कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

षान्तवर्गः · षद्वितीयम्

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये शान्तवर्गः ॥

॥ अथ षान्तवर्गः ॥

॥ अथ षद्वितीयम्‌ ॥

अर्षो रोगविशेषे स्यादार्षः स्यादृषिसम्भवे ।उषा स्याद्बाणकन्यायां रात्रावपि तथा मता ॥
31.1.1 · p. 330
अनुष्टुप्
उषस्तु रात्रिशेषे स्यात्तथा कामिनीगुग्गुलौ ।ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम् ॥
31.1.2 · p. 330
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नी (wrong syllable)
ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणकेऽपि च ।कृतवेधे त्वन्यलिङ्गो नक्षत्रे पुन्नपुंसकम् ॥
31.1.3 · p. 330
अनुष्टुप्
कर्षस्तु मानभेदे स्यात्कर्षणेऽपि प्रकीर्तितः ।कर्षूः स्मृतः करीषाग्नौ तथा कुल्येष्टिखातयोः ॥
31.1.4 · p. 330
अनुष्टुप्
कोषः खड्गपिधाने स्याद्दिव्ये पात्रे च कुड्मले ।जातिकोशेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥
31.1.5 · p. 330
अनुष्टुप्
घोषस्त्वाभीरपल्ल्यां स्यात्कांस्ये चाम्बुदनिस्वने ।गोपालध्वनिघोषे च घोषा मधुरिकौषधौ ॥
31.1.6 · p. 330
अनुष्टुप्
झषा नागबलायां स्यात्तापमत्स्याटवीषु ना ।पिपासालिप्सयोस्तर्षस्तुषो धान्यत्वगक्षयोः ॥
31.1.7 · p. 330
अनुष्टुप्
तृषा लिप्सातृष्णयोश्च दोषा रात्रौ मता स्त्रियाम् ।दोषः करे च पापेऽपि प्रैषः क्लेशे च मर्दने ॥
31.1.8 · p. 330
अनुष्टुप्
उन्मादे प्रेषणे चापि पौषो मासान्तरे मतः ।मार्षः शाकविशेषेऽपि सतां मारिषवन्मतः ॥
31.1.9 · p. 330
अनुष्टुप्
माषो व्रीह्यन्तरे मूर्खे माने त्वग्भेददोषयोः ।मिषं व्याजे स्पर्धने च मेषो राश्यन्तरे पशौ ॥
31.1.10 · p. 331
अनुष्टुप्
वर्षोऽस्त्री भारतादौ च जम्बूद्विपाब्दवृष्टिषु ।प्रावृट्काले स्त्रियां भूम्नि विषं क्ष्वेडे जलेऽपि च ॥
31.1.11 · p. 331
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्वि (wrong syllable)
विषा त्वौषधभेदे स्याद्वृषो राश्यन्तरे मतः ।धर्मे च गोपतौ शुक्रे शुक्रले वासके वरे ॥
31.1.12 · p. 331
अनुष्टुप्
मूषके मैथुनेऽपि स्यात्कपिकच्छ्वां वृषा स्मृता ।शृङ्ग्यां वृषा निगदिता यतीनामासने वृषी ॥
31.1.13 · p. 331
अनुष्टुप्
शुषिः शोषे बिले स्त्री स्याच्छेषः सङ्कर्षणेऽपि च ।वधेऽनन्ते चोपयुक्तेतरनिर्माल्यवस्तुनि ॥
31.1.14 · p. 331
अनुष्टुप्
शोषो यक्ष्मणि शुष्कत्वे हर्षस्तोषे हृषिस्तथा ।ह्रेषाऽश्वशब्दे गदिता शब्दमात्रेऽपि कुत्रचित् ॥
31.1.15 · p. 331
अनुष्टुप्