All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
धान्तवर्गः · धद्वितीयम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये दान्तवर्गः ॥
॥ अथ धान्तवर्गः ॥
॥ अथ धद्वितीयम् ॥
अर्धं समांशे खण्डे चाप्यब्धिः सरसि वारिधौ ।अन्धश्चक्षुर्विहीने स्यादन्धं तु तिमिरे मतम् ॥
19.1.1 · p. 180
अनुष्टुप्
अधस्तलप्रदेशे स्यादद्धा स्यान्निश्चयेऽव्ययम् ।आधिः पुमांश्चित्तपीडाप्रत्याशाबन्धकेषु च ॥
19.1.2 · p. 180
अनुष्टुप्
व्यसने चाप्यधिष्ठानेऽपीद्धमातपदीप्तयोः ।ऋद्धं सम्पन्नधान्ये च सुसमृद्धेऽपि वाच्यवत् ॥
19.1.3 · p. 180
अनुष्टुप्
ऋद्धिः स्त्रियां समृद्धौ स्यादपि स्यादौषधीभिदि ।एधमाहुस्तथा काष्ठ एधः क्लीबे च तद्विदः ॥
19.1.4 · p. 180
अनुष्टुप्
गन्धो गन्धक आमोदे लेशे सम्बन्धिगर्वयोः ।गन्धः श्लाघ्ये च हिंसायामुत्ताने गाधमित्यपि ? ॥
19.1.5 · p. 180
अनुष्टुप्
गोधा तले निहाकायां दग्धं प्लुष्टेऽन्यलिङ्गकम् ।दग्धा स्थितार्कदिशि तु दधि क्षीरोत्तरस्थितौ ॥
19.1.6 · p. 180
अनुष्टुप्
श्रीवासवासयोश्चापि दिग्धो बाणे विषान्विते ।दुग्धं प्रपूरिते क्षीरे दुग्धी क्षीराविकौषधौ ॥
19.1.7 · p. 180
अनुष्टुप्
दोग्धा गोपालके वत्से कवौ वत्सोपजीविनि ।नद्धो बद्धे तथोद्वृत्ते बन्धस्त्वाधौ च बन्धने ॥
19.1.8 · p. 180
अनुष्टुप्
बाधा दुःखे निषेधे च बुधो ज्ञे पण्डितेऽपि च ।बुद्धो जिने लब्धवर्णे बुधिते त्वन्यलिङ्गवत् ॥
19.1.9 · p. 181
अनुष्टुप्
बोधिः समाधिभेदे च तथा पिप्पलभूरुहे ।मधु मद्ये पुष्परसे क्षौद्रे ना तु मधुद्रुमे ॥
19.1.10 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
वसन्तचैत्रदैत्येषु जीवन्त्यामपि योषिति ।मिद्धं चित्ताभिसङ्क्षेपे मतमालस्यनिद्रयोः ॥
19.1.11 · p. 181
अनुष्टुप्
मुग्धः स्यात्सुन्दरे मूढे क्रतौ मेधा मतौ स्त्रियाम् ।राधा विशाखाऽऽमलकीविष्णुक्रान्तासु मासि ना ॥
19.1.12 · p. 181
अनुष्टुप्
धन्विनां चित्रभेदे च स्याद्गोपीविद्युतोः स्त्रियाम् ।राद्धं समृद्धे लुब्धस्तु स्याद्व्याधाकाङ्क्षिणोरपि ॥
19.1.13 · p. 181
अनुष्टुप्
लब्धं प्राप्ते बधूर्भार्यास्नुषापृक्काऽङ्गनासु च ।शटीनवोढयोस्तद्वत्स्त्रियां स्यात्सारिवौषधौ ॥
19.1.14 · p. 181
अनुष्टुप्
व्याधिः कुष्ठे च रोगे च व्याधो मृगयुदुष्टयोः ।विधुर्ना चन्द्रकर्पूरविष्णुष्वपि विधिः पुनः ॥
19.1.15 · p. 181
अनुष्टुप्
काले विधाने नियतौ तथैव परमेष्ठिनि ।विधा गजान्न ऋद्धौ च प्रकारे वेतने विधौ ॥
19.1.16 · p. 181
अनुष्टुप्
वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे ।वृद्धिः स्याद्वर्धने योगविशेषेऽप्यौषधान्तरे ॥
19.1.17 · p. 181
अनुष्टुप्
कालान्तरे चाप्युदये समृद्धावपि योषिति ।श्रद्धाऽऽदरे च काङ्क्षायां श्राद्धः श्रद्धान्विते त्रिषु ॥
19.1.18 · p. 181
अनुष्टुप्
हव्यकव्यविधौ क्लीबं शुद्धं तु त्रिषु केवले ।पवित्रेऽपि च निर्दोषे सन्धा स्थितिप्रतिज्ञयोः ॥
19.1.19 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable)
स्पर्द्धा सङ्घर्षणे साम्ये तथा क्रमसमुन्नतौ ।सन्धिर्भेदे सुरङ्गायां भागसङ्घट्टनेऽपि च ॥
19.1.20 · p. 182
अनुष्टुप्
रूपकाणां मुखाद्यङ्गेऽप्यवकाशेऽपि कीर्तितः ।स्कन्धः स्यान्नृपतावंशे सम्परायसमूहयोः ॥
19.1.21 · p. 182
अनुष्टुप्
काये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि ।साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् ॥
19.1.22 · p. 182
अनुष्टुप्
सिद्धं स्यात्त्रिषु निष्पन्ने पुमान् व्यासादियोगयोः ।स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि निगद्यते ॥
19.1.23 · p. 182
अनुष्टुप्
सिन्धुर्वमथुदेशाब्धिनदेषु सरिति स्त्रियाम् ।सिद्धिः स्त्री योगनिष्पत्त्योरणिमादिषु चेष्यते ॥
19.1.24 · p. 182
अनुष्टुप्
सुधाऽमृते स्नुहीमूर्वालेपगाङ्गेष्टिकासु च ।क्षुधा तु स्याद्बुभुक्षायामिच्छायां च मता क्वचित् ॥
19.1.25 · p. 182
अनुष्टुप्