All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
रान्तवर्गः · रतृतीयम् (2/2)
पुष्करं करिहस्ताग्रे पङ्कजे व्योम्नि वारुणौ ।पुमान्योगविशेषेऽपि तथा क्षेत्रे नपुंसकम् ॥
27.3.121 · p. 275
अनुष्टुप्
औषधद्वीपविहगेष्वपि रागोरगान्तरे ।तूर्यवक्त्रे च काण्डे च तथा खड्गफलेऽपि च ॥
27.3.122 · p. 276
अनुष्टुप्
पैठरमुष्णमांसे स्याद्बर्करस्तरुणे पशौ ।बन्धुरं मुकुटे पुंसि विडङ्गतैलकल्कयोः ॥
27.3.123 · p. 276
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 ङ्ग (wrong syllable)
बन्धूके बधिरे हंसे तथा स्याद्रम्यनम्रयोः ।बन्धुरं स्यात्प्रविश्लेषे न द्वयोर्विकले त्रिषु ॥
27.3.124 · p. 276
अनुष्टुप्
बन्धूरा पण्ययोषायां स्त्रियां पुंभूम्नि सक्तुषु ।बर्बरः स्याद्देशजात्योर्बर्बरो वृक्षभिद्यपि ॥
27.3.125 · p. 276
अनुष्टुप्
बर्बरः पामरे केशविन्यासे शाकपुष्पयोः ।बर्बरा फञ्जिकायां च बठरः शठवस्त्रयोः ॥
27.3.126 · p. 276
अनुष्टुप्
बण्ठरः स्थगिकारज्जौ वकोटे परिकीर्तितः ।बदरा गृष्टिकार्पास्योरेलापर्ण्यां स्त्रियां पुमान् ॥
27.3.127 · p. 276
अनुष्टुप्
कार्पासस्यास्थ्नि बदरी कोलौ क्लीबं तु तत्फले ।बदरा विष्णुक्रान्तायामिति विश्वेन भाषिता ॥
27.3.128 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्णु (wrong syllable)
बदरी कोलवृक्षे स्याद्बधिरः श्रोत्रवर्जिते ।बादरं बार्बरञ्चोभे तत्तत्सम्बन्धसंयुते ॥
27.3.129 · p. 276
अनुष्टुप्
भ्रमरः कामुके भृङ्गे भवित्रं भावि वस्तुनि ।भटित्रं शूल्यमांसे स्याद्भटित्रं भर्जिते फले ॥
27.3.130 · p. 276
अनुष्टुप्
भण्डीरो योद्धृवल्योश्च भाण्डीरो वटभिद्यपि ।भाण्डीरं वनभेदेऽपि भ्रामरं मधुभिद्यपि ॥
27.3.131 · p. 277
अनुष्टुप्
पुंसि प्रस्तरभेदे च भास्करोऽग्नौ प्रभाकरे ।भार्यारुः स्याच्छैलभेदे मृगभेदे च तत्र च ॥
27.3.132 · p. 277
अनुष्टुप्
क्रीडया परभार्यायां पुत्रो येनोपपादितः ।भूदारः सूकरे चापि भूस्फोटे च निगद्यते ॥
27.3.133 · p. 277
अनुष्टुप्
भृङ्गारी झिल्लिकायां च भृङ्गारो जलभाजने ।मेदुरस्तु भवेत्स्निग्धे महीध्रो धरणीधरे ॥
27.3.134 · p. 277
अनुष्टुप्
मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः ।मधुकुक्कुटिकामेदामधुलीयष्टिकासु च ॥
27.3.135 · p. 277
अनुष्टुप्
क्लीबं विषे रसे पुंसि तद्वत्स्वादुप्रियेऽन्यवत् ।मकुरस्तु विनिर्द्दिष्टो दर्पणे बकुलद्रुमे ॥
27.3.136 · p. 277
अनुष्टुप्
कुलालदण्डे मकुरो मुकुरोऽपि च विश्रुतः ।मन्दरो मन्थशैले स्यात्तथा मन्दारपादपे ॥
27.3.137 · p. 277
अनुष्टुप्
वाच्यवद्बहले मन्दे मन्दारस्तु सुरद्रुमे ।पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः ॥
27.3.138 · p. 277
अनुष्टुप्
मन्दिरं नगरेऽगारे मन्दिरो मकरालये ।मन्थरः कोशफलयोः बाधमन्थानयोः पुमान् ॥
27.3.139 · p. 277
अनुष्टुप्
