All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
नान्तवर्गः · नतृतीयम्
॥ इति नद्वितीयम् ॥
॥ अथ नतृतीयम् ॥
अवनं रक्षणे प्रीतावपानो गुदमारुते ।अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ॥
20.3.1 · p. 190
अनुष्टुप्
अञ्जना वानरीभेदेऽप्यञ्जनो दिग्गजे मतः ।अञ्जनी लेप्यनार्यां चाप्यथ स्यादयनं पथि ॥
20.3.2 · p. 190
अनुष्टुप्
अङ्गनं प्राङ्गणे याने कामिन्यामपि चाङ्गना ।अङ्कनं चिह्नकरणेऽप्यधुना साम्प्रतं मतम् ॥
20.3.4 · p. 190
अनुष्टुप्
अर्जुनः ककुभे पार्थे कार्त्तवीर्यमयूरयोः ।मातुरेकसुते चापि धवले स्यात्तुवाच्यवत् ॥
20.3.5 · p. 190
अनुष्टुप्
नेत्ररोगे तृणे क्लीबं गवि स्यात्त्वर्जुनी स्त्रियाम् ।कुट्टन्यां बाहुदानद्यामुषायामपि योषिति ॥
20.3.6 · p. 190
अनुष्टुप्
महासहायामम्लानो निर्मलेऽपि च वाच्यवत् ।अर्शोघ्नी तालमूल्यां स्त्री त्वर्शोघ्नः सूरणे पुमान् ॥
20.3.7 · p. 190
अनुष्टुप्
असिक्नी स्यादवृद्धान्तःपुरप्रेष्यानदीभिदोः ।अशनिस्तु पुमान् खड्गे चञ्चलायां च योषिति ॥
20.3.8 · p. 190
अनुष्टुप्
अरत्निर्ना सप्रकोष्ठतताङ्गुलिकरेऽपि च ।कफोणावजिनं चर्ममात्रेऽपि च नपुंसकम् ॥
20.3.9 · p. 190
अनुष्टुप्
अटनी धनुषः कोटावंशुमान्द्युमणावपि ।आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने ॥
20.3.10 · p. 191
अनुष्टुप्
आसनी विपणौ स्थित्यामासनो ना द्रुजीवके ।आपन्नः प्राप्तविपदि प्राप्ते चाप्यन्यलिङ्गकः ॥
20.3.11 · p. 191
अनुष्टुप्
आदानं ग्रहणेऽपि स्यादलङ्कारेऽपि वाजिनः ।आध्यानमुदरापूरे त्वालानं गजबन्धने ॥
20.3.12 · p. 191
अनुष्टुप्
आकारणे स्यादाह्वानं स्पर्द्धयाऽऽकारणेऽपि च ।आयुष्मान्योगभेदे स्याच्चिरजीविनि वाच्यवत् ॥
20.3.13 · p. 191
अनुष्टुप्
उत्तानमगभीरे स्यादूर्ध्वास्यशयितेऽपि च ।उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे ॥
20.3.14 · p. 191
अनुष्टुप्
उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ।उदानस्तूदरावर्ते वायुभेदे भुजङ्गमे ॥
20.3.15 · p. 191
अनुष्टुप्
उद्धानमुद्गते चुल्यामुच्छूनं स्यात्प्रफुल्लिते ।ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम् ॥
20.3.16 · p. 191
अनुष्टुप्
कमनः कामुकेऽनङ्गेऽभिरूपेऽशोकपादपे ।कम्पनः पवने कम्पे कम्प्रे स्यादभिधेयवत् ॥
20.3.17 · p. 191
अनुष्टुप्
कठिनं निष्ठुरे स्थाल्यां स्तब्धेऽपि त्रिषु वाच्यवत् ।कठिनी खटिकायां स्यात्कठिना शर्कराभिदि ॥
20.3.18 · p. 191
अनुष्टुप्
क्रन्दनं रोदनेऽपि स्यादाह्वानेऽपि नपुंसकम् ।कर्त्तनं न द्वयोश्च्छेदे नारीणां सूत्रनिर्मितौ ॥
20.3.19 · p. 192
अनुष्टुप्
