कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रपञ्चमम्

॥ इति रचतुर्थम् ॥

॥ अथ रपञ्चमम्‌ ॥

अगदङ्करस्तु वैद्येऽभिमतोऽग्रतःसरो भृत्ये ।संसक्तेऽत्वपटान्तरमनवस्करं तु निःशोध्ये ॥
27.5.1 · p. 293
metre not recognised
उत्पलपत्रं तूत्पलदलयोषानखक्षते गदितम् ।कपिलधारा गदिता स्वर्णद्यां तीर्थभेदेऽपि ॥
27.5.2 · p. 293
उपगीतिःmetre not read in every line
करशीकरस्तु गदितः शब्दाभिज्ञैर्मदे करिणः ।खरमञ्जरी शिखरिणी मृगनाभौ तु गन्धशेखरं प्राहुः ॥
27.5.3 · p. 293
उद्गीतिःmetre not read in every line
तद्वत्प्रचण्डपण्डैर्धनपे तु गुह्यकेश्वरो गदितः ।चन्द्रशेखरस्तु शम्भौ पुत्रोपस्कर ईरितः सद्भिः ॥
27.5.4 · p. 293
metre not recognised
रेषणनामकवृक्षे रक्षसि रजनीचरं प्राहुः ।लोहाभिसारमाहुर्नृपतेस्तुरङ्गपूजादौ ॥
27.5.5 · p. 293
उपगीतिःmetre not read in every line
तमालपत्रतिलके तापिच्छे पत्रके चापि ।इङ्गुद्यां तापसतरुः कौबेरे नलकूबरः प्रोक्तः ॥
27.5.6 · p. 293
metre not recognised
नागकेसरस्तरुभिदि प्रतिजागरो - - - - ।पांशुचामरस्तु दूर्वाञ्चितभूवि गदितश्च तत्त्वज्ञैः ॥
27.5.7 · p. 294
metre not recognised
तालीसपत्रं भूम्यामलकीतालीसयोर्गदितम् ।वर्धापकप्रशंसापूरोटुधूलिगुच्छकेष्वपि च ॥
27.5.8 · p. 294
उद्गीतिःmetre not read in every line
स्यात्पादचत्वरं छागे सैकते पिप्पलेऽपि च ।करके परदोषैकप्रवक्तृपुरुषेऽपि च ॥
27.5.9 · p. 294
अनुष्टुप्
पीतकावेरमित्युक्तं पित्तले कुङ्कुमेऽपि च ।मण्डलेश्वरमप्याहुः पुंसि सामन्तभूमिपे ॥
27.5.10 · p. 294
अनुष्टुप्
स्याद्राजबदरं रक्तामलके लवणेऽपि च ।वस्वौकसारेन्द्रपुरे कुबेरनलिनीपुरोः ॥
27.5.11 · p. 294
अनुष्टुप्
विप्रतीसार इत्युक्तः कौकृत्येऽनुशयेऽपि च ।व्योममुद्गर इत्युक्तो निर्घातेऽनन्यबुद्धिभिः ॥
27.5.12 · p. 294
अनुष्टुप्
स्याच्छाखानगरं नाम नगरस्योपकल्पके ।सनत्कुमार इत्युक्तश्चतुर्मखसुतेऽप्यथ ॥
27.5.13 · p. 294
अनुष्टुप्
स्यात्सन्देशहरो दूते कणिशे सस्यमञ्जरी ।स्यात्सोमवल्लरी सोमलतायां परिकीर्तिता ॥
27.5.14 · p. 294
अनुष्टुप्
स्यात्सस्यसंवरो वृक्षे पौनःपुन्येऽथ कीर्तितः ।भृशे समभिहारश्च सर्वतोभद्र इत्ययम् ॥
27.5.15 · p. 294
अनुष्टुप्
काव्यचित्रे धामभेदे तथा मण्डलभिद्यपि ।(नि)म्बे ना सर्वतोभद्रा गम्भार्यां नटयोषिति ॥
27.5.16 · p. 294
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 म्बे (syllables merged)