All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
तान्तवर्गः · तचतुर्थम्
॥ इति ततृतीयम् ॥
॥ अथ तचतुर्थम् ॥
अपस्नातो मृतस्नातेऽपहते स्यादयाहृतम् ।पराभूतेऽभिभूतः स्यादभीष्टे स्यादभीष्टितम् ॥
16.4.1 · p. 158
अनुष्टुप्
सम्मूर्च्छनेऽभिव्याप्तिः स्यादवध्वस्तोऽवचूर्णिते ।अतिरिक्तः समधिकेऽतिपातः स्यादुपात्यये ॥
16.4.2 · p. 158
अनुष्टुप्
अहर्पतिश्चित्रभानावंशुमानपि गद्यते ।सम्मते स्यादनुमतं सम्प्राप्तेऽधिगतं विदुः ॥
16.4.3 · p. 158
अनुष्टुप्
अवज्ञाते त्ववगतं द्वेष्येऽक्षिगत ईरितः ।अभिनीतस्त्रिषु न्याय्ये संस्कृतामर्षिणोरपि ॥
16.4.4 · p. 158
अनुष्टुप्
अभिजातः कुलीने स्यान्न्याय्यपण्डितयोस्त्रिषु ।अभियुक्तः परैरुद्धे तत्परेऽप्यभिधेयवत् ॥
16.4.5 · p. 158
अनुष्टुप्
अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च ।अपध्वस्तः परित्यक्ते निन्दितेऽप्यवचूर्णिते ॥
16.4.6 · p. 158
अनुष्टुप्
अधिक्षिप्तः प्रणिहिते कुत्सिते भर्त्सिते त्रिषु ।अम्बूकृतं सनिष्ठीवे तथाम्बुबहुलीकृते ॥
16.4.7 · p. 158
अनुष्टुप्
दर्पेऽप्यहङ्कृतिः सालपर्ण्यामंशुमती स्मृता ।क्षमार्चयोरपचितिर्निष्कृतिव्यवहानिषु ॥
16.4.8 · p. 158
अनुष्टुप्
स्याच्चानुमतिरूनेन्दुपूर्णिमानुज्ञयोरपि ।सावधाने त्ववहितोऽप्यनुयातोऽनुगन्तरि ॥
16.4.9 · p. 159
अनुष्टुप्
अभिशस्तिः प्रार्थनापवादयोश्च स्त्रियां मता ।स्यादथावसितमृद्धे ज्ञाते चाप्यवसानगे ॥
16.4.10 · p. 159
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 त (wrong syllable)
स्याच्चैवार्थपतिर्भूमीनाथे चार्थस्य पातरि ।अवदातं सिते गौरे विशुद्धेऽप्यन्यलिङ्गवत् ॥
16.4.11 · p. 159
अनुष्टुप्
अवगीतं च निर्वादे दुष्टगर्हितयोरपि ।अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत् ॥
16.4.12 · p. 159
अनुष्टुप्
अङ्गारितं तु दग्धे स्यात्पलाशकलिकोद्गमे ।अपावृत्तस्त्वपहिते स्वतन्त्रेऽपि च वाच्यवत् ॥
16.4.13 · p. 159
अनुष्टुप्
गवेषितेऽन्वेषितं स्यात्सम्प्राप्तेऽवनतं विदुः ।कार्ये नियुक्तोऽधिकृतो वारिवाहे तथाम्बुभृत् ॥
16.4.14 · p. 159
अनुष्टुप्
आयुष्मान् योगभेदे स्याच्चिरजीविनि वाच्यवत् ।आसादितं भाविते स्यात्सम्प्राप्तेऽपि च वाच्यवत् ॥
16.4.15 · p. 159
अनुष्टुप्
अक्षारितोऽभिशस्तेऽपि त्ववाग्रेऽभ्यानतं मतम् ।आशंसिताऽऽशंसुनि स्यादान्दोलितस्तु कम्पिते ॥
16.4.16 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
आकम्पिताघूर्णितौ च कम्पितार्थो मतावुभौ ।इलापतिर्भूपमात्रे विशेषेऽपि महीपतेः ॥
16.4.17 · p. 159
अनुष्टुप्