कदनं मर्दने पापेऽप्यथ स्यात्कल्पना स्त्रियाम् ।करिणः सज्जतायां स्त्री क्लीबं क्लृप्तौ च कल्पने ॥
20.3.20 · p. 192
अनुष्टुप्
काञ्चनश्चम्पके नागकेसरे मातुलद्रुमे ।काञ्चनारोदुम्बरयोर्हरिद्रायां च काञ्चनी ॥
20.3.21 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable)
क्लीबेऽब्जकेसरे हेम्नि कामिनी भीरुवन्दयोः ।कानीनः कन्यकाजाततनये व्यासकर्णयोः ॥
20.3.22 · p. 192
अनुष्टुप्
कुन्नानं स्यात्काचपात्रे तथा मृद्भाजनान्तरे ।कुहना दम्भचर्यायामीर्ष्यालौ कुहनो मतः ॥
20.3.24 · p. 192
अनुष्टुप्
केतनं तु गृहे केतौ कृत्ये चापि निमन्त्रणे ।कौलीनं पक्षिणां युद्धे कौलीनं गुह्यजन्ययोः ॥
20.3.25 · p. 192
अनुष्टुप्
कुकर्मणि कुलीनत्वे कौपीनं चीरगुह्ययोः ।कौपीनं स्यादकार्येऽपि खलिनी खलमेलके ॥
20.3.26 · p. 192
अनुष्टुप्
स्त्रियां स्यादपि सर्षप्यां गतौ स्यादपि खञ्जनम् ।गर्जनं निनदे कोपे गहनं कलिले वने ॥
20.3.28 · p. 192
अनुष्टुप्
तथैव गह्वरे दुःखेऽप्यथोत्साहे प्रकाशने ।सूचनेऽपि च हिंसायां गन्धनं समुदाहृतम् ॥
20.3.29 · p. 193
अनुष्टुप्
ग्रामीणो ग्रामसम्भूते ग्रामीणः शुनि वायसे ।गृञ्जनं विषसम्पृक्तपशुमांसे रसोनके ॥
20.3.30 · p. 193
अनुष्टुप्
गोस्तनो हारभेदे स्यात्तथा धेनुपयोधरे ।द्राक्षायां तु स्त्रियां क्लीबे गोपनं स्यादपवे ॥
20.3.31 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घट्टना चलनाऽऽवृत्योश्चन्दनं मलयोद्भवे ।चन्दना कालिभेदे स्याच्चन्दना तु नदीभिदि ॥
20.3.32 · p. 193
अनुष्टुप्
चलनं भ्रमणे कम्पे कम्प्रे स्याद्वाच्यलिङ्गकम् ।चलनी वस्त्रघर्घर्यां वारिभेदेऽपि च क्वचित् ॥
20.3.33 · p. 193
अनुष्टुप्
चालनी तितउः प्रोक्ता चिह्ननं चिह्ननिर्मितौ ।चेतनो वाच्यवत्प्राणिजीवयोः संविदि स्त्रियाम् ॥
20.3.34 · p. 193
अनुष्टुप्
छदनं छादने पक्षे पिधाने छेदनं छिदि ।छर्दनं वमने क्लीबं निम्बालम्बुषयोः पुमान् ॥
20.3.35 · p. 193
अनुष्टुप्
जवनं तु स्यदे वेगे हये स्याद्वेगवत्यपि ।जननी स्याद्दयामात्रोर्जननं वंशजन्मनोः ॥
20.3.36 · p. 193
अनुष्टुप्
जयनं तु तुरङ्गादिसन्नाहे विजयेऽपि च ।जघनं स्यात्स्त्रियाः श्रोणिपुरोभागे कटावपि ॥
20.3.37 · p. 193
अनुष्टुप्
जटिनी पिप्पलीमांस्योर्जटिनी योगिनीभिदि ।जाङ्गलं वातबहुलप्रदेशे निर्जनेऽपि च ॥
20.3.38 · p. 193
अनुष्टुप्
जीवनं वर्तने नीरे जीवन्त्यां जीवनी स्त्रियाम् ।जीवना स्यात्तु मेदायां तटिनी सिन्धुयोषिति ॥
20.3.39 · p. 194
अनुष्टुप्
तपनो निरयेऽपि स्याद्भास्करेऽरुष्करेऽपि च ।तलुनः पवने यूनि युवत्यां तलुनी मता ॥
20.3.40 · p. 194
अनुष्टुप्
