All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
टान्तवर्गः · टद्वितीयम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये ञान्तवर्गः ॥
॥ अथ टान्तवर्गः ॥
॥ अथ टद्वितीयम् ॥
अट्टं गृहान्तरेऽत्यर्थे क्षौमे शुष्केऽन्धसि स्मृतम् ।सङ्ख्याविशेषे त्वष्टेति तथाऽऽटिर्विहगान्तरे ॥
11.1.1 · p. 83
अनुष्टुप्
अष्टिर्वृत्तविशेषेऽपि निर्दिष्टा तत्त्ववेदिभिः ।इष्टिस्तु सङ्ग्रहश्लोके तथा यागाभिलाषयोः ॥
11.1.2 · p. 83
अनुष्टुप्
इष्टमाशंसिते पूज्यतमे प्रियतमेऽन्यवत् ।इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि ॥
11.1.3 · p. 83
अनुष्टुप्
कटः श्रोणौ शवरथे किलिञ्जेऽतिशये शरे ।समये गजगण्डेऽपि पिप्पल्यां तु कटी मता ॥
11.1.4 · p. 83
अनुष्टुप्
कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि ।रसमात्रे तु पुल्लिङ्गमकार्ये तु नपुंसकम् ॥
11.1.5 · p. 83
अनुष्टुप्
त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ।कष्टं तु गहने कृच्छ्रे क्रुष्टं रोदनरावयोः ॥
11.1.6 · p. 83
अनुष्टुप्
कुष्टं स्यादौषधे रोगविशेषेऽपि कुटी मता ।कुम्भदास्यां सुरायां च तथोक्ता चित्रगुच्छके ॥
11.1.7 · p. 84
अनुष्टुप्
कूटोऽस्त्री निश्चले राशौ सीरावयवयन्त्रयोः ।मायाद्रिशृङ्गयोस्तुच्छे लौहमुद्गरदण्डयोः ॥
11.1.8 · p. 84
अनुष्टुप्
अनृतेऽपि बुधे कृष्टः कृष्टिराकर्षणे मता ।कोटिः स्त्री धनुषोऽग्रेऽश्रौ सङ्ख्याभेदप्रकर्षयोः ॥
11.1.9 · p. 84
अनुष्टुप्
खटस्तु कूपकफयोः प्रहारान्तरटङ्कयोः ।खाटिः शवरथेऽपि स्यात्किणेऽपि स्यादसद्ग्रहे ॥
11.1.10 · p. 84
अनुष्टुप्
खेटः कफे ग्रामभेदे चर्मण्यप्यस्त्रवत्यपि ।गृष्टिः सकृत्प्रसूतायां गवि स्याद्बदरेऽपि च ॥
11.1.11 · p. 84
अनुष्टुप्
घटी स्त्रियां कालमानकुम्भयोः पुंसि तद्वति ।घृष्टिस्तु घर्षणस्पर्द्धाविष्णुक्रान्तासु ना किरौ ॥
11.1.13 · p. 84
अनुष्टुप्
घोण्टा तु बदरीपूगवृक्षयोश्च निगद्यते ।चटु चाटु प्रिये वाक्ये चाटुकारे चटुः पुमान् ॥
11.1.14 · p. 84
अनुष्टुप्
व्रतीनामासने चापि पिचण्डेऽपि निगद्यते ।जटामांस्यां लग्नकचे वृक्षमूले वटे जटी ॥
11.1.15 · p. 84
अनुष्टुप्
उच्छिष्टे तु भवेज्जुष्टं सेवितेऽपि च वाच्यवत् ।झाटो निकुञ्जे कान्तारे व्रणादिपरिमार्जने ॥
11.1.16 · p. 84
अनुष्टुप्
झिण्टी त्वौषधिभेदे स्यादित्याहुः शब्दवेदिनः ।तटं क्षेत्रे प्रतीरे च त्रिषु त्वष्टा दिवाकरे ॥
11.1.17 · p. 85
अनुष्टुप्
तक्षमात्रेऽपि देवानां शिल्पिन्यपि निगद्यते ।स्यात्त्रुटिः संशये स्वल्पे सूक्ष्मैलाकालमानयोः ॥
11.1.18 · p. 85
अनुष्टुप्
त्रोटिस्तु कट्फले चञ्च्वां खगमीनविशेषयोः ।दिष्टं दैवे पुमान् काले दिष्टिर्मुत्परिमाणयोः ॥
11.1.19 · p. 85