कुसुम्भ्यां नद्वयोर्मल्ले ? पृथौ वक्रेऽभिधेयवत् ।मन्थरः सूचके मन्दे पृथावपि तु वाच्यवत् ॥
27.3.140 · p. 277
अनुष्टुप्
मकरो राशिभेदे स्यान्निधावपि च यादसि ।मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥
27.3.141 · p. 278
अनुष्टुप्
मसूरा मसुरा च स्याद्ब्रीहिवेश्याप्रभेदयोः ।मसूरो मसुरश्च द्वावेतौ चापि तयोर्मतौ ॥
27.3.142 · p. 278
अनुष्टुप्
मर्मरः स्याद्वस्त्रभेदे शुष्कपर्णध्वनावपि ।पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि ॥
27.3.143 · p. 278
अनुष्टुप्
मञ्जरी तिलकस्थूलमुक्तयोः वल्लरौ द्वयोः ।मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोरपि ॥
27.3.144 · p. 278
अनुष्टुप्
असह्यपरसम्पत्तौ कृपणे चाभिधेयवत् ।अथ स्यान्मद्गुरो मत्स्ये मयूरोऽपि च केकिनि ॥
27.3.145 · p. 278
अनुष्टुप्
माथुरो देशभेदे स्यान्मधुरे माधुरी स्त्रियाम् ।माठरः स्यात्कुलालस्य दण्डेऽर्कपारिपार्श्विके ॥
27.3.146 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)
व्यासेऽपि चाथ खट्टाशे मार्जारः स्याद्बिडालके ।मायूरं क्षेत्रभेदे स्यान्मयूरस्य समूहके ॥
27.3.147 · p. 278
अनुष्टुप्
मायूरः स्यात्तु लकुचे मिहिरः सूर्यवृद्धयोः ।मुद्गरं मल्लिकाभेदे तथा लोष्टादिभेदने ॥
27.3.148 · p. 278
अनुष्टुप्
मुदिरः कामुके मेघे मुहिरः काममूर्खयोः ।मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ॥
27.3.149 · p. 278
अनुष्टुप्
मुनीन्द्रस्तु मतो बुद्धे मृगारिर्व्याघ्रसिंहयोः ।मेदुरं बहुले प्रोक्तं मल्यां स्यान्मोगरः पुमान् ॥
27.3.150 · p. 279
अनुष्टुप्
रुधिरं कुङ्कुमे रक्ते रुधिरोऽङ्गारके पुमान् ।मनोहरे तु रुचिरं लवित्रं छेदसाधने ॥
27.3.151 · p. 279
अनुष्टुप्
वल्लरः शाद्वले प्रोक्तो निर्झरस्थानकुञ्जयोः ।बिल्वक्षेत्रे च मञ्जर्यां वल्लरीति प्रचक्षते ॥
27.3.152 · p. 279
अनुष्टुप्
वल्लुरं स्याद्वनक्षेत्रे गहनोषरयोरपि ।वल्लूरं शुष्कमांसे च तथा मांसे च दंष्ट्रिणः ॥
27.3.153 · p. 279
अनुष्टुप्
वन्दिरोऽनेकपे चन्द्रे वन्दारुरभिवादके ।वर्करः परिहासे स्याद्वर्वरः पामरेऽपि च ॥
27.3.154 · p. 279
अनुष्टुप्
वर्वरश्च मतः केशचक्रले नीवृदन्तरे ।फञ्जिकायां पुमाञ्छाकभेदपुष्पभिदोः स्त्रियाम् ॥
27.3.155 · p. 279
अनुष्टुप्
वटरः कुक्कुटे वस्त्रे शठे च वशिरः पुमान् ।किणिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः ॥
27.3.156 · p. 279
अनुष्टुप्
वत्सरो हायनेऽपि स्याद्वशिरः सशठे मतः ।वन्दनं गहनेऽरण्ये वभरो भ्रमरे मतः ? ॥
27.3.157 · p. 279
अनुष्टुप्
वरत्रा तु भवेत्कक्षा केकरे वलिरो मतः ।वार्द्दरः क्रिमिजातेऽम्बुदक्षिणावर्त्तशङ्खयोः ॥
27.3.158 · p. 279
अनुष्टुप्
वागरः स्याद्गतातङ्के मुमुक्षौ वातवेष्टके ।विशारदे विशाणेऽपि निर्णये वारकेऽपि च ॥
27.3.159 · p. 280
अनुष्टुप्