पृष्ठवंशस्य यन्मांसं तल्पनं तत्प्रचक्षते ।तथैव गदितं सद्भिस्तद्दिनं प्रतिवासरे ॥
20.3.41 · p. 194
अनुष्टुप्
तलिनं विरले स्तोके वाच्यवत्स्वच्छवस्तुनि ।तमोघ्नो बुद्धवह्न्यर्कव्योमकेशाच्युतेष्वपि ॥
20.3.42 · p. 194
अनुष्टुप्
तेमनं त्वार्द्रीकरणे व्यञ्जनेऽपि निगद्यते ।तोदनं व्यथने तोत्रे दंशनं दंशवर्मणोः ॥
20.3.43 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्द्री (wrong syllable)
दर्शनं दर्पणे शास्त्रे बुद्धिधर्मोपलब्धिषु ।दर्शनं नयने स्वप्ने दमन ऋषिभूपयोः ॥
20.3.44 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
दृशानं ज्योतिषि क्लीबं दृशानस्तु विरोचने ।दुर्दिनं तु घनच्छन्ने चिन्ताव्याप्ते तु दुर्दिनः ॥
20.3.46 · p. 194
अनुष्टुप्
देवनं व्यवहारे स्यादक्षक्रीडाजिगीषयोः ।देवनोऽक्षेषु कुशले धमनो जातवेदसि ॥
20.3.47 · p. 194
अनुष्टुप्
धमनस्तु भवेद्भस्त्राध्मापकक्रूरयोस्त्रिषु ।धमनः स्याद्वातुलेऽपि भस्त्रायां धमनी मता ॥
20.3.48 · p. 194
अनुष्टुप्
धमनी तु शिराहट्टविलासिन्योश्च योषिति ।धावनं क्षालने शीघ्रगमने धावनी पुनः ॥
20.3.49 · p. 195
अनुष्टुप्
पृश्निपर्ण्यां धावनस्तु रजके संप्रकीर्तितः ।नन्दनं वासवोद्याने नन्दनो हर्षके सुते ॥
20.3.50 · p. 195
अनुष्टुप्
नन्दिन्युमागङ्गयोश्च सौरभेय्यां च योषिति ।नलिनी पद्मिनीव्योमगङ्गापद्माकरेष्वपि ॥
20.3.51 · p. 195
अनुष्टुप्
नपुंसकं नीलिकायां न पुंसि सरसीरुहे ।निदानं कारणे वत्सदामादिकारणक्षये ॥
20.3.52 · p. 195
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 दि (wrong syllable)
निधनं तु कुले नाशे प्रधनं दारुणे रणे ।पवनं कुम्भकारस्य पाकस्थाने निगद्यते ॥
20.3.53 · p. 195
अनुष्टुप्
निष्पावमरुतोः पुंसि प्रज्ञानं बुद्धिचिह्नयोः ।प्रधानं तु महामात्रे प्रकृतौ परमात्मनि ॥
20.3.54 · p. 195
अनुष्टुप्
प्रज्ञायां च तथैकत्वे प्रधानं स्यात्तथोत्तमे ।पद्मिनी बिसिनीवाप्योः पद्मसङ्घे च योषिति ॥
20.3.55 · p. 195
अनुष्टुप्
प्रसन्ना तु सुरायां स्यात्प्रसन्नं त्वच्छतुष्टयोः ।प्रसूनो वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥
20.3.56 · p. 195
अनुष्टुप्
पवनः स्याद्गन्धवहे पवनस्तृणभिद्यजे ।पाठीनः स्यान्मीनभेदे पाठके च द्रुमान्तरे ॥
20.3.57 · p. 195
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
पावनं तु जले कृच्छ्रे स्याद्व्यासे पावकेऽपि च ।पाचनं दशमूल्यादौ प्रायश्चित्ते च नाऽनले ॥
20.3.58 · p. 196
अनुष्टुप्
वाच्यवत्पाचयितरि हरीतक्यां च योषिति ।पिशुनस्तूच्यते क्रूरे काके ना सूचकेऽपि च ॥
20.3.59 · p. 196
अनुष्टुप्
