All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
यान्तवर्गः · यतृतीयम्
॥ इति यद्वितीयम् ॥
॥ अथ यतृतीयम् ॥
अव्ययो निर्व्यये विष्णावव्ययं शब्दभिद्यपि ।अभयं स्यादुशीरे तु हरीतक्यभया मता ॥
26.3.1 · p. 241
अनुष्टुप्
अभया स्यात्तथा गौर्यां निर्भये त्वन्यलिङ्गकः ।स्यादगस्त्यः कुम्भयोनौ वङ्गसेनतरावपि ॥
26.3.2 · p. 241
अनुष्टुप्
अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपि ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥
26.3.3 · p. 241
अनुष्टुप्
अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः ।अश्वीयमश्वसङ्घाते मतमश्वहितेऽन्यवत् ॥
26.3.5 · p. 241
अनुष्टुप्
अहार्यः पर्वते हर्त्तुमयोग्येऽपि च वाच्यवत् ।अधृष्यस्तु प्रगल्भे स्यादधृष्या तटिनीभिदि ॥
26.3.6 · p. 241
अनुष्टुप्
अपत्यं सन्ततौ क्लीबममात्यः स्यात्तु मन्त्रिणि ।अमात्यमपि चाहुस्तमादित्यो रविदेवयोः ॥
26.3.7 · p. 242
अनुष्टुप्
आम्नायो निगमे चोपदेशे स्यादतिथौ पुनः ।आतिथ्यश्चातिथ्यर्थे स्यादातिथ्यं वाच्यलिङ्गकम् ॥
26.3.8 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
आशयः स्यादभिप्राये स्थानमात्रे तथाऽऽश्रये ।आत्रेयी स्यात्पुष्पवत्यां नदीभेदे मुनौ तु ना ॥
26.3.9 · p. 242
अनुष्टुप्
इन्द्रियं तु हृषीके स्यादिन्द्रियं चेतसि स्मृतम् ।उपायः स्यादुपगतौ सामादौ च निगद्यते ॥
26.3.10 · p. 242
अनुष्टुप्
ऊर्णायुः क्षणभङ्गे स्यान्मेढ्रकम्बलमेषयोः ।ऐश्वर्यं त्वणिमादौ स्याद्भाग्ये चैश्वर्यमीरितम् ॥
26.3.11 · p. 242
अनुष्टुप्
औचित्यमुचितत्वे स्यात्सत्येऽप्यौचित्यमीरितम् ।कषायो रसभेदे च निर्यासे च विलेपने ॥
26.3.12 · p. 242
अनुष्टुप्
अङ्गरागे च न स्त्री स्यात्सुरभौ लोहितेऽपि च ।कालेयः स्याद्दैत्यभेदे कालेयं कालखण्डके ॥
26.3.13 · p. 242
अनुष्टुप्
कार्पण्यं तु मतं दैन्ये कुलायः स्थाननीडयोः ।गवयः पशुभेदे स्यात्तथा वानरभिद्यपि ॥
26.3.14 · p. 242
अनुष्टुप्
गाङ्गेयस्तु मतो भीष्मे क्लीबं स्वर्णकशेरुणोः ।ग्रैवेयं तु मतं ग्रीवाऽलङ्कारादौ स्ववाच्यवत् ॥
26.3.15 · p. 242
अनुष्टुप्
चक्षुष्यः केतकीवृक्षे पुण्डरीके रसाञ्जने ।कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत् ॥
26.3.16 · p. 242
अनुष्टुप्
चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेसरे ।जघन्यं चरमे क्लीबं मेहने गर्हितेऽपि च ॥
