All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
ढान्तवर्गः · ढद्वितीयम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये डान्तवर्गः ॥
॥ अथ ढान्तवर्गः ॥
॥ अथ ढद्वितीयम् ॥
गाढं शुण्ठ्यां क्षुद्रकूपे लवणेऽपि निगद्यते ? ।गूढं रहसि गुह्ये च संवृते पुनरन्यवत् ॥
14.1.1 · p. 101
अनुष्टुप्
दाढा स्यादपि दंष्ट्रायामभिलाषे च कीर्त्यते ।दृढः प्रगाढे स्थूले च नितान्ते बलवत्यपि ॥
14.1.2 · p. 101
अनुष्टुप्
माढिर्दैन्यप्रकाशेऽपि पत्रभङ्गौ च गद्यते ।मूढः स्यात्तन्द्रिते बाले स्थूणायां मेढिरुच्यते ॥
14.1.3 · p. 102
अनुष्टुप्
राढः स्याद्देशभेदेऽपि स्त्रियां स्यात्सूक्ष्मशोभयोः ।रूढो जाते प्रसिद्धे च बाढं दृढप्रतिज्ञयोः ॥
14.1.4 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दृ (wrong syllable)
व्यूढः स्यात्संहतौ चापि विन्यस्ते पृथुलेऽपि च ।वोढा भारवहे सूते षण्ढः स्यात्पुंसि गोपतौ ॥
14.1.5 · p. 102
अनुष्टुप्
आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि ।षोढा तु षट्प्रकारे स्यात् सोढा शक्ते निगद्यते ॥
14.1.6 · p. 102
अनुष्टुप्
तितिक्षासंयुते चापि सोढा स्यादभिधेयवत् ।
14.1.7 · p. 102