इन्द्रजिद्रावणसुते गरुडेऽपि निगद्यते ।उमापतिर्महेशे स्यादनिरुद्ध उषापतिः ॥
16.4.18 · p. 160
अनुष्टुप्
उपवीतमुत्तरीये चोपश्रुतमुपगतं च विदिते स्यात् ।उरीकृतमूररीकृतमिव मतमङ्गीकृते वैतत् ॥
16.4.19 · p. 160
metre not recognised
उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ।उपाकृतोऽध्वरहते पशौ नोपद्रुते त्रिषु ॥
16.4.20 · p. 160
अनुष्टुप्
उदास्थितः प्रतीहारे प्रव्रज्यावसितेऽपि च ।उद्ग्राहितमुदीर्णेऽपि बद्धग्राहितयोरपि ॥
16.4.21 · p. 160
अनुष्टुप्
समृद्धे स्यादुपचितं परिदग्धे च वाच्यवत् ।उज्जृम्भितं समुत्फुल्ले स्याच्चेष्टायां नपुंसकम् ॥
16.4.22 · p. 160
अनुष्टुप्
व्यसनार्ते तूपरक्तो राहुग्रस्तेन्दुसूर्ययोः ।उपसत्तिस्तु सेवायां सङ्गमात्रेऽपि योषिति ॥
16.4.23 · p. 160
अनुष्टुप्
उद्वाहितः कृतोद्वाहे कम्पितोत्कम्पिते समे ।ऊर्ध्वासितोऽपि गदितो बुधै राजपटोलके ॥
16.4.24 · p. 160
अनुष्टुप्
ऋष्यप्रोक्ता शतावर्यां शूकशिम्ब्यां च योषिति ।तथैवातिबलायां स्यादृभुमाताऽदितावपि ॥
16.4.25 · p. 160
अनुष्टुप्
ऐरावतोऽभ्रमातङ्गे लकुचे नागरङ्गके ।नागभेदे च गदितो विद्युत्तद्भेदयोः स्त्रियाम् ॥
16.4.26 · p. 160
अनुष्टुप्
कुहरितं निगदितं पिकालापे रतध्वनौ ।कुमुद्वती कुमुदिनीकुशपत्न्योः स्त्रियां मता ॥
16.4.29 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
कुमुद्वान् कुमुदप्राये देशे तु स्यात्पुमानयम् ।कृष्णवृन्ता तु पाटल्यां माषपर्ण्यामपीरिता ॥
16.4.30 · p. 161
अनुष्टुप्
गन्धवती सुराव्यासमातृभूषु पुरीभिदि ।गवेषितं स्यादन्विष्टे वह्नौ गृहपतिः पुमान् ॥
16.4.31 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
तथा गृहपतिः प्रोक्तो गृहस्थेऽपि च सत्रिणि ।गोपायितं रक्षिते स्याच्चन्द्रकान्तं महोत्पले ॥
16.4.32 · p. 161
अनुष्टुप्
चन्द्रकान्तस्तु पुंसि स्यान्मणिभेदे च कैरवे ।चन्द्रकान्ता तु रोहिण्यां कुमुदिन्यां तथा दिवि ॥
16.4.33 · p. 161
अनुष्टुप्
चर्मण्वती सरिद्भेदे कदलीपादपे स्त्रियाम् ।चित्रगुप्तः श्राद्धदेवे तथा तस्य च लेखके ॥
16.4.34 · p. 161
अनुष्टुप्
ज्योतिष्मती लतारात्र्योश्चन्द्रे तारापतिर्मतः ।दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसायिनोः ॥
16.4.35 · p. 161
अनुष्टुप्
दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ।द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः ॥
16.4.36 · p. 161
अनुष्टुप्
दृषद्वती नदीभेदे तथा कात्यायनीभुवोः ।स्याद्धूमकेतुरुत्पातभेदे वैश्वानरेऽपि च ॥
16.4.37 · p. 161
अनुष्टुप्
कुबेरे स्याद्धनपतिस्तथा स्याद्धनवत्यपि ।नन्द्यावर्तो वेश्मभेदे तथाच तगरद्रुमे ॥
