कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कचतुर्थम् (2/2)

शृगालिका शिवायां स्यात् त्रासादपि पलायने ।शेफालिका तु निर्गुण्ड्यां शेलौ श्लेष्मातकं विदुः ॥
1.4.121 · p. 43
अनुष्टुप्
सन्तानिका तु क्षीरादिसारमर्कटजालयोः ।सतीनकः कलाये स्याद्भवेत्संकुसुकोऽस्थिरे ॥
1.4.122 · p. 43
अनुष्टुप्
संवर्तिका नवदले त्वौर्वे संवर्तको मतः ।प्रलयेऽपि भवेत्क्लीबं बलरामायुधे मतम् ॥
1.4.123 · p. 43
अनुष्टुप्
संवाहकस्त्वङ्गमर्दे दूत्यां सञ्चारिका मता ।सञ्चारिका च कुट्टिन्यां घ्राणेऽपि युगलेऽपि च ॥
1.4.124 · p. 44
अनुष्टुप्
समुद्गकः सम्पुटके वरदे तु समर्धकः ।सङ्घाटिका तु कुट्टिन्यां युग्मे च जलकण्टके ॥
1.4.125 · p. 44
अनुष्टुप्
सङ्घट्टकः सन्धिकरे तरुभेदे समष्ठिका ।सन्दंशको लोहयन्त्रे तथा सन्दंशिका मता ॥
1.4.126 · p. 44
अनुष्टुप्
स्वाभाविकं स्यात्सहजे सभ्ये सामाजिकः स्मृतः ।सांयात्रिकः पोतवणिग् दुःखे सांसारिकं मतम् ॥
1.4.127 · p. 44
अनुष्टुप्
सापत्निका स्यादध्यूढोद्वाहे साम्बन्धिकं विदुः ।रसनायां सारसिकं स्वर्जिक्षारे सुवर्चिका ॥
1.4.128 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सुप्रतीकः शोभनाङ्गे मतश्चेशानदिग्गजे ।सुगन्धिको महाशालौ वस्त्रभेदे सुचेलकः ॥
1.4.129 · p. 44
अनुष्टुप्
सुरूहको गर्दभाभहये हेम्नि सुवर्णकम् ।सुषेणिका स्यात् त्रिवृति पित्तले तु सुलोहकम् ॥
1.4.130 · p. 44
अनुष्टुप्
सुपार्श्वकस्तरुभिदि सुरलोकस्त्रिविष्टपे ।भक्ष्यकारे स्वेदनिकः क्लीबे स्वेदार्थकौषधे ॥
1.4.131 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
भवेत्सैकतिकं मातृयात्रामङ्गलसूत्रयोः ।त्रिषु संन्यस्तसन्देहजीविक्षपणकेष्वपि ॥
1.4.132 · p. 44
अनुष्टुप्
सैद्धान्तिकः प्राश्निके स्यात्सोमवल्कस्तु कट्फले ।तथैव श्वेतखदिरे सोमवल्क इतीरितः ॥
1.4.133 · p. 44
अनुष्टुप्
सौगन्धिकं तु कल्हारे पद्मरागे च कत्तृणे ।सुगन्धव्यवहारज्ञे गन्धके स्यात्तु पुंस्यपि ॥
1.4.134 · p. 45
अनुष्टुप्
सौराष्ट्रिका तुवर्यां स्याद्विषभेदे तु पुंस्यपि ।सौवस्तिकः पुरोधाः स्याद् हव्यपाकश्चरौ मतः ॥
1.4.135 · p. 45
अनुष्टुप्
हसन्तिकाऽङ्गारधान्यामभयायां हरीतकी ।हल्लीसकं तु स्त्रीनृत्ये यन्ता हस्तिपकः स्मृतः ॥
1.4.136 · p. 45
अनुष्टुप्
स्यात्क्षुद्रघण्टिका क्षुद्रधान्यघोरापगान्तरे(?) ।
1.4.137 · p. 45