कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

बान्तवर्गः · बद्वितीयम्

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये फान्तवर्गः ॥

॥ अथ बान्तवर्गः ॥

॥ अथ बद्वितीयम्‌ ॥

अम्बु स्याद्वालके तोये कम्बुः शङ्खेऽस्त्रियां मतः ।गजे च शम्बुकग्रीवाराजसु वलये पुमान् ॥
23.1.1 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ज (wrong syllable)
कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् ।पण्डके तु भवेत्क्लीबं वाच्यलिङ्गस्त्वविक्रमे ॥
23.1.2 · p. 216
अनुष्टुप्
जम्बुः सुमेरुसरिति तरुद्वीपभिदोरपि ।डिम्बो भयध्वनावण्डे फुप्फुसप्लीहविप्लवे ॥
23.1.3 · p. 216
अनुष्टुप्
बिम्बं तु प्रतिबिम्बे स्याद्बिम्बिकायाः फलेऽपि च ।मण्डले कृकलासे च शम्बस्तु मुसलाग्रगे ॥
23.1.4 · p. 216
अनुष्टुप्
लोहमण्डलके वज्रे पुमांस्त्रिषु शुभान्विते ।शिबिस्तु भूर्जपत्रे स्यात्तथोदारे महीपतौ ॥
23.1.5 · p. 216
अनुष्टुप्
शुल्बं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ।स्तम्बो गुल्मे तृणादीनामप्रकाण्डे द्रुमेऽपि च ॥
23.1.6 · p. 216
अनुष्टुप्