कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

दान्तवर्गः · दतृतीयम्

॥ इति दद्वितीयम्‌ ॥

॥ अथ दतृतीयम्‌ ॥

अङ्गदो वालितनये केयूरे तु नपुंसकम् ।अङ्गदा याम्यदिग्दन्तियोषायां समुदाहृता ॥
18.3.1 · p. 175
अनुष्टुप्
अर्बुदः स्यान्मांसकीले दशकोटिषु पर्वते ।अर्धेन्दुश्चन्द्रखण्डे स्याद्गलहस्तनखाङ्कयोः ॥
18.3.2 · p. 175
अनुष्टुप्
अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ।आमन्दो वासुदेवे स्यात् खट्वाभेदे च योषिति ॥
18.3.3 · p. 175
अनुष्टुप्
आक्रन्दो दारुणरणे मित्रे भ्रातरि रोदने ।आस्पदं स्यात्पदे कृत्य आमोदो गन्धहर्षयोः ॥
18.3.4 · p. 175
अनुष्टुप्
ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणि ।कपर्दः खण्डपरशोर्जटाजूटे वराटके ॥
18.3.5 · p. 175
अनुष्टुप्
कर्णान्दुरुत्क्षिप्तिकायां कर्णपाल्यामपि स्त्रियाम् ।क्रव्यादः स्याद्राक्षसवन्मांसासिन्यभिधेयवत् ॥
18.3.6 · p. 175
अनुष्टुप्
करदो जितभूपाले करदः करदातरि ।कामदा स्यात्कामधेनौ वाच्यवत्कामदातरि ॥
18.3.7 · p. 175
अनुष्टुप्
कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकौषधे ।गाम्भार्यामपि दिङ्नागे नागे शाखामृगान्तरे ॥
18.3.8 · p. 175
अनुष्टुप्
कुसीदं जीवने वृद्ध्या कुसीदस्तु कुसीदिके ।सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ॥
18.3.9 · p. 175
अनुष्टुप्
कौमुद्युत्सवभेदे स्याच्चन्द्रिकायां च कौमुदी ।कौमुदः कार्तिकेये स्याद्गरदो विषदातरि ॥
18.3.10 · p. 176
अनुष्टुप्
गोविन्दः स्याद्वासुदेवे गवाध्यक्षे च गीष्पतौ ।गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ॥
18.3.11 · p. 176
अनुष्टुप्
गोनर्दमपि कैवर्त्तीमुस्तके पुंसि सारसे ।जलदो मुस्तके मेघे जीवदो वैद्यविद्विषोः ॥
18.3.12 · p. 176
अनुष्टुप्
तोयदो मुस्तके मेघ आज्ये तु स्यान्नपुंसकम् ।तोषदं तु घृते प्रोक्तं तोषदस्तुष्टिकर्तरि ॥
18.3.13 · p. 176
अनुष्टुप्
दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च ।दायदस्तु सपिण्डे स्याद्दायादस्तनयेऽपि च ॥
18.3.14 · p. 176
अनुष्टुप्
धनदस्तु कुबेरे स्याद्धनदातरि च स्मृतः ।नर्मदः केलिसचिवे स्त्रियां तु सरिदन्तरे ॥
18.3.15 · p. 176
अनुष्टुप्
कामिन्यां नलदं पुष्परसमांसीजलेष्वपि ।निर्वादो लोकवादेऽपि तथाच परिनिष्ठिते ॥
18.3.16 · p. 176
अनुष्टुप्
निष्यन्दः स्यात्स्वेदजले निःष्यन्दः स्यन्दवर्जिते ।निर्वेदः स्यादुपरतौ निर्मदो मदवर्जिते ॥
18.3.17 · p. 176
अनुष्टुप्
निषादः स्यात्तु चाण्डाले स्वरभेदे च धीवरे ।प्रमदा स्यात्तु योषायां मत्तसम्मदयोरपि ॥
18.3.18 · p. 176
अनुष्टुप्
प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसक्तिषु ।प्रमादोऽनवधानेऽपि प्रवादो जनभाषणे ॥
18.3.19 · p. 176
अनुष्टुप्
प्रणादस्तारशब्दे स्यात्तथैव श्रवणामये ।प्रह्रादः प्रणदे दैत्ये निध्वानेऽपि निगद्यते ॥
18.3.20 · p. 177
अनुष्टुप्
प्रासादो देवनृपतिगेहेऽथ वरदा स्त्रियाम् ।कन्यायां वाच्यलिङ्गस्तु प्रसन्नेऽपि समर्धके ॥
18.3.21 · p. 177
अनुष्टुप्
माकन्दः सहकारे स्त्री धात्रीनगरभेदयोः ।मुकुन्दो निधिभिद्विष्णुरत्नभेदेषु कुन्दुरौ ॥
18.3.22 · p. 177
अनुष्टुप्
मेनादस्तु भवेत्केकिमार्जारछागलेषु च ।विशदः पाण्डुरे व्यक्ते विवादः संशयोक्तिषु ॥
18.3.23 · p. 177
अनुष्टुप्
शारदोऽब्दे शरज्जातनूतनाप्रतिभेषु च ।शरद्वच्छारदाऽपि स्यान्नियता जलदात्यये ॥
18.3.24 · p. 177
अनुष्टुप्
अथ स्याच्छारदा तोयपिप्पलीसप्तपर्णयोः ।षड्बिन्दुः पुण्डरीकाक्षे कीटभेदे मतः पुमान् ॥
18.3.25 · p. 177
अनुष्टुप्
सम्भेदः स्फुटने प्रोक्तः सम्भेदः सिन्धुसङ्गमे ।सुनन्देन्दुमतीधात्र्योः सुनन्दा रोचनोमयोः ॥
18.3.26 · p. 177
अनुष्टुप्