कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

चान्तवर्गः · चद्वितीयम्

॥ अथ चद्वितीयम्‌ ॥

अर्चा पूजाप्रतिमयोः प्रकाशेऽर्चिरथाञ्चले ।अञ्चः कचो गुरुसुते केशे शुष्कव्रणेऽपि च ॥
6.2.1 · p. 71
अनुष्टुप्
स्त्रियां कचा करिण्यां तु काचः शिक्थे मणावपि ।मृदन्तरे नेत्ररोगे काञ्ची सारमने पुरि ॥
6.2.2 · p. 71
अनुष्टुप्
कूर्चमस्त्री भ्रुवोर्म्मध्ये कत्थ(ठि)नश्मश्रुकैतवे ।कुचः पयोधरे स्त्रीणां क्रौञ्चः पर्वतपक्षिणोः ॥
6.2.3 · p. 71
अनुष्टुप्
भवेद्द्वीपप्रभेदेऽपि चर्चा स्थासकचिन्तयोः ।चर्चा तलप्रहारे च तथा शब्दविदो विदुः ॥
6.2.4 · p. 71
अनुष्टुप्
चर्चिकायां च चञ्चा तु तृणनिर्मितपूरुषे ।चञ्चो नलादिनिर्माणे चञ्चुस्त्रोट्यां तु योषिति ॥
6.2.5 · p. 71
अनुष्टुप्
पुंसि पञ्चाङ्गुले चापि गोनाडीचे व्यडम्बके ।नीचः खर्वे पामरे च पञ्चो विस्तारवाच्यपि ॥
6.2.6 · p. 71
अनुष्टुप्
पञ्च संख्यान्तरे प्राञ्चः प्राचीने प्राग्भवेऽपि च ।पिचुर्ना कुष्ठभेदे च तूले कर्षेऽसुरान्तरे ॥
6.2.7 · p. 71
अनुष्टुप्
भवेन्मञ्चस्तु पर्यङ्के मोचः सौभाञ्जनेऽप्यथ ।मोचा कदल्यां शाल्मल्यां मोचने तु मुचिर्मता ॥
6.2.8 · p. 71
अनुष्टुप्
रुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः ।लुञ्चस्तु लुञ्चने प्रोक्तो वचः कीरे वचौषधौ ॥
6.2.9 · p. 71
अनुष्टुप्
सारिकायां च वाग्देव्यां भारत्यामपि तु स्त्रियाम् ।वर्चस्तेजसि निर्दिष्टं वीचिरूर्मौ सुखेऽपि च ॥
6.2.10 · p. 72
अनुष्टुप्
अवकाशे शुचिर्ग्रीष्मे शृङ्गारे ज्वलनेऽपि च ।शुद्धमन्त्रिणि चाषाढे ज्येष्ठे पुंसि च गद्यते ॥
6.2.11 · p. 72
अनुष्टुप्
तथा च धवले वर्णे शुद्धेऽनुपहते त्रिषु ।शुचिः स्यादपराधाभिनये शक्रस्त्रियां शची ॥
6.2.12 · p. 72
अनुष्टुप्
सूची तु सीवनद्रव्ये सूचा स्यादपि सूचने ।स्रुचिस्तु पात्रभेदे स्याद्यज्ञसम्बन्धिनि क्वचित् ॥
6.2.13 · p. 72
अनुष्टुप्