All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
षान्तवर्गः · षचतुर्थम्
॥ इति षतृतीयम् ॥
॥ अथ षचतुर्थम् ॥
अनिमेषः सुरे मत्स्येऽप्यनुकर्षोऽनुकर्षणे ।तथैव च रथस्याधःस्थितदारुणि चेष्यते ॥
31.3.1 · p. 333
अनुष्टुप्
अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ।अलम्बुषः प्रहस्ते च छर्दने राक्षसान्तरे ॥
31.3.2 · p. 333
अनुष्टुप्
अलम्बुषा तु मुण्डीर्यां सुकुमारीगणान्तरे ।अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे ॥
31.3.3 · p. 333
अनुष्टुप्
तथा नरकभेदेऽपि किशोरे च (र)वावपि ।आम्रातकेऽनुतापे चाप्यम्बरीष उदीरितः ॥
31.3.4 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अम्बरीषो वह्निभेदेऽप्याम्बरीषोऽपि गद्यते ।उक्तः किम्पुरुषो लोकभेदकिन्नरयोः पुमान् ॥
31.3.5 · p. 334
अनुष्टुप्
दशाकर्षी तु दीपे स्याद्ध्वान्तोन्मेषस्तमोमणौ ।नन्दिघोषोऽर्जुनरथे घोषे बन्दिजनस्य च ॥
31.3.6 · p. 334
अनुष्टुप्
पलङ्कषा गोक्षुरे स्याद्रास्नागुग्गुलकिंशुके ।मुण्डीरीलाक्षयोश्चापि राक्षसेऽपि पलङ्कषः ॥
31.3.8 · p. 334
अनुष्टुप्
महाघोषा तु कर्कट्यां शृङ्ग्यां हट्टातिघोषयोः ।मञ्जूधोषाऽप्सरोभेदे वीणापरभृतोरपि ॥
31.3.9 · p. 334
अनुष्टुप्
मार्गशीर्षो मतो मासे मृगशीर्षं तु भे मतम् ।वातरूषस्तु वातूलोत्कोचयोः शक्रधन्वनि ॥
31.3.10 · p. 334
अनुष्टुप्
समाकर्षी तु निर्हारिगुणे प्राहुर्मनीषिणः ।सर्ववेषी नटे प्रोक्तः पुंसि शब्दविशारदैः ॥
31.3.11 · p. 334
अनुष्टुप्