All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
हान्तवर्गः · हचतुर्थम्
॥ इति हतृतीयम् ॥
॥ अथ हचतुर्थम् ॥
अभिग्रहोऽभिग्रहणेऽभियोगेऽपि च गौरवे ।लतोद्गमेऽवरोहः स्यादारोहेऽवतरेऽपि च ॥
33.3.2 · p. 343
अनुष्टुप्
अश्वारोहोऽश्ववाहे स्यादश्वगन्धौषधौ स्त्रियाम् ।उपनाहो व्रणालेपे तथा वीणानिबन्धने ॥
33.3.3 · p. 343
अनुष्टुप्
उपानत्स्यात्पादुकायामुक्षवाहो महेश्वरे ।उपग्रहस्तूपयोगेऽनुकूले व्रततावपि ॥
33.3.4 · p. 344
अनुष्टुप्
गन्धवाहो गन्धवहे नासायां पवने नरि ।तनूरुहं मतं लोम्नि पतत्रेऽपि तथाविधम् ॥
33.3.5 · p. 344
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
तमोऽपहो रवौ चन्द्रे जिने हव्यवहेऽपि च ।प्रतिग्रहस्तु स्वीकारे सैन्यपृष्ठे पतद्ग्रहे ॥
33.3.6 · p. 344
अनुष्टुप्
परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।शापे च परिबर्हस्तु राजयोग्ये परिच्छदे ॥
33.3.7 · p. 344
अनुष्टुप्
परीवाहो जलोच्छ्वासे भूपयोग्ये च वस्तुनि ।पितामहस्तातपितर्यपि धातरि कीर्तितः ॥
33.3.8 · p. 344
अनुष्टुप्
महासहा माषपर्ण्यामम्लानेऽपि च योषिति ।गोमयच्छत्रिकायां तु रसारोहमिति स्मृतम् ॥
33.3.9 · p. 344
अनुष्टुप्
वातासहो वातसहो वातुले स्यादिदं द्वयम् ।बलीवर्दे स्वधवहो गदितः पण्डितोत्तमैः ॥
33.3.10 · p. 344
अनुष्टुप्