All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
क्षान्तवर्गः · क्षतृतीयम्
॥ इति क्षद्वितीयम् ॥
॥ अथ क्षतृतीयम् ॥
अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षेऽध्यक्षमुच्यते ।आरक्षं रक्षणीये स्थाच्छीर्षकर्मणि दन्तिनाम् ॥
34.2.1 · p. 346
अनुष्टुप्
उत्प्रेक्षाऽनवधानेऽपि काव्यालङ्करणान्तरे ।ऋभुक्षा तु शुनासीरे ऋभुक्षः स्वर्गवज्रयोः ॥
34.2.2 · p. 346
अनुष्टुप्
गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ ।गोरक्षः स्यान्नागरङ्गे गवां च परिरक्षके ॥
34.2.3 · p. 346
अनुष्टुप्
परीक्षा तत्त्वविज्ञाने प्रतीक्षा मार्गलक्षणे ।पद्माक्षं पद्मबीजे स्यात्पद्माक्षो ना मतो हरौ ॥
34.2.4 · p. 346
अनुष्टुप्
मत्स्याक्षी तु लताभेदे मीनाक्षी देवताभिदि ।रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥
34.2.5 · p. 346
अनुष्टुप्
समीक्षा ग्रन्थभेदेऽपि तत्वे बुद्धौ निभालने ।गदितः शब्दतत्वज्ञैः सौभिक्षस्त्विन्द्रजालिके ॥
34.2.6 · p. 347
अनुष्टुप्