कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

शान्तवर्गः · शद्वितीयम्

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये वान्तवर्गः ॥

॥ अथ शान्तवर्गः ॥

अंशुः सूत्रादिसूक्ष्मांशे किरणे च दिवाकरे ।अंशस्तु स्यादेकदेशे भुक्तावाशो निगद्यते ॥
30.1.1 · p. 325
अनुष्टुप्
आशा दिशि च तृष्णायामाशुः स्याद्व्रीहिशीघ्रयोः ।ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके ॥
30.1.2 · p. 325
अनुष्टुप्
काशस्तृणे रोगभेदे काशी वाराणसीपुरे ।कीशो दिगम्बरे प्रोक्तो वानरेऽपि निगद्यते ॥
30.1.3 · p. 325
अनुष्टुप्
कुशो रामसुते द्वीपे पापिष्ठे योक्तृमत्तयोः ।कुशो दर्भे कुशी फाले कुशा वल्यां कुशं जले ॥
30.1.4 · p. 325
अनुष्टुप्
केशस्तु वरुणे चापि कुन्तले वालकेऽपि च ।क्लेशः कोपेऽपि दुःखेऽपि व्यवसायेऽपि गद्यते ॥
30.1.5 · p. 325
अनुष्टुप्
केशी केशवति प्रोक्तश्चोरपुष्प्यां च दानवे ।कोशः स्यादर्थसङ्घाते जातिकोशे च कुड्मले ॥
30.1.6 · p. 325
अनुष्टुप्
पात्रे दिव्येऽपि गदितस्तथा खड्गपिधानके ।क्रोशस्त्वाक्रोशकरणे भूमानेऽपि प्रचक्षते ॥
30.1.7 · p. 325
अनुष्टुप्
अस्थूले तु कृशः प्रोक्तः खशः स्यान्नीवृदन्तरे ।दर्शस्तु दर्शने सिन्धौ तथा सूर्येन्दुसङ्गमे ॥
30.1.8 · p. 325
अनुष्टुप्
पक्षान्ते वैदिकविधावपि दर्श उदीरितः ।दंशः कीटविशेषे च वर्मदंशनयोरपि ॥
30.1.9 · p. 325
अनुष्टुप्
दशाऽवस्थादीपवर्त्योर्वस्त्रप्रान्ते च गद्यते ।नाशः पलायने मृत्यौ पाशः पक्ष्यादिबन्धने ॥
30.1.10 · p. 326
अनुष्टुप्
कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः ।छात्राद्यन्ते च निन्दार्थो मृगादौ पशुरीर्यते ॥
30.1.11 · p. 326
अनुष्टुप्
पर्शुः स्यादायुधभिदि पेशी मांस्यसिकोशयोः ।पलपिण्ड्यां मण्डभेदे सुपक्वकणि(के)ऽपि च ॥
30.1.12 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेषादिपुञ्जयो राशिर्वंशो वेणौ कुलेऽपि च ।वर्गे पृष्ठास्थ्यवयवे वशा नार्यां निगद्यते ॥
30.1.13 · p. 326
अनुष्टुप्
वन्ध्यगव्यां दुहितरि हस्तिन्यामपि कीर्त्तिता ।वशो जनस्पृहायां त्रिष्वायत्तत्वप्रभुत्वयोः ॥
30.1.14 · p. 326
अनुष्टुप्
वेशो वेश्यागृहे प्रोक्तो वेशोऽपि गृहमात्रके ।नेपथ्ये च शशो वोले रोध्रे नृपशुभेदयोः ॥
30.1.15 · p. 326
अनुष्टुप्
शशो मृगविशेषेऽपि माशस्त्वाशावति त्रिषु ।स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥
30.1.16 · p. 326
अनुष्टुप्
स्पर्शः स्यात्सम्परायेऽपि प्रणिधावपि पुंस्ययम् ।स्पशश्चारे निगदितः स्वेशश्च धनदे मतः ॥
30.1.17 · p. 326
अनुष्टुप्