कपिवक्त्रे कुङ्कुमे च क्लीबं स्पृक्कौषधौ स्त्रियाम् ।पीतनं हरिताले च पीतदारुणि कुङ्कुमे ॥
20.3.60 · p. 196
अनुष्टुप्
पूतना तु हरीतक्यां ग्रहभिद्रोगभेदयोः ।पृतना तु भवेत्सेनाविशेषे सैन्यमात्रके ॥
20.3.61 · p. 196
अनुष्टुप्
फलिन्यग्निशिखायां स्यात्फल्यां स्त्री फलिते त्रिषु ।फाल्गुनस्तु गुडाकेशे मासे चार्जुनभूरुहे ॥
20.3.62 · p. 196
अनुष्टुप्
पूर्णिमायां फाल्गुनस्य फाल्गुनीत्यभिधीयते ।बन्धनं तु वधे बन्धे बुधानो गुरुविज्ञयोः ॥
20.3.63 · p. 196
अनुष्टुप्
बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने ।बोधिनी पूर्णमास्यां तु कार्तिक्यां परिकीर्तिता ॥
20.3.64 · p. 196
अनुष्टुप्
भवनं स्याद्गृहे भावे भण्डनं कवचे रणे ।भट्टिनी द्विजभार्यायां नाट्योक्तौ राजयोषिति ॥
20.3.65 · p. 196
अनुष्टुप्
भर्जनं स्यात्पाकभेदे भाजनं योग्यपात्रयोः ।भावना तु न ना ध्याने पर्यालोचेऽधिवासने ॥
20.3.66 · p. 196
अनुष्टुप्
भुवनं सलिले व्योम्नि भुवनं विष्टपे जने ।विहाय पट्टमहिषीं भोगिनी राजयोषिति ॥
20.3.67 · p. 196
अनुष्टुप्
मदनस्तरुभेदे स्याद्वसन्तस्मरसिक्थके ।मलनः पठवासे स्यान्मलनं मर्दने मतम् ॥
20.3.68 · p. 197
अनुष्टुप्
मलिनी त्वृतुमत्यां स्यात्समलेऽपि तु वाच्यवत् ।मण्डनं भूषणे क्लीबमलङ्करिष्णुनि त्रिषु ॥
20.3.69 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
मन्थनी मन्थनद्रव्ये मन्थनं लवलोडने ।मार्जनो लोध्रवृक्षे स्यादपि मार्ष्टौ मतं त्रिषु ॥
20.3.70 · p. 197
अनुष्टुप्
मालिनी मातृकावृत्तभिदोर्मालिकयोषिति ।गौरीचम्पानगर्योश्च नदीभेदे च ऋग्भिदि ॥
20.3.71 · p. 197
अनुष्टुप्
मानिनी स्यान्मानवत्यां फल्यामपि च योषिति ।मिथुनं राशिभेदे स्यात्तथा स्त्रीपुंसयुग्मयोः ॥
20.3.72 · p. 197
अनुष्टुप्
मुण्डनं वपने त्राणे मेहनं मूत्रशिश्नयोः ।मैथुनं स्यात्कामयुद्धे सङ्गतेऽपि नपुंसकम् ॥
20.3.73 · p. 197
अनुष्टुप्
यमनस्तु यमे चोपरतौ बन्धे नपुंसकम् ।यवनो जातिभेदे स्याद्यभनं मैथुने स्मृतम् ॥
20.3.74 · p. 197
अनुष्टुप्
युञ्जानः सारथौ विप्रे चतुष्क्रोश्यां तु योजनम् ।परमात्मनि योगे च रसनं स्वदने ध्वनौ ॥
20.3.76 · p. 197
अनुष्टुप्
जिह्वायामपि रास्नायां रसना रशना पुनः ।मेखलायां तथा रज्जौ रञ्जनो रागरञ्जने ॥
20.3.77 · p. 198
अनुष्टुप्
कुचन्दने च मञ्जिष्ठानीलीरोचनिकासु च ।स्त्रियां तु रजनी लाक्षाहरिद्रानीलीरात्रिषु ॥
20.3.78 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ली (wrong syllable)
राधनं साधने प्राप्तौ राधना भाषणे स्त्रियाम् ।रेचनी त्रिवृतादन्त्यो रोचनी कर्कशे मता ॥
20.3.79 · p. 198
अनुष्टुप्
