All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
गान्तवर्गः · गद्वितीयम्
॥ अथ गद्वितीयम् ॥
अगः क्ष्माभृत्पादपयोरङ्गं चान्तिकगात्रयोः ।प्रतीकोपाययोः पुंसि भूम्नि नीवृति गद्यते ॥
3.2.1 · p. 59
अनुष्टुप्
क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चोच्यते ।उक्तमङ्गेति सम्बुद्धौ राहावगुरुदाहृतः ॥
3.2.2 · p. 59
अनुष्टुप्
आगोऽपराधे त्विङ्गः स्यादिङ्गितज्ञानयोरपि ।जङ्गमेऽपि क्वचिद्धान्ये कङ्गुरित्यभिधीयते ॥
3.2.3 · p. 59
अनुष्टुप्
खगो देवे ग्रहे सूर्ये तथा पक्षिणि मार्गणे ।खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गद्यते ॥
3.2.4 · p. 59
अनुष्टुप्
खड्गी ना गण्डके मञ्जुघोषे खड्गधरेऽपि च ।गङ्गा त्रिपथगायां स्याद्गाङ्गस्तत्प्रभवे त्रिषु ॥
3.2.5 · p. 59
अनुष्टुप्
भीष्मषण्मुखयोश्चापि गर्गो मुन्यन्तरे मतः ।चङ्गस्तु शोभने दक्षे छागः स्यादपि बर्करे ॥
3.2.6 · p. 59
अनुष्टुप्
जुङ्गः स्यादृक्षगन्धायां टङ्गोऽस्त्री स्यात्खनित्रके ।जङ्घायां खड्गभेदेऽपि त्यागो दाने च वर्जने ॥
3.2.7 · p. 59
अनुष्टुप्
त्यागी दातरि शूरे च कथितः शब्दवेदिभिः ।तुङ्गी निशाबर्बरयोः पुन्नागनगयोः पुमान् ॥
3.2.8 · p. 59
अनुष्टुप्
उन्नते त्वन्यवद्दुर्ग्गोमानील्योस्त्रिषु दुर्गमे ।नगो महीरुहे चाद्रौ सूर्ये चक्षुःश्रवस्यपि ॥
3.2.9 · p. 59
अनुष्टुप्
देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः ।नागं तु सीसके रङ्गे स्त्री बन्धकरणान्तरे ॥
3.2.11 · p. 60
अनुष्टुप्
नृगस्तु नृपभेदे स्यात्पङ्गुः पादविवर्जिते ।पिङ्गा गोरोचनाहिङ्गुनालिकाचण्डिकास्वपि ॥
3.2.12 · p. 60
अनुष्टुप्
पिङ्गी शम्यां पिशङ्गे ना बालके तु नपुंसकम् ।पूगस्तु क्रमुके वृन्दे पूगं क्रमुकजे फले ॥
3.2.13 · p. 60
अनुष्टुप्
फल्गुः स्त्रियां नदीभेदे फल्ग्वसारेऽभिधेयवत् ।भङ्गो जयविपर्यासे भङ्गा सस्यान्तरे स्त्रियाम् ॥
3.2.14 · p. 60
अनुष्टुप्
भेदरोगतरङ्गेषु पुंसि क्लीबे भगं मतम् ।श्रियां च ज्ञानवैराग्यकीर्तीच्छासु पराक्रमे ॥
3.2.15 · p. 60
अनुष्टुप्
माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ ।भागो रूपार्धके प्रोक्तो भागधेयैकदेशयोः ॥
3.2.16 · p. 60
अनुष्टुप्
भृङ्गो मधुव्रते भृङ्गराजे धूम्याटषिड्गयोः ।भृङ्गं गुडत्वचि क्लीबे तथा पुंसि भृगुस्तटे ॥
3.2.17 · p. 60
अनुष्टुप्