अनुष्टुप्
स्त्रियां दृष्टिस्तथा बुद्धौ दर्शने लोचनेऽपि च ।परीक्षार्थे तुलायां च धटश्चीरे धटी मता ॥
11.1.20 · p. 85
अनुष्टुप्
नटी हट्टविलासिन्यां नील्यां शैलूषशोणयोः ।पटः पियालवृक्षे स्यात्पटे चित्रपटेऽपि च ॥
11.1.21 · p. 85
अनुष्टुप्
पटुस्तु चतुरे दक्षे नीरोगे चाभिधीयते ।छत्राके लवणे क्लीबे पटोले तु पुमानसौ ॥
11.1.22 · p. 85
अनुष्टुप्
पट्टी ललाटभूषायां तथा लाक्षाप्रसादने ।पट्टः पेषणपाषाणे व्रणादीनां च बन्धने ॥
11.1.23 · p. 85
अनुष्टुप्
चतुष्पथेऽथ राजादिशासनान्तरपीठयोः ।पट्टिस्तु पटभेदे स्त्री ललाटे कुम्भिकाद्रुमे ॥
11.1.24 · p. 85
अनुष्टुप्
पुष्टिस्तु पोषणे वृद्धौ पृष्टिस्तु परिमार्जने ।पोटेति गदिता सद्भिर्या स्त्री पुरुषलक्षणा ॥
11.1.25 · p. 85
अनुष्टुप्
फटा फणायां दम्भे च फाण्टः स्यादौषधान्तरे ।बटुः स्याद्देवताभेदे बटुस्तु ब्रह्मचारिणि ॥
11.1.26 · p. 85
अनुष्टुप्
भटः स्यात्पामरे पुंसि वीरे चापि भटो मतः ।भृष्टिः स्त्रियां मता शून्यारामे चैव तु भर्जने ॥
11.1.27 · p. 86
अनुष्टुप्
अव्यक्तवाचि म्लिष्टं स्यान्म्लाने स्याद्भेद्यगामि तत् ।मुष्टिर्बद्धाङ्गुलिकरे तथैव स्त्री पलान्तरे ॥
11.1.28 · p. 86
अनुष्टुप्
यष्टिस्त्सरौ तु पुंसि स्यात्तथैव भुजदण्डके ।द्वयोर्हारलताभार्ग्योर्मधुकाशस्त्रभेदयोः ॥
11.1.29 · p. 86
अनुष्टुप्
रिष्टः खड्गे फेनिले च रिष्टं स्यादशुभेऽपि च ।रिष्टिः खड्गे नाऽशुभे स्त्री लाटोऽनुप्रासदेशयोः ॥
11.1.30 · p. 86
अनुष्टुप्
अंशुके सारिकायां तु लट्टा शाकान्तरेऽपि च ।वटी वृक्षविशेषे तु वाटो मार्गे वृतिस्थले ॥
11.1.31 · p. 86
अनुष्टुप्
वाटी वनविशेषे स्यात्खदिरेऽद्रौ विटः स्मृतः ।तथैव लवणे शङ्खे मूषिकेऽपि निगद्यते ॥
11.1.32 · p. 86
अनुष्टुप्
विष्टिः कर्मकरे पुंसि भद्राख्ये करणे स्त्रियाम् ।प्रेषणे वेतने चापि व्युष्टं कल्ये निगद्यते ॥
11.1.33 · p. 86
अनुष्टुप्
व्युष्टिः फले समृद्धौ च षष्टिः सङ्ख्यान्तरे मता ।तथा व्रीहिविभेदे च सृष्टिः सर्गे तु योषिति ॥
11.1.34 · p. 86
अनुष्टुप्
सृष्टं तु निश्चिते क्लीबं प्राज्यनिर्मितयोस्त्रिषु ।सटा जटाकेसरयोः स्फुटं व्यक्ते विकस्वरे ॥
11.1.35 · p. 86
अनुष्टुप्
व्याप्ते त्रिषु स्फुटिर्योषित्पादस्फेटामयेऽपि च ।निर्भिन्ने कर्कटीबीजेऽप्यथ सृष्टं विनिर्मिते ॥
11.1.36 · p. 86
अनुष्टुप्
युक्तनिश्चितयोः प्राज्ये त्रिषु सृष्टिस्तु निर्मितौ ।स्वभावे चापि गदिता हृष्टो रोमाञ्चिते तथा ॥
11.1.37 · p. 87
अनुष्टुप्
सहर्षेऽपि प्रहसिते विस्मितेऽपि निगद्यते ।हट्टो वणिक्पथे प्रोक्तो हटी पुरतटी मता ॥
11.1.38 · p. 87
अनुष्टुप्
अक्षोटवन्मतः सद्भिः क्षोटो वृक्षान्तरे क्वचित् ।
11.1.39 · p. 87