वागुरा मृगबन्धिन्यां वानरस्तु मतः कपौ ।वानीरो वृक्षभेदेऽपि व्याहारो लपिते मतः ॥
27.3.160 · p. 280
अनुष्टुप्
वासुरा वासितारात्र्योर्वासरो दिननागयोः ।वानरी तु लताभेदे तथा वानरयोषिति ॥
27.3.161 · p. 280
अनुष्टुप्
वातारिः स्यादुरुवुके वामोरुस्तु मता स्त्रियाम् ।वाशिरं लवणे प्रोक्तं विकारो विकृतौ रुजि ॥
27.3.162 · p. 280
अनुष्टुप्
विष्टरः कुशमुष्टौ स्यात्पादपे चासनेऽपि च ।विस्तरो वाक्प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च ॥
27.3.163 · p. 280
अनुष्टुप्
विदुरो नागरे धीरे कौरवाणां च मन्त्रिणि ।विदारी शालिपर्ण्यां स्याद्रोगभेदेक्षुगन्धयोः ॥
27.3.164 · p. 280
अनुष्टुप्
परिक्रमे विहारः स्याद्भ्रमणे सुगतालये ।विस्फारस्तु धनुःशब्दे विसरः प्रसरे व्रजे ॥
27.3.165 · p. 280
अनुष्टुप्
विवरं दूषणे गर्ते विदूरो दूरदेशगे ।विचारो व्योममार्गे स्याद्विचारः कार्यनिश्चये ॥
27.3.166 · p. 280
अनुष्टुप्
विस्तारस्तु मतो व्यासे विड्वरः स्यात्तु सूकरे ।विधुरं स्यात्प्रविश्लेषे विकले मृतयोषिति ॥
27.3.167 · p. 280
अनुष्टुप्
विकिरः स्यात्पिण्डभेदे विष्किरोऽपि पतत्रिणि ।विशारदे सप्रतिभे वैधात्रो ब्रह्मणः सुते ॥
27.3.168 · p. 280
अनुष्टुप्
शबरः स्यान्म्लेच्छदेशजात्योश्च सलिले शिवे ।शबरी तु स्त्रियां देव्यां शम्बरं सलिले मतम् ॥
27.3.169 · p. 281
अनुष्टुप्
शम्बरी चाखुपर्ण्यां स्याच्छम्बरो मृगदैत्ययोः ।शङ्करी छन्दसो भेदे नदीमेखलयोरपि ॥
27.3.170 · p. 281
अनुष्टुप्
शफरी तु द्वयोर्मीने शर्वरी यामिनीस्त्रियोः ।शर्करा चेक्षुविकृतावुपलाकर्परांशयोः ॥
27.3.171 · p. 281
अनुष्टुप्
रुग्भेदे शकलेऽपि स्याच्छङ्करश्चन्द्रशेखरे ।श्वशुरस्तु मतः पूज्ये तथा स्यात्स्त्रीपितर्यपि ॥
27.3.172 · p. 281
अनुष्टुप्
शतद्रुस्तु नदीभेदे श्वदंष्ट्रागोक्षुरेऽपि च ।शरारिराटौ क्लीबे तु शरीरं वर्श्मणि स्थितम् ॥
27.3.173 · p. 281
अनुष्टुप्
अल्पशम्यां शमीरः स्याच्छणीरं तु सुभिक्षके ।शाबरी शूकशिम्ब्यां स्यात्पुंसि पापापराधयोः ॥
27.3.174 · p. 281
अनुष्टुप्
लोध्रे च शाङ्करी पुंसि कार्तिकेये गणाधिपे ।शालूरः पद्मकन्दे स्याद्दुग्धफेने तु शार्करः ॥
27.3.175 · p. 281
अनुष्टुप्
शर्करान्वितदेशेऽपि तद्युतेऽन्ने नपुंसकम् ।शाङ्करस्तु बलीवर्दे छन्दोभेदे नपुंसकम् ॥
27.3.176 · p. 281
अनुष्टुप्
शार्वरं स्यादन्धकारे शारीरं देहजे वृषे ।शार्वरं रात्रिसम्बद्धे घातुके भेद्यलिङ्गकम् ॥
27.3.177 · p. 281
अनुष्टुप्
शिखरोऽस्त्री द्रुम्राग्रे चाद्रिशृङ्गपुलकाग्रयोः ।पक्वदाडिमबीजाभमाणिक्ये शिखरं मतम् ॥
27.3.178 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रु (wrong syllable)
शिखरी स्यादपामार्गे शैलपादपयोः पुमान् ।शिशिरस्तु ऋतौ देशे जडे तु स्यात्त्रिलिङ्गकः ॥
27.3.179 · p. 282
अनुष्टुप्
