक्षे गदितो विद्वद्भिर्वैजयन्तिकः ।पताकिन्यथ दूर्वायां वचायां शतपर्विका ॥
1.5.61 · p. 51
अनुष्टुप्
शीतचम्पक इत्येव स्यादातर्पणदीपयोः ।सुवसन्तक आख्यातो वासन्त्यां मदनोत्सवे ॥
1.5.62 · p. 51
अनुष्टुप्
स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ।क्षुद्रनासिकमप्याहुर्नःक्षुद्रे शब्दवेदिनः ॥
1.5.63 · p. 51
अनुष्टुप्