रोचना रक्तकल्हारे गोपित्तवरयोषितोः ।रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचने त्रिषु ॥
20.3.80 · p. 198
अनुष्टुप्
रोदनं क्रन्दनेऽस्रेऽपि दुरालम्भौषधौ स्त्रियाम् ।लङ्घनं तूपवासे स्यात्क्रमणे प्लवनेऽपि च ॥
20.3.81 · p. 198
अनुष्टुप्
ललना कामिनीजिह्वायोषिद्भेदेऽपि योषिति ।लाञ्छनं नाम्नि चिन्हे च कलङ्केऽपि निगद्यते ॥
20.3.82 · p. 198
अनुष्टुप्
लापनं बीजवापे स्याल्लालनं क्रीडने मतम् ।लेखनं तु लिपिन्यासे भूर्जेऽपि छर्दनेऽर्द्दने ॥
20.3.83 · p. 198
अनुष्टुप्
वसनं छादने वस्त्रे व्यञ्जनं तेमनेऽपि च ।चिह्ने श्मश्रुण्यवयवे वमनं छर्दनेऽर्दने ॥
20.3.84 · p. 198
अनुष्टुप्
वर्द्धनं वृद्धिवर्द्धिष्णुच्छेदे घट्यां तु वर्द्धिनी ।वर्द्धिनी वारिधान्यां च सम्मार्जन्यां प्रकीर्तिता ॥
20.3.85 · p. 198
अनुष्टुप्
व्यसनं त्वशुभे सक्तौ विपत्तौ निष्फलोद्यमे ।दैवानिष्टफले चापि वर्तनो वामने मतः ॥
20.3.86 · p. 198
अनुष्टुप्
न पुंसि तूलनालायां वृत्तौ स्त्री पेषणाध्वनोः ।वर्त्तिष्णौ त्रिषु निर्दिष्टस्तर्कुपिण्डे च जीवने ॥
20.3.87 · p. 199
अनुष्टुप्
वचक्नुस्तु पुमान्विप्रे वावदूकेऽभिधेयवत् ।वामनस्तु हरौ खर्वे नीचे दिग्वारणेऽपि च ॥
20.3.88 · p. 199
अनुष्टुप्
तथैवाङ्कोटवृक्षेऽपि वासनं धूपनेऽपि च ।वारिधान्यां च वस्त्रे च प्रत्याशाज्ञानयोः स्त्रियाम् ॥
20.3.89 · p. 199
अनुष्टुप्
वितुन्नं सुनिषण्णे च शैवालेऽपि नपुंसकम् ।विज्ञानं कार्मणे ज्ञाने प्रज्ञाने लाञ्छनेधिपि ? ॥
20.3.90 · p. 199
अनुष्टुप्
मानहीने वाच्यलिङ्गो विमानः पुंनपुंसकम् ।व्योमयाने विमानं च सार्वभौमगृहेऽपि च ॥
20.3.91 · p. 199
अनुष्टुप्
घोटके यानमात्रे च पुंनपुंसकयोर्मतः ।वितानो यज्ञ उल्लोचे विस्तारे पुंनपुंसकम् ॥
20.3.92 · p. 199
अनुष्टुप्
क्लीबं वृत्तविशेषे स्यात्त्रिलिङ्गो मन्दतुच्छयोः ।विक्लिन्नो जरया जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥
20.3.93 · p. 199
अनुष्टुप्
विपन्नं विपदाक्रान्ते त्रिषु पुंसि भुजङ्गमे ।विच्छिन्नं तु समालब्धे विभक्तेऽप्यभिधीयते ॥
20.3.94 · p. 199
अनुष्टुप्
विलग्नं तु स्त्रिया मध्ये लग्नमात्रे भवेत्त्रिषु ।विषघ्नस्तु शिरीषे स्याद्गुडूचीत्रिवृतोः स्त्रियाम् ॥
20.3.95 · p. 199
अनुष्टुप्
स्वातन्त्र्यकृत्ये व्युत्थानं विरोधाचरणेऽपि च ।वृजिनं कलुषे केशे कल्मषे कुटिलेऽपि च ॥
20.3.96 · p. 199
अनुष्टुप्
वेदना तु स्त्रियां ज्ञानदुःखयोर्वेष्टनं पुनः ।उष्णीषे मुकुटे व्योम्नि वृतौ च व्योमचारणि ॥
20.3.97 · p. 200
अनुष्टुप्
वेष्टनी भक्ष्यभेदेऽपि भास्करस्यार्चनाश्रये ।शकुनिः सौबले पुंसि विहगे करणान्तरे ॥
