All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
जान्तवर्गः · जचतुर्थम्
॥ इति जतृतीयम् ॥
॥ अथ जचतुर्थम् ॥
कनिष्ठेऽवरजः प्रोक्तस्त्वहिभुग्बर्हितार्क्ष्ययोः ।कान्यकुब्जं कन्यकुब्जं समानं नीवृदन्तरे ॥
8.4.1 · p. 79
अनुष्टुप्
काश्मीरजं केसरे च कुष्ठे क्लीबेऽथ योषिति ।वदन्त्यतिविषायां च ग्रहराजो दिवाकरे ॥
8.4.2 · p. 80
अनुष्टुप्
गिरिराजः पुमान्मेरौ क्लीबं कालायसे (?)मतम् ।जघन्यजस्त्ववरजे वृषलेऽथ निशाकरे ॥
8.4.3 · p. 80
अनुष्टुप्
वैनतेये द्विजराजो तथोक्तोऽनन्तभोगिनि ।देवराजः सुनासीरे धर्मराजो युधिष्ठिरे ॥
8.4.4 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
समवर्त्तिनि बुद्धे च भारद्वाजो विहङ्गमे ।मुनौ च वनकार्पास्यां भारद्वाजी पुमानथ ॥
8.4.5 · p. 80
अनुष्टुप्
गुरोः पुत्रे पांडवानामाचार्येऽपि मतः पुमान् ।पक्षिराजो वैनतेये पर्णराजिस्तरौ क्वचित् ॥
8.4.6 · p. 80
अनुष्टुप्
भृङ्गराजः पक्षिभेदे मार्कवे च मधुव्रते ।मृगराजस्तु पञ्चास्ये महाराजो महीपतौ ॥
8.4.7 · p. 80
अनुष्टुप्
वनायुजोऽश्वभेदे स्यादपि वानायुजो मतः ।क्षीराब्धिजो निशाकान्ते लक्ष्म्यां क्षीराब्धिजा मता ॥
8.4.9 · p. 80
अनुष्टुप्