All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
क्षान्तवर्गः · क्षचतुर्थम्
॥ इति क्षतृतीयम् ॥
॥ अथ क्षचतुर्थम् ॥
कर्करार्क्षः खञ्जने स्याज्जलजाक्षो हये द्विपे ।कल्पवृक्षः प्रातराशे सुराणामपि पादपे ॥
34.3.1 · p. 347
अनुष्टुप्
देववृक्षः सप्तपर्णे मन्दरादौ च गुग्गुलौ ।भूतवृक्षस्तु शाखोटे तथा श्योनाकपादपे ॥
34.3.2 · p. 347
अनुष्टुप्
राजवृक्षः पियाले स्यात्सुवर्णालुपियालुके ।वीरवृक्षस्तु भल्लातककुभद्रुमयोर्मतः ॥
34.3.3 · p. 347
अनुष्टुप्
विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम् ।तथैव देवताभेदे गदितः शास्त्रकोविदैः ॥
34.3.4 · p. 347
अनुष्टुप्
शकटाक्षो धवद्रौ स्यात्कटाक्षसहितेऽपि च ।
34.3.5 · p. 347