शिलीन्ध्रं कदलीपुष्पे कवके ना झषान्तरे ।त्रिपुटे स्त्री तु विहगीभेदे गण्डूपदीमृदोः ॥
27.3.180 · p. 282
अनुष्टुप्
शीकरं शरले वातसृताम्बुकणयोः पुमान् ।शिबिरं सैन्यवसतौ शितद्रुस्तु नदीभिदि ॥
27.3.181 · p. 282
अनुष्टुप्
वंशादिवाद्ये शुषिरं विवरेऽपि नपुंसकम् ।शुषिरो न स्त्रियामाखौ वह्नौ रन्ध्रान्विते त्रिषु ॥
27.3.182 · p. 282
अनुष्टुप्
शृङ्गारः सुरते नाट्यरसे च गजमण्डने ।शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥
27.3.183 · p. 282
अनुष्टुप्
शृङ्गारी पूगगजयोः सशृङ्गारसुवेषयोः ।संस्कारः प्रतियत्नेऽनुभवसङ्कल्पयोरपि ॥
27.3.184 · p. 282
अनुष्टुप्
संस्तरः प्रस्तरे यज्ञे सङ्गरो युधि चापदि ।शमीफले क्रियाकारे विषाङ्गीकारयोस्तथा ॥
27.3.185 · p. 282
अनुष्टुप्
सम्भारः सम्भृतौ सङ्घे सगरो राजभिद्यपि ।सङ्करोऽवकरे चापि सङ्कीर्णेऽपि निगद्यते ॥
27.3.186 · p. 282
अनुष्टुप्
समरः संयुगे चाथ सन्तापे सञ्ज्वरो मतः ।समीरः स्यात्तु पवने समुद्रस्तु सरित्पतौ ॥
27.3.187 · p. 282
अनुष्टुप्
सत्वरस्त्वरया युक्ते समग्रं बहुलेऽन्यवत् ।संहारः स्याच्च संवर्ते स्थविरः स्याज्जरायुजि ॥
27.3.188 · p. 282
अनुष्टुप्
संवरो मृगभेदे स्यात्सागरश्च सरित्पतौ ।स्थाविरं वार्धके प्रोक्तं सामुद्रं देहलक्षणे ॥
27.3.189 · p. 283
अनुष्टुप्
समुद्रजेऽन्यलिङ्गं स्यात्सावित्रः शङ्करे वसौ ।यमे शनैश्चरे चापि सावित्री ब्रह्मयोषिति ॥
27.3.190 · p. 283
अनुष्टुप्
सावित्री सत्यवत्पत्न्यां त्रिपदायामपीष्यते ।सान्तरं दूरशून्योः स्यात्सादरश्चादरान्विते ॥
27.3.191 · p. 283
अनुष्टुप्
साकारो गुणवन्मूर्तौ त्रिलिङ्गः समुदीरितः ।सिन्दूरो दैत्यभेदे स्यात्सिन्दूरं रक्तचूर्णके ॥
27.3.192 · p. 283
अनुष्टुप्
सिन्दूरी रोचनारक्तचेलिकाधातकीष्वपि ।सिताभ्रः स्यात्तु कर्पूरे सुन्दरं तु मनोहरे ॥
27.3.193 · p. 283
अनुष्टुप्
सुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः ।सुन्दरी तरुभिन्नारीदेवताभिद्यपीष्यते ॥
27.3.194 · p. 283
अनुष्टुप्
सुमेरुः स्याद्रत्नसानौ सुहोत्रो मुनिभिद्यपि ।सुषिरं विवरे चापि पातालेऽपि नपुंसकम् ॥
27.3.195 · p. 283
अनुष्टुप्
सुषिरा विद्रुमलता सूकरः स्यात्तु पोत्रिणि ।सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥
27.3.196 · p. 283
अनुष्टुप्
वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ।सौवीरं काञ्जीके स्रोतोऽञ्जने च बदरीफले ॥
27.3.197 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्जी (wrong syllable)
लवणे चापि देशे तु सौवीरो गदितः क्वचित् ।हारिद्रं हेम्नि वृक्षे ना पक्षिभेदेऽप्यथ त्रिषु ॥
27.3.198 · p. 283
अनुष्टुप्
हरिद्रा रञ्जितेऽपि स्याद्धिमाद्रिस्तु सुरालये ।हिण्डीरो दाडिमेऽपि स्यात् (फेनवार्ताकुपुरुषे) ॥
27.3.199 · p. 284
अनुष्टुप्metre not read in every line