All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
वान्तवर्गः · वचतुर्थम्
॥ इति वतृतीयम् ॥
॥ अथ वचतुर्थम् ॥
अपह्नवोऽपलापे स्यात्स्नेहे चापह्नवो मतः ।अनुभावः प्रभावे स्यान्निश्चये भावसूचने ॥
29.4.1 · p. 323
अनुष्टुप्
शिवधन्वन्याजगवं शाक्र उच्चैःश्रवा हये ।उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि ॥
29.4.3 · p. 323
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्या (wrong syllable)
किष्कुपर्वा पुमानिक्षौ वेणौ घोटगलेऽपि च ।कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि ॥
29.4.4 · p. 323
अनुष्टुप्
जलबिल्वः कर्कटे स्यात्पञ्चाङ्गे जलचत्वरे ।जायाजीवी तु पुंसि स्यान्नटे च बकपक्षिणि ॥
29.4.5 · p. 323
अनुष्टुप्
जीवञ्जीवो वृक्षभेदे तथा पक्षिण्यपि क्वचित् ।स्यात्तिक्तपर्वा चानन्तागुडूचीयष्टिषु स्त्रियाम् ॥
29.4.6 · p. 323
अनुष्टुप्
ज्वालामुखी शृगाली या दीप्तजिह्वेति सा मता ।धामार्गवस्त्वपामार्गे घोषके च निगद्यते ॥
29.4.7 · p. 323
अनुष्टुप्
प्रतिश्रवोऽङ्गीकारे स्यात्परिभावस्तिरस्कृतौ ।पराभवस्तिरस्कारे विनाशे चापि कथ्यते ॥
29.4.8 · p. 323
अनुष्टुप्
पारिप्लवः स्याच्चपले व्याकुले च परिश्रुतः ।पारशवस्तु शस्त्रे स्याद्द्विजाच्छूद्रासुते तथा ॥
29.4.9 · p. 323
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
परस्त्रीतनये चापि तथा पारशवो मतः ।पारङ्गते पारदृश्वा कथितस्तत्त्ववेदिभिः ॥
29.4.10 · p. 324
अनुष्टुप्
पितृदेवो यमे प्रोक्तः पिण्डजीवी तु दुर्द्विजे ।पुटग्रीवो निगदितो गर्गरीताम्रकुम्भयोः ॥
29.4.11 · p. 324
अनुष्टुप्
पुष्पधन्वा रतिपतौ पृषदश्वः समीरणे ।बलदेवो बले वायौ त्रायमाणौषधौ स्त्रियाम् ॥
29.4.12 · p. 324
अनुष्टुप्
महादेवः पञ्चमुखे महादेवी तु तत्स्त्रियाम् ।रन्तिदेवो भूपभेदे तथैव गरुडध्वजे ॥
29.4.13 · p. 324
अनुष्टुप्
रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे ।वीरुद्देवः स्मृतस्त्विन्दाविन्द्रे वृद्धश्रवा मतः ॥
29.4.14 · p. 324
अनुष्टुप्
हरिश्चन्द्रो भूपभेदेऽप्यथ शीतशिवं पुनः ।शैलेये माणिमन्थे चाप्यथ शीतशिवं विदुः ॥
29.4.15 · p. 324
अनुष्टुप्
सैन्धवे चाश्मपुष्पे च मश्यां शीतशिवो मतः ।सहदेवा बलादण्डोत्पलयोः शारिवौषधौ ॥
29.4.16 · p. 324
अनुष्टुप्
सहदेवी तु सर्पाक्ष्यां सहदेवस्तु पाण्डवे ॥
29.4.17 · p. 324