20.3.98 · p. 200
अनुष्टुप्
शयनं तु मतं स्वापशय्ययोः सुरतेऽपि च ।शमनः स्याद्यमे शान्तिवधयोस्तु नपुंसकम् ॥
20.3.99 · p. 200
अनुष्टुप्
श्वसनः श्वसिते पुंसि समीरे मदनद्रुमे ।शकुनः पक्षिमात्रेऽपि विशेषे च शुभंवदे ॥
20.3.100 · p. 200
अनुष्टुप्
शङ्खिनी स्यात्कृता?नारीविशेषे शङ्किनी पुनः ।शङ्कावत्यां शन्तनुस्तु भूपभेदे पुमान्मतः ॥
20.3.101 · p. 200
अनुष्टुप्
शतघ्नी हेतिभेदे स्याद्वृश्चिकाल्यां करञ्जके ।शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु ॥
20.3.102 · p. 200
अनुष्टुप्
श्लेष्मघ्नी मल्लिकायां च ज्योतिष्मत्यां च योषिति ।शोभनः स्याद्योगभेदे सुन्दरे वाच्यलिङ्गकः ॥
20.3.103 · p. 200
अनुष्टुप्
सवनं यजने स्नाने सोमनिर्दलनेऽपि च ।स्तननं ध्वनिमात्रे स्यान्मेघशब्दे च कुञ्चिते ॥
20.3.104 · p. 200
अनुष्टुप्
समानं सत्समैकेषु त्रिषु ना नाभिमारुते ।सन्तानं सन्ततौ गोत्रे स्यादपत्येऽमरद्रुमे ॥
20.3.105 · p. 200
अनुष्टुप्
स्पर्शनः स्यात्तु पवने दाने स्पर्शे नपुंसकम् ।संस्थानमाकृतौ मृत्यौ सन्निवेशे चतुष्पथे ॥
20.3.106 · p. 200
अनुष्टुप्
स्यन्दनं तु स्रुतौ नीरे स्यन्दनस्तिनिशे रथे ।सज्जनं तु रथे क्लीबमुपरक्षणघट्टयोः ॥
20.3.107 · p. 201
अनुष्टुप्
सन्धानं स्यादभिषवे तथा सङ्घट्टनेऽपि च ।सम्पन्नं स्यात्साधितेऽपि सम्पत्तिसहितेऽन्यवत् ॥
20.3.108 · p. 201
अनुष्टुप्
सतीनः कथितो वेणौ विद्वद्भिस्तृणकेतुवत् ।स्पन्दाग्निः स्थूलकाष्ठाग्नौ स्तम्भनः स्थैर्यकारिणि ॥
20.3.109 · p. 201
अनुष्टुप्
सन्धिनी वृषभाक्रान्ताऽकालदुग्धोस्रयोरपि ।सदनं मन्दिरे तोये संव्यानं सदनेऽंशुके ॥
20.3.110 · p. 201
अनुष्टुप्
स्थापनं रोपणे पुंसवने पाठौपधौ स्त्रियाम् ।साधनं यज्ञकर्मान्ते यजमानप्रचेतसोः ॥
20.3.111 · p. 201
अनुष्टुप्
साधनं मृतसंस्कारे सैन्ये सिद्धौ गतौ वधे ।सूचनाऽभिनये दृष्टौ व्यधने गन्धनेऽपि च ॥
20.3.112 · p. 201
अनुष्टुप्
सेचनं रक्षणे सेके नौकायाः सेकभाजने ।सेनानीः कार्तिकेये स्यात्तथा सेनापतावपि ॥
20.3.113 · p. 201
अनुष्टुप्
स्यात्सोपानं तु निःश्रेण्यां सुकुमारे? तु वाच्यवत् ।सेवनं सीवनोपास्त्योर्हस्तिनी गजयोषिति ॥
20.3.114 · p. 201
अनुष्टुप्
जातिभेदे स्त्रियश्चापि हसनो (हा)स्यकारिणि ।हसनं च भवेद्धासेऽङ्गारधान्यां तु योषिति ॥
20.3.115 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हायनो न स्त्रियां वर्षे पुंस्यर्चिर्व्रीहिभेदयोः ।ह्रदिनी ह्रादिनी नद्यां ह्रादिनी वज्रविद्युतोः ॥
20.3.116 · p. 201
अनुष्टुप्
हिण्डनं हेलनं चोभे क्रमाद्भ्रमणहेलयोः ।
20.3.117 · p. 202