All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
कान्तवर्गः · कषष्ठम्
॥ इति कपञ्चमम् ॥
॥ अथ कषष्ठम् ॥
अहमहमिकामाहुरहङ्कारेऽथ लेखके ।शब्दशास्त्रपरिष्णाते वदन्त्यक्षरजीवकम् ॥
1.6.1 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
दर्पादात्मप्रशंसायामाहोपुरुषिकां विदुः ।आभीरपल्लिका घोषे त्वाग्रहायणिकः सहे ॥
1.6.2 · p. 52
अनुष्टुप्
चर्मपात्रे तु करकपात्रिकाऽथ निगद्यते ।क्रयविक्रयिको वैश्ये काकोदुम्बरिका तरौ ॥
1.6.3 · p. 52
अनुष्टुप्
मलप्वां च तथैवोक्ता काकोदुम्बरिका जनैः ।कपोतपालिकामाहुर्विटङ्के शब्दवेदिनः ॥
1.6.4 · p. 52
अनुष्टुप्
कृतसापत्निकाऽध्यूढा कृतान्तजनको रविः ।स्थानात्स्थानान्तरं गच्छद्धूपे गन्धपिशाचिका ॥
1.6.5 · p. 52
अनुष्टुप्
गन्धर्वहस्तकः प्रोक्तस्तथैवैरण्डपादपे ।ग्राममद्गुरिका ग्रामयुद्धे शृङ्गिझषेऽपि च ॥
1.6.6 · p. 52
अनुष्टुप्
चर्मप्रभेदिकाऽऽरायां भस्त्रा चर्मप्रसेविका ।तरौ रोहितकाख्ये तु मतो दाडिमपुष्पकः ॥
1.6.7 · p. 52
अनुष्टुप्
नक्षत्रसूचको ज्योतिःशास्त्रवेदिनि कीर्तितः ।प्रख्यातवक्तृको विज्ञे टङ्के पाषाणदारकः ॥
1.6.8 · p. 52
अनुष्टुप्
पाषाणभेदकं प्राहुः शब्दज्ञाश्चौषधान्तरे ।बहुगर्ह्यवाग्वाचाटे शैलूषेऽथ निगद्यते ॥
1.6.9 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
विद्वद्भिः शब्दशास्त्रज्ञैरयं भरतपुत्रकः ।मार्जारकर्णिका देव्यां सूते मङ्गलपाठकः ॥
1.6.10 · p. 52
अनुष्टुप्
स्मृता तु नर्मदाख्यायां नद्यां मेकलकन्यका ।रङ्गाजीविनि रङ्गावतारकः परिकीर्तितः ॥
1.6.11 · p. 52
अनुष्टुप्
रथकुटुम्बिकः क्षत्ता रणे वीरजयन्तिका ।वीरविप्लावकः शूद्रधनैर्याजक उच्यते ॥
1.6.12 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कु (wrong syllable)
विज्ञानमातृको बौद्धे मतो विरलजानुकः ।ऊर्ध्वज्ञावथ निर्दिष्टो विज्ञैर्वर्णविलोडकः ॥
1.6.13 · p. 53
अनुष्टुप्
श्लोकस्तेने च चोरे च सिन्दूरतिलकः पुनः ।मतङ्गजे स्त्री कामिन्यां दूते सन्देशहारकः ॥
1.6.14 · p. 53
अनुष्टुप्
सौखशायनिकं प्राहुर्नरि सुस्वप्नपृच्छके ।
1.6.15 · p. 53