कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

वान्तवर्गः · वतृतीयम्

॥ इति वद्वितीयम्‌ ॥

॥ अथ वतृतीयम्‌ ॥

अभावो मरणेऽसत्वेऽप्यधवा विधवास्त्रियाम् ।अटवी तु वने प्रोक्ता निःशब्दे त्वरवो मतः ॥
29.3.1 · p. 319
अनुष्टुप्
अश्रवः श्रोत्ररहितेऽप्याहवो यागयुद्धयोः ।आर्तवं स्त्रीरजस्युक्तमृतुजे तु मतं त्रिषु ॥
29.3.2 · p. 319
अनुष्टुप्
आश्रवोऽङ्गीकृतौ क्लेशे नान्यवद्वचनस्थिते ।आरावश्चारवः शब्देऽप्याप्लवं स्नान ईष्यते ॥
29.3.3 · p. 319
अनुष्टुप्
उद्धवो यादवभिदि महे च क्रतुपावके ।उत्सवो मह उत्सेक इच्छाप्रसरकोपयोः ॥
29.3.4 · p. 319
अनुष्टुप्
कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरयोः ।किरवः स्यात्तु दुःशब्दे कितवो मत्तधूर्त्तयोः ॥
29.3.5 · p. 319
अनुष्टुप्
कनकाह्वयवृक्षे च पेचके कितवो मतः ।केशवोऽजे च पुन्नागे पुंसि केशवति त्रिषु ॥
29.3.6 · p. 319
अनुष्टुप्
कैतवं तु छले द्यूते कैरवः कितवे रिपौ ।कैरवी चन्द्रिकायां स्यात्कुमुदेऽपि तु कैरवम् ॥
29.3.7 · p. 319
अनुष्टुप्
कौरवो राजभेदेऽपि तथा काके निगद्यते ।नभश्चरे च गन्धर्वो रागभेदे तुरङ्गमे ॥
29.3.8 · p. 319
अनुष्टुप्
पुंस्कोकिले गायके वा चाऽन्तराभवदेहके ।गालवो लोध्रवृक्षे स्यान्मुनिभेदे च कीर्तितः ॥
29.3.9 · p. 319
अनुष्टुप्
गाण्डीवो गाण्डिवश्चापि कार्मुकेऽर्जुनकार्मुके ।गाण्डीवगाण्डिवे क्लीबे स्यातामर्जुनधन्वनि ॥
29.3.10 · p. 320
अनुष्टुप्
तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति ।मांसिकाकटुरोहिण्योस्तरस्वी शरवेगिनोः ॥
29.3.11 · p. 320
अनुष्टुप्
ताण्डवं तृणभेदे स्यान्नाट्ये च परिकीर्तितम् ।त्रिदिवं तु सुखे स्वर्गे स्वर्णद्यां त्रिदिवा मता ॥
29.3.12 · p. 320
अनुष्टुप्
द्विजिह्वस्तु खले सर्पे दीदिविर्धिषणान्नयोः ।दानवस्तु दनोः पुत्रे काष्ठीये दारवं मतम् ॥
29.3.13 · p. 320
अनुष्टुप्
वृक्षजे द्रुभवं प्राहुर्धेनुजे धैनवं मतम् ।निष्पावस्तु शूर्पवायौ राजमाषे कडङ्गरे ॥
29.3.14 · p. 320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
निष्पावः शिम्बिकायां स्यान्निर्विकल्पेऽन्यलिङ्गकः ।निह्नवो निकृतौ प्रोक्त(श्चा)विश्वासापलापयोः ॥
29.3.15 · p. 320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रभवो जन्महेतौ स्यात्प्रभावे वत्सरेऽपि च ।आद्योपलब्धये स्थानेऽपाम्मूले मुनिभिद्यपि ॥
29.3.16 · p. 320
अनुष्टुप्
प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ।उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्मतः ॥
29.3.17 · p. 320
अनुष्टुप्
प्रभावस्तेजसि प्रोक्तः शक्तौ चापि पराक्रमे ।पल्लवो विटपे खड्गे विस्तरेऽपि चले मतः ॥
29.3.18 · p. 320
अनुष्टुप्
शृङ्गारेऽलक्तरागेऽपि तथा किसलयेऽपि च ।पञ्चत्वं चापि पञ्चानां भावे प्राणात्ययेऽपि च ॥