16.4.38 · p. 162
अनुष्टुप्
नदीकान्तः समुद्रे स्याद् हिज्जले सिन्धुवारके ।नदीकान्ता स्त्रियां जम्बां काकजङ्घौषधावपि ॥
16.4.39 · p. 162
अनुष्टुप्
नागदन्तो द्विपरदे गृहान्निर्गतदारुणि ।नागदन्ती तु कुम्भायां हस्तिन्यामपि योषिति ॥
16.4.40 · p. 162
अनुष्टुप्
निस्तुषितं त्वभित्यक्ते त्वग्विहीने लघूकृते ।निराकृति रनाकारेऽप्यस्वाध्याये निवारणे ॥
16.4.41 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)
परिपीतं तु निष्पीते परिस्तीर्णे परिश्रितम् ।परिगीतं संस्तुते परावृत्तं पुनरागते ॥
16.4.42 · p. 162
अनुष्टुप्
परिध्वस्तमपध्वस्ते निराकृति पराकृतम् ।भवेत्परिगतं प्राप्तौ विस्मृतज्ञातचेष्टिते ॥
16.4.43 · p. 162
अनुष्टुप्
अथ प्रणिहितं न्यस्ते प्राप्तेऽपि च समाहिते ।लाक्षारक्ते पल्लवितं तथा सपल्लवे तते ॥
16.4.44 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
प्रतिहतं तु द्विष्टे स्यात्प्रतिस्खलितरुद्धयोः ।प्रतिक्षिप्तं वारिते स्यात्प्रोषिते पञ्चकं त्रिषु ॥
16.4.45 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ति (wrong syllable)
परिवर्तो विनिमये कूर्मराजे पलायने ।परिस्रुता स्याद्वारण्यां स्यन्दे स्यादभिधेयवत् ॥
16.4.46 · p. 162
अनुष्टुप्
पञ्चगुप्तस्तु कमठे तथा चार्वाकदर्शने ।प्रजापतिस्तु भूपाले दक्षादौ च विधातरि ॥
16.4.47 · p. 163
अनुष्टुप्
प्रतिपत्तिः प्रवृत्तौ स्यात्प्रगल्भत्वे च गौरवे ।पदप्राप्तौ प्रबोधे च सम्प्राप्तावपि कथ्यते ॥
16.4.48 · p. 163
अनुष्टुप्
प्रधूपिता क्लेशितायां सूर्यगन्तव्यदिश्यपि ।अथ प्रव्रजिता मुण्डीतापसीमांसिकास्वपि ॥
16.4.49 · p. 163
अनुष्टुप्
प्रतिकृतिः प्रतिनिधिप्रतिकारार्चनास्वपि ।अथ प्रज्वलितो दीप्ते शिवे पशुपतिर्मतः ॥
16.4.50 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
बकपुष्पे पाशुपतं पशुपत्यधिदैवते ।पारिजातः पारिभद्रे तथा देवद्रुमेऽपि च ॥
16.4.51 · p. 163
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
स्यात्पाशभृत्तु वरुणे प्राणिद्यूतं तु संयुगे ।वैवस्वते पितृपतिः पुष्पदन्तस्तु दिग्गजे ॥
16.4.53 · p. 163
अनुष्टुप्
विद्याधरविशेषे च पूजिते स्यात्पुरस्कृतः ।अरिग्रस्तेऽभिशस्ते च तथैवाग्रकृतेऽपि च ॥
16.4.54 · p. 163
अनुष्टुप्
भगवान्ना जिने पूज्ये गौर्यां भगवती मता ।अथ भोगवती नागपुरीनद्योरहौ पुमान् ॥
16.4.55 · p. 163
अनुष्टुप्
कुट्टिन्यां स्याद्रङ्गमाता वृक्षे रोगान्तरेऽपि च ।रथगुप्तिर्वरूथे स्यात्पुमान् रतिपतिः स्मरे ॥
16.4.56 · p. 163
अनुष्टुप्
