कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

घान्तवर्गः · घद्वितीयम्

॥ अथ घद्वितीयम्‌ ॥

अघं तु व्यसने दुःखे दुरिते च निगद्यते ।अघो दैत्यविशेषे स्यादर्घः पूजाविधौ मतः ॥
4.2.1 · p. 69
अनुष्टुप्
अर्थोऽपि कथितो मूल्ये स्यादुद्घो देहजानिले ।अग्नौ हस्तपुटे शस्तेऽप्योघो नृत्योपदेशयोः ॥
4.2.2 · p. 69
अनुष्टुप्
वृन्दे परम्परायां च वेगे च सलिलस्य च ।मघा नक्षत्रभेदे स्याद्धान्यभेदे मघी मता ॥
4.2.3 · p. 69
अनुष्टुप्
मघो द्वीपान्तरे मेघो मुस्ताजलदयोः स्मृतः ।मोघा तु पाटलायां स्याद्धीननिष्फलयोस्त्रिषु ॥
4.2.4 · p. 69
अनुष्टुप्
लघुर्मनोज्ञेऽप्यगुरौ निःसारे वाच्यलिङ्गवत् ।शीघ्रे कृष्णागुरुणि च पृक्वानामौषधावपि ॥
4.2.5 · p. 69
अनुष्टुप्
श्लाघा मता प्रशंसायां परिचर्याभिलाषयोः ।
4.2.6 · p. 69