29.3.19 · p. 321
अनुष्टुप्
पार्थिवो नृपतौ भूमिविकारे पार्थिवं त्रिषु ।पार्थिवी पार्थिवा चापि पृथिव्यां तु मता स्त्रियाम् ॥
29.3.20 · p. 321
अनुष्टुप्
पार्थिवी स्यात्तुगायां च पुङ्गवो भेषजे मतः ।बलीवर्दै च श्रेष्ठेऽपि फेरवो जम्बुकेऽस्रपे ॥
29.3.21 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
बल्लवः सूपकारे स्याद्भीमसेने च गोदुहि ।बान्धवो बन्धुसुहृदोर्भार्गवो गजधन्विनोः ॥
29.3.22 · p. 321
अनुष्टुप्
शुक्रे परशुरामे च भार्गवी पार्वतीश्रियोः ।दूर्वायां चापि कथिता भैरवः शङ्करे मतः ॥
29.3.23 · p. 321
अनुष्टुप्
भैरवी तु स्त्रियां देव्यां भीषणे वाच्यलिङ्गकः ।माधवोऽजे मधौ राधे वासवे ना स्त्रियां मिषौ ॥
29.3.24 · p. 321
अनुष्टुप्
माधवी मद्यभेदेऽपि तथा यादवयोषिति ।कुट्टिन्यामपि वासन्त्यां माधवी मधुशर्करा ॥
29.3.25 · p. 321
अनुष्टुप्
मालवो देशभेदे स्यान्मानवो नरि कीर्तितः ।मानवश्च मनोर्वंशे भृङ्गराजे तु मार्कवः ॥
29.3.26 · p. 321
अनुष्टुप्
मार्त्तवं ? मृद्विकारे स्यान्मृदुत्वे मार्दवं स्मृतम् ।मेधावी ना शुके ब्राह्म्यां स्त्रियां मेधान्विते त्रिषु ॥
29.3.27 · p. 321
अनुष्टुप्
यादवो राजभेदे स्याद्राजीवं नलिने मतम् ।राजीवो हरिणे मीने राघवो रघुवंशजे ॥
29.3.28 · p. 321
अनुष्टुप्
महामीने च गदितो रौरवो नरकान्तरे ।वाडवो ब्राह्मणेऽपि स्याद्वाडवा द्विजयोषिति ॥
29.3.29 · p. 322
अनुष्टुप्
अश्वायां कुम्भदास्यां च मतो राजान्तरेऽपि ना ।वाडवं करणे स्त्रीणां घोटकौघे नपुंसकम् ॥
29.3.30 · p. 322
अनुष्टुप्
पाताले चाथ पुंसि स्याद्वाडवो वडवानले ।वासवः स्यान्महेन्द्रेऽपि विप्लवस्तु विपर्यये ॥
29.3.31 · p. 322
अनुष्टुप्
विभवो धननिर्वृत्त्योर्विद्रवो विद्रुतौ धियि ।विभावः स्यात्परिचये रण्डायां विधवा मता ॥
29.3.32 · p. 322
अनुष्टुप्
शात्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि ।शाम्भवस्तु भवेच्छैवेऽप्युमायां शाम्भवी मता ॥
29.3.33 · p. 322
अनुष्टुप्
श्रीभवो मदने प्रोक्तः श्रीधवो गरुडध्वजे ।सम्भवः कथितो हेतावुत्पत्तौ मेलकेऽपि च ॥
29.3.34 · p. 322
अनुष्टुप्
आधारानतिरिक्तत्वेऽप्याधेयस्य निगद्यते ।संरवः कथितः शब्दे स्वभावः प्रकृतौ स्मृतः ॥
29.3.35 · p. 322
अनुष्टुप्
सुग्रीवः स्यात्कृष्णहये तथैव प्लवगेश्वरे ।सुग्रीवः शोभनग्रीवे सुसवः प्रसवे शुभे ॥
29.3.36 · p. 322
अनुष्टुप्
सुषवी कारवेल्ले स्यात्कृष्णजीरकजीरयोः ।सुधन्वा प्रौढधानुष्के तथा स्याद्विश्वकर्मणि ॥
29.3.37 · p. 322
अनुष्टुप्
विष्णौ नृपविशेषे च सुपर्वा तु शरे मतः ।त्वक्सारेऽपि सुपर्वा स्यात्पर्वधूमसुरेष्वपि ॥
29.3.38 · p. 322
अनुष्टुप्
सैन्धवं माणिमन्थेऽपि सिन्धुदेशोद्भवाश्वयोः ॥
29.3.39 · p. 322