राजहस्ती निगदितो गजे सद्भिर्मदोत्कटे ।लक्ष्मीपतिर्वासुदेवे तथाऽमरपतावपि ॥
16.4.57 · p. 164
अनुष्टुप्
व्यतीपातो महोत्पाते योगभेदापमानयोः ।वनस्पतिर्वृक्षमात्रे विना पुष्पं फलिन्यपि ॥
16.4.58 · p. 164
अनुष्टुप्
बहुसुता शतावर्यां बालहस्तस्तु बालधौ ।वाचस्पतिः सुराचार्ये विष्णुक्रान्तौषधीलयोः ॥
16.4.59 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
विनिपातोऽवपाते स्याद्दैवादिव्यसनेऽपि च ।विजृम्भितं विचेष्टायां तथा विकस्वरेऽपि च ॥
16.4.60 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
विवस्वानर्कसुरयोस्तत्पुर्यां तु विवस्वती ।विलम्बितं लम्बिते स्यादतीतसमयेऽपि च ॥
16.4.61 · p. 164
अनुष्टुप्
विपरीतं प्रसृते स्याद्विवाचाऽप्यन्यथाकृते ।विश्वगोप्ता हृषीकेशे वैजयन्तो ध्वजे पुमान् ॥
16.4.62 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सृ (wrong syllable)
प्रासादे च महेन्द्रस्य पताकायां तु योषिति ।शक्रधात्रोः शतधृतिः शततन्तुर्बिडौजसि ॥
16.4.63 · p. 164
अनुष्टुप्
शुभदन्ती सुदत्यां स्यात्पुष्पदन्तस्य योषिति ।समुद्गतं वाच्यवत्स्यात्समुद्गीर्णाविनीतयोः ॥
16.4.64 · p. 164
अनुष्टुप्
सदागतिर्नार्कवातनिवार्णेषु सदीश्वरे ।सरस्वांस्तु नदे वार्धौ नान्यवद्रसिके स्त्रियाम् ॥
16.4.65 · p. 164
अनुष्टुप्
वाणीस्त्रीरत्नवाग्देवीगोनदीषु नदीभिदि ।समुद्रान्ता तु कार्पासीपृक्कादुरालभासु च ॥
16.4.66 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
समाहितः समाधिस्थेऽप्युक्तः सिद्धान्त आहिते ।निर्विवादीकृतेऽपि स्यात्समवर्ती पुमान्यमे ॥
16.4.67 · p. 165
अनुष्टुप्
मनुपत्न्यां सत्यवती तथा व्यासस्य मातरि ।स्वधासूतिर्मखे पुंसि समुदीर्णे समुदृतम् ॥
16.4.68 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable); pāda 4, syllable 6 मु (wrong syllable)
समाघातो वधे युद्धे सङ्ख्यावान्पण्डिते पुनः ।सङ्ख्यायुक्ते वाच्यलिङ्गः बुद्धे सुभाषितो मतः ॥
16.4.69 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
सुभाषितं तु सूक्ते स्यात्सूर्यभक्तोऽर्कपूजके ।बन्धूके च स्त्रियां सूर्यभक्ता स्यादौषधीभिदि ॥
16.4.70 · p. 165
अनुष्टुप्
उत्साहे सूत्रतन्तुः स्यादिति शब्दज्ञसम्मतम् ।सेनापतिः कार्तिकेयेऽथानीकाधिकृते पुमान् ॥
16.4.71 · p. 165
अनुष्टुप्
हस्तिदन्तो महाकन्दे विषाणे करिणोऽपि च ।हिमारातिर्वीतिहोत्रे तथा किरणमालिनी ॥
16.4.72 · p. 165
अनुष्टुप्
हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः ।क्षमापतिर्नरपतौ क्षमावाञ्शेषबुद्धयोः ॥
16.4.73 · p. 165
अनुष्टुप्