26.3.17 · p. 243
अनुष्टुप्
जटायुर्गुग्गुले पुंसि सम्पाते च कनीयसि ।जरायुरपि तत्पक्षिराजे गर्भाशयेऽपि च ॥
26.3.18 · p. 243
अनुष्टुप्
तपस्यः फाल्गुने मासि तपस्या नियमस्थितौ ।देवयुर्धार्मिके ख्यातो देवयुर्लोकयात्रिके ॥
26.3.19 · p. 243
अनुष्टुप्
नादेयी नागरङ्गे स्याज्जयायां जलवेतसे ।भूमिजम्ब्वां च तर्कार्यां व्यङ्गुष्ठेऽपि समीक्ष्यते ॥
26.3.20 · p. 243
अनुष्टुप्
निकायो निलये लक्ष्ये संहतानां समुच्चये ।एकार्थभाजिनि व्यूहे परमात्मनि चेष्यते ॥
26.3.21 · p. 243
अनुष्टुप्
निर्दयो निर्घृणे क्रूरे नेपथ्यं स्यात्प्रसाधने ।नेपथ्यं रङ्गभूमौ च नाट्योक्तौ परिकीर्त्यते ॥
26.3.22 · p. 243
अनुष्टुप्
प्रणयः प्रेम्णि विस्रम्भे याच्ञाप्रसरयोरपि ।विनये प्रलयो मृत्यौ मूर्च्छाकल्पान्तयोरपि ॥
26.3.23 · p. 243
अनुष्टुप्
प्रत्ययः शपथे रन्ध्रे सन्नादिज्ञानयोरपि ।आचारे प्रथितत्वेऽपि विश्वासाधीनहेतुषु ॥
26.3.24 · p. 243
अनुष्टुप्
पर्जन्यः स्यान्मेघशब्दे ध्वनदम्बुदशक्रयोः ।प्रसव्यं स्याद्वाच्यलिङ्गं प्रतिकूलानुकूलयोः ॥
26.3.25 · p. 243
अनुष्टुप्
प्रकीर्यः पूतिकरजे विप्रकीर्णे तु वाच्यवत् ।प्रणाय्योऽसम्मतेऽपि स्यादभिलाषविवर्जिते ॥
26.3.26 · p. 243
अनुष्टुप्
पयस्या क्षीरकाकोल्यां पयोहितभवेऽन्यवत् ।पयस्या दुग्धिकायां स्यात्स्वर्णक्षीर्यां च कथ्यते ॥
26.3.27 · p. 244
अनुष्टुप्
प्रतीक्ष्यस्तु भवेत्पूज्ये लक्ष्ये ज्येष्ठे च राजनि ।पारुष्यो गीष्पतौ क्लीबे दुर्वाक्यपरुषत्वयोः ॥
26.3.28 · p. 244
अनुष्टुप्
पानीयं तु जले क्लीबं पातव्ये वाच्यलिङ्गवत् ।पुलस्त्यो मुनिभेदे स्यात्पौलस्त्यस्तु विभीषणे ॥
26.3.29 · p. 244
अनुष्टुप्
दशग्रीवे कुबेरे च पौलस्त्यः कुम्भकर्णके ।वलयः कण्ठरोगे स्यात्क्लीबं स्यात्करभूषणे ॥
26.3.30 · p. 244
अनुष्टुप्
ब्रह्मण्यः स्याद्ब्रह्मसाधुब्रह्मदारुशनैश्चरे ।ब्राह्मण्यं ब्राह्मणत्वे स्याद्ब्राह्मणानां च संहतौ ॥
26.3.31 · p. 244
अनुष्टुप्
बालेयः स्याद्गर्दभेऽपि मृदौ बालहिते त्रिषु ।भुवन्युः पुंसि भानौ स्याच्चन्द्रे च ज्चलनेऽपि च ॥
26.3.32 · p. 244
अनुष्टुप्
भुजिष्या गणिकादास्योः सूत्रहस्तकदासयोः ।स्वतन्त्रेऽपि भुजिष्यः स्यान्मलयः पर्वतान्तरे ॥
26.3.33 · p. 244
अनुष्टुप्
शैलांशे देश आरामे त्रिवृतायामपि स्त्रियाम् ।मङ्गल्या स्यादधःपुष्पीमिसीशुल्कवचास्वपि ॥
26.3.34 · p. 244
अनुष्टुप्