मुनौ शुक्रे हरे भृङ्गी मतस्तु हरपार्षदे ।भोगी त्वहौ भोगवति भोगः प्रोक्तः सुखे धने ॥
3.2.18 · p. 60
अनुष्टुप्
मार्गः स्यात्पथि मासेऽपि तथैवान्वेषणेऽपि च ।मार्गो मृगमदेऽपि स्यान्मार्गी तु पथिके स्मृतः ॥
3.2.20 · p. 61
अनुष्टुप्
मुद्गः शिम्बीधान्यभेदे मृगोऽपि पुरुषान्तरे ।मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः ॥
3.2.21 · p. 61
अनुष्टुप्
अन्वेषणायां याञ्चायां मृगी तु वनितान्तरे ।यागस्तु क्रतुमात्रेऽपि युगं हस्तचतुष्टये ॥
3.2.22 · p. 61
अनुष्टुप्
युगो रथे हलाद्यङ्गे न द्वयोस्तु कृतादिषु ।युग्मेऽपि युगमित्युक्तं वृद्धिनामौषधेऽपि च ॥
3.2.23 · p. 61
अनुष्टुप्
योगोऽपूर्वार्थसंप्राप्तौ संगतिध्यानयुक्तिषु ।वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥
3.2.24 · p. 61
अनुष्टुप्
विस्रब्धधातुके द्रव्योपायसन्नहनेष्वपि ।कार्मणेऽपि च रङ्गो ना रागे नृत्ये रणक्षितौ ॥
3.2.25 · p. 61
अनुष्टुप्
अस्त्री त्रपुणि रागस्तु प्रोक्तो मात्सर्यभूपयोः ।क्लेशादावनुरागे च गाने लौहित्यकादिषु ॥
3.2.26 · p. 61
अनुष्टुप्
रिङ्गस्तु रिङ्गणे रोगः कुष्ठादावौषधान्तरे ।स्यात्सङ्गषिड्गयोर्लङ्गो लिङ्गं मेहनचिह्नयोः ॥
3.2.27 · p. 61
अनुष्टुप्
तथाऽनुमाने साङ्ख्योक्तौ प्रकृतावपि गद्यते ।शिवमूर्तिविशेषे च लिङ्गी स्याल्लिङ्गधारिणि ॥
3.2.28 · p. 61
अनुष्टुप्
लुङ्गस्तरुभिदि प्रोक्तो व्यङ्गो हीनाङ्गभेकयोः ।वङ्गः स्याद्देशभेदेऽपि वङ्गं सीसकरङ्गयोः ॥
3.2.29 · p. 62
अनुष्टुप्
वार्ताकेऽपि च कार्पासे पुम्भूम्नि च निगद्यते ।वल्गुः स्याच्छागले पुंसि सुन्दरे पक्षिणि क्वचित् ॥
3.2.30 · p. 62
अनुष्टुप्
वर्गस्तु ऋक्समूहे स्यात्स्वपक्षेऽपि निगद्यते ।वेगो जवे प्रवाहे च महाकालफलेऽपि च ॥
3.2.31 · p. 62
अनुष्टुप्
शुङ्गो वटाम्रातकयोः पर्कट्यामपि योषिति ।शृङ्गं तु शिखरे चिह्ने प्रभुत्वेहाम्बुयन्त्रके ॥
3.2.32 · p. 62
अनुष्टुप्
विषाणोत्कर्षयोश्चापि शृङ्गः स्यात्कूर्चशीर्षके ।स्वर्णमीनप्रभेदे च शृङ्गी स्यादौषधान्तरे ॥
3.2.33 · p. 62
अनुष्टुप्
शृङ्गी शृङ्गयुते नागे तथा च शिखरिण्यपि ।सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु ॥
3.2.34 · p. 62
अनुष्टुप्
भवेत्सङ्गस्तु संसर्गे प्रोक्तः स्वर्गस्त्रिविष्टपे ।स्वर्गस्तु मारुते स्वाङ्गं शुभाङ्गे वाच्यलिङ्गवत् ॥
3.2.35 · p. 62
अनुष्टुप्
हिङ्गु निर्यासभेदे स्यात्पादपे पुंसि कथ्यते ॥
3.2.36 · p. 62