कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

थान्तवर्गः · थद्वितीयम्

॥ इति थैकम्‌ ॥

॥ अथ थद्वितीयम्‌ ॥

मङ्गलार्थेऽथ शब्दः स्यादानन्तर्ये त्वथो ह्यथ ।अर्थी पुमान्याचके स्यात्सेवके च विवादिनि ॥
17.2.1 · p. 168
अनुष्टुप्
अर्थः प्रकारे विषये वित्तकारणवस्तुषु ।अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने ॥
17.2.2 · p. 168
अनुष्टुप्
आस्थाऽवलम्बनास्थानयत्नापेक्षासु गद्यते ।इत्थं परिष्कृतार्थे स्यादुत्थ उक्तस्तथोत्थिते ॥
17.2.3 · p. 168
अनुष्टुप्
कथा स्यात्तु पुरावृत्ते कथं प्रश्नार्थमव्ययम् ।कन्था मृन्मयभित्तौ स्यादपि प्रावरणान्तरे ॥
17.2.4 · p. 168
अनुष्टुप्
क्रथो देशविशेषेऽपि राजन्यपि मतः क्वचित् ।क्वाथो द्रवस्य निष्पाकेऽप्यतिदुःखे निगद्यते ॥
17.2.5 · p. 168
अनुष्टुप्
कुथः प्रवेणीकुशयोः कोथस्तु मथने मतः ।नेत्ररोगे च सटिते ग्रन्थस्तु ग्रथने मतः ॥
17.2.6 · p. 168
अनुष्टुप्
ग्रन्थो धने च सन्दर्भे द्वात्रिंशद्वर्णनिर्म्मितौ ।ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपर्णे गदान्तरे ॥
17.2.7 · p. 168
अनुष्टुप्
गाथा श्लोके संस्कृतान्यभाषायां गेयवृत्तयोः ।तथेत्यङ्गीकृतौ तीर्थमध्वरक्षेत्रयोरपि ॥
17.2.8 · p. 168
अनुष्टुप्
नारीरजस्युपाये च पात्रोपाध्यायमन्त्रिषु ।अवतारर्षिजुष्टाम्बुविशेषे च निगद्यते ॥
17.2.9 · p. 168
अनुष्टुप्
तुत्थं स्यादञ्जनभिदि नीलीसूक्ष्मैलयोः स्त्रियाम् ।दुस्थस्तु दुर्गते मूर्खे यश्च दुःखेन वर्तते ॥
17.2.10 · p. 169
अनुष्टुप्
प्रस्थोऽस्त्रियां मानभेदे पाथोऽर्केऽग्नौ जलेऽपि च ।पार्थस्तु ककुभे जिष्णौ पार्थं सत्यवचस्यपि ॥
17.2.11 · p. 169
अनुष्टुप्
पृथुर्भूपे कृष्णजीरे वाप्यां पृथुर्महत्यपि ।प्रोथश्च हयघोणायां कट्यामप्यध्वगे मतः ॥
17.2.12 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पृ (wrong syllable)
मन्थः स्याद्द्रवमन्थाननेत्रामयरविष्वपि ।तत्रैव गदितो विज्ञैर्मथिश्चापि मथोऽपि च ॥
17.2.13 · p. 169
अनुष्टुप्
यूथी पुष्पप्रभेदेऽथ यूथं तिर्यक्समूहके ।तुल्यार्थे तु यथेत्याहुः स्यन्दने वेतसे रथः ॥
17.2.14 · p. 169
अनुष्टुप्
तथा पुमानवयवे रथी तु रथसादिनि ।वीथी पङ्क्तौ गृहाङ्गे च रूपकान्तरवर्त्मनोः ॥
17.2.15 · p. 169
अनुष्टुप्
संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि ।सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके ॥
17.2.16 · p. 169
अनुष्टुप्
सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे ।
17.2.17 · p. 169