त्रायमाणाऽश्वत्थबिल्वशमीमसूरकेष्वपि ।रोचनायामथो दध्नि क्लीबं मङ्गलकारिणि ॥
26.3.35 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
मृगयुस्तु भवेद्व्याधे गोमायौ परमेष्ठिनि ।म्लेच्छास्यं गदितं ताम्रे यथा रक्तमुदुम्बरे ॥
26.3.36 · p. 244
अनुष्टुप्
रहस्यं गोपनीये स्याद्रहस्या स्त्री नदीभिदि ।लौहित्यः स्यान्नदभिदि लौहित्यं लोहितत्ववत् ॥
26.3.37 · p. 245
अनुष्टुप्
वदान्यः स्याच्चाटुशब्दे दानशौण्डेऽपि कीर्तितः ।व्यवायः सुरतेऽन्तर्धौ पुंसि क्लीबं तु तेजसि ॥
26.3.38 · p. 245
अनुष्टुप्
वक्तव्यं वचनार्हे स्यात् हीनकुत्सितयोरपि ।विजयस्तु जये पार्थे विजया च तिथौ क्वचित् ॥
26.3.39 · p. 245
अनुष्टुप्
विस्मयस्तु रसाश्चर्यमदेषु च तथा पुनः ।विशल्या त्रिपुटादन्तीगुडूच्यग्निशिखासु च ॥
26.3.40 · p. 245
अनुष्टुप्
विनया तु बलायां स्याच्छिक्षायां प्रणतावपि ।विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च ॥
26.3.41 · p. 245
अनुष्टुप्
गोचरे च प्रबन्धाद्यो यस्य ज्ञातः स तत्र वै ।विषयी विषयासक्ते वाच्यवत्क्लीबमिन्द्रिये ॥
26.3.42 · p. 245
अनुष्टुप्
पुंसि स्यान्नृपतौ कामदेवे वैषयिकेऽपि च ।श्वशूर्यो देवरे श्याले मालूरे मुनिभिद्यपि ॥
26.3.43 · p. 245
अनुष्टुप्
शालेयः शतपुष्पायां क्षेत्रे शाल्युद्भवेऽपि च ।शीर्षण्यस्तु सुकेशे स्यात्तथाक्लीबं तु शीर्षके ॥
26.3.44 · p. 245
अनुष्टुप्
शैलेयं सिन्धुलवणे तालपर्ण्यां च शैलजे ।शिलातुल्ये च मधुपे संस्त्यायः सन्निवेशने ॥
26.3.45 · p. 245
अनुष्टुप्
विस्तृतावपि संस्थाने संस्त्यायः परिपठ्यते ।सन्नायः समवायेऽपि पृष्ठस्थायिबले पुमान् ॥
26.3.46 · p. 246
अनुष्टुप्
समयः शपथाचारसिद्धान्तेषु तथा धियि ।सङ्केते च क्रियाकारे निर्द्देशे कालभाषयोः ॥
26.3.47 · p. 246
अनुष्टुप्
सरण्युर्वारिवाहेऽपि स्यात्तथा पवनेऽपि च ।शक्तौ च योग्यतायां च सामर्थ्यं चाभिधीयते ॥
26.3.48 · p. 246
अनुष्टुप्
सौरभ्यमाहुः सौगन्ध्ये चारुत्वे गुणगौरवे ।सौकर्यं स्यादनायासे क्रियायां सूकरस्य च ॥
26.3.49 · p. 246
अनुष्टुप्
हिरण्यं रेतसि द्रव्ये मानभेदेऽक्षयेऽपि च ।तथाऽकुप्ये शातकुम्भे वराटेऽपि निगद्यते ॥
26.3.50 · p. 246
अनुष्टुप्
हृदयं मानसे बुक्कोरसोरपि नपुंसकम् ।क्षत्रियो बाहुजेऽपि स्यात्तथा भूमीपतावपि ॥
26.3.51 · p. 246
अनुष्टुप्
क्षिपण्युः सुरभौ देहे क्षेत्रियं क्षेत्रसम्भवे ।
26